- ślokāḥ

  1. अकर्ताहमभोक्ताहमविकारोऽहमक्रियः । आनन्दघन एवाहमसङ्गोऽहं सदाशिवः ॥ ९३१ ॥ akartāhamabhoktāhamavikāro'hamakriyaḥ । ānandaghana evāhamasaṅgo'haṁ sadāśivaḥ ॥ 931 ॥
  2. अकामयितृता स्वप्नाद्दर्शनं घटते कथम् । अविद्यमानस्य तत आत्मास्तित्वं प्रतीयते ॥ ६०८ ॥ akāmayitṛtā svapnāddarśanaṁ ghaṭate katham । avidyamānasya tata ātmāstitvaṁ pratīyate ॥ 608 ॥
  3. अखण्डं सच्चिदानन्दमवाङ्मनसगोचरम् । आत्मानमखिलाधारमाश्रयेऽभीष्टसिद्धये ॥ २ ॥ akhaṇḍaṁ saccidānandamavāṅmanasagocaram । ātmānamakhilādhāramāśraye'bhīṣṭasiddhaye ॥ 2 ॥
  4. अखण्डाकारवृत्तिः सा चिदाभाससमन्विता । आत्माभिन्नं परं ब्रह्म विषयीकृत्य केवलम् ॥ ७९८ ॥ akhaṇḍākāravṛttiḥ sā cidābhāsasamanvitā । ātmābhinnaṁ paraṁ brahma viṣayīkṛtya kevalam ॥ 798 ॥
  5. अखण्डाख्या वृत्तिरेषा वाक्यार्थश्रुतिमात्रतः । श्रोतुः सञ्जायते किं वा क्रियान्तरमपेक्षते ॥ ७९३ ॥
  6. अखण्डानन्दसन्दोहो वन्दनाद्यस्य जायते । गोविन्दं तमहं वन्दे चिदानन्दतनुं गुरुम् ॥ १ ॥ akhaṇḍānandasandoho vandanādyasya jāyate । govindaṁ tamahaṁ vande cidānandatanuṁ gurum ॥ 1 ॥
  7. अखण्डामेवैतां घटितपरमानन्दलहरींपरिध्वस्तद्वैतप्रमितिममलां वृत्तिमनिशम् । अमुञ्चानः स्वात्मन्यनुपमसुखे ब्रह्मणि परेरमस्व प्रारब्धं क्षपय सुखवृत्त्या त्वमनया ॥ ७९१ ॥ akhaṇḍāmevaitāṁ ghaṭitaparamānandalaharīṁparidhvastadvaitapramitimamalāṁ vṛttimaniśam । amuñcānaḥ svātmanyanupamasukhe brahmaṇi pareramasva prārabdhaṁ kṣapaya sukhavṛttyā tvamanayā ॥ 791 ॥
  8. अखण्डैकरसत्वेन वाक्यार्थः श्रुतिसम्मतः । स्थूलसूक्ष्मप्रपञ्चस्य सन्मात्रत्वं पुनः पुनः ॥ ७२८ ॥ akhaṇḍaikarasatvena vākyārthaḥ śrutisammataḥ । sthūlasūkṣmaprapañcasya sanmātratvaṁ punaḥ punaḥ ॥ 728 ॥
  9. अङ्गारनद्यां तपने च कुम्भी - पाकेऽपि वीच्यामसिपत्रकानने । दूतैर्यमस्य क्रियमाणबाधां विचार्य को वा विरतिं न याति ॥ ३४ ॥ aṅgāranadyāṁ tapane ca kumbhī - pāke'pi vīcyāmasipatrakānane । dūtairyamasya kriyamāṇabādhāṁ vicārya ko vā viratiṁ na yāti ॥ 34 ॥
  10. अचेतनस्य दीपादेरर्थाभासकता यथा । तथैव चक्षुरादीनां जडानामपि सिध्यति ॥ ५४४ ॥ acetanasya dīpāderarthābhāsakatā yathā । tathaiva cakṣurādīnāṁ jaḍānāmapi sidhyati ॥ 544 ॥
  11. अच्छिन्नश्छिन्नवद्भाति पामराणां घटादिना । ग्रामक्षेत्राद्यवधिभिर्भिन्नेव वसुधा यथा ॥ ६९६ ॥ acchinnaśchinnavadbhāti pāmarāṇāṁ ghaṭādinā । grāmakṣetrādyavadhibhirbhinneva vasudhā yathā ॥ 696 ॥
  12. अजहल्लक्षणा वापि सा जहल्लक्षणा यथा । गुणस्य गमनं लोके विरुद्धं द्रव्यमन्तरा ॥ ७४४ ॥ ajahallakṣaṇā vāpi sā jahallakṣaṇā yathā । guṇasya gamanaṁ loke viruddhaṁ dravyamantarā ॥ 744 ॥
  13. अज्ञात्वैव हि निक्षेपंभिक्षामटति दुर्मतिः । स्ववेश्मनि निधिं ज्ञात्वाको नु भिक्षामटेत्सुधीः ॥ ६३६ ॥ ajñātvaiva hi nikṣepaṁbhikṣāmaṭati durmatiḥ । svaveśmani nidhiṁ jñātvāko nu bhikṣāmaṭetsudhīḥ ॥ 636 ॥
  14. अज्ञात्वैवं परं तत्त्वं मायामोहितचेतसः । स्वात्मन्यारोपयन्त्येतत्कर्तृत्वाद्यन्यगोचरम् ॥ ४२८ ॥ ajñātvaivaṁ paraṁ tattvaṁ māyāmohitacetasaḥ । svātmanyāropayantyetatkartṛtvādyanyagocaram ॥ 428 ॥
  15. अज्ञानं प्रकृतिः शक्तिरविद्येति निगद्यते । तदेतत्सन्न भवति नासद्वा शुक्तिरौप्यवत् ॥ ३०५ ॥ ajñānaṁ prakṛtiḥ śaktiravidyeti nigadyate । tadetatsanna bhavati nāsadvā śuktiraupyavat ॥ 305 ॥
  16. अज्ञानं व्यष्ट्यभिप्रायादनेकत्वेन भिद्यते । अज्ञानवृत्तयो नाना तत्तद्गुणविलक्षणाः ॥ ३१६ ॥ ajñānaṁ vyaṣṭyabhiprāyādanekatvena bhidyate । ajñānavṛttayo nānā tattadguṇavilakṣaṇāḥ ॥ 316 ॥
  17. अज्ञानज्ञानयोस्तद्वदुभयोरेव दृश्यते । न ज्ञानेन विना नाशस्तस्य केनापि सिध्यति ॥ ५१७ ॥ ajñānajñānayostadvadubhayoreva dṛśyate । na jñānena vinā nāśastasya kenāpi sidhyati ॥ 517 ॥
  18. अज्ञानतदवच्छिन्नाभासयोरुभयोरपि । आधारं शुद्धचैतन्यं यत्तत्तुर्यमितीर्यते ॥ ३२८ ॥ ajñānatadavacchinnābhāsayorubhayorapi । ādhāraṁ śuddhacaitanyaṁ yattatturyamitīryate ॥ 328 ॥
  19. अज्ञानदूरीकरणं मानसं शौचमान्तरम् । अन्तःशौचे स्थिते सम्यग्बाह्यं नावश्यकं नृणाम् ॥ ११५ ॥ ajñānadūrīkaraṇaṁ mānasaṁ śaucamāntaram । antaḥśauce sthite samyagbāhyaṁ nāvaśyakaṁ nṛṇām ॥ 115 ॥
  20. अज्ञानमपि विज्ञानं बुद्धिर्वापि च तद्गुणाः । सुषुप्तौ नोपलभ्यन्ते यत्किञ्चिदपि वापरम् ॥ ५७१ ॥ ajñānamapi vijñānaṁ buddhirvāpi ca tadguṇāḥ । suṣuptau nopalabhyante yatkiñcidapi vāparam ॥ 571 ॥
  21. अज्ञानस्य निवृत्तिस्तु ज्ञानेनैव न कर्मणा । अविरोधितया कर्म नैवाज्ञानस्य बाधकम् ॥ ५१० ॥ ajñānasya nivṛttistu jñānenaiva na karmaṇā । avirodhitayā karma naivājñānasya bādhakam ॥ 510 ॥
  22. अज्ञोऽहमित्यनुभवादास्त्रीबालादिगोचरात् । भवत्यज्ञानमेवात्मा न तु बुद्धिः कदाचन ॥ ५६० ॥ ajño'hamityanubhavādāstrībālādigocarāt । bhavatyajñānamevātmā na tu buddhiḥ kadācana ॥ 560 ॥
  23. अत एतदनिर्वाच्यमित्येव कवयो विदुः । समष्टिव्यष्टिरूपेण द्विधाज्ञानं निगद्यते ॥ ३०७ ॥ ata etadanirvācyamityeva kavayo viduḥ । samaṣṭivyaṣṭirūpeṇa dvidhājñānaṁ nigadyate ॥ 307 ॥
  24. अत एव मतं वृत्तिव्याप्यत्वं वस्तुनः सताम् । न फलव्याप्यता तेन न विरोधः परस्परम् ॥ ८०७ ॥ ata eva mataṁ vṛttivyāpyatvaṁ vastunaḥ satām । na phalavyāpyatā tena na virodhaḥ parasparam ॥ 807 ॥
  25. अतः सङ्गच्छते सम्यग्वाक्यार्थो बाधवर्जितः । एवं तत्त्वमसीत्यत्र वाक्यार्थो न समञ्जसः ॥ ७१७ ॥ ataḥ saṅgacchate samyagvākyārtho bādhavarjitaḥ । evaṁ tattvamasītyatra vākyārtho na samañjasaḥ ॥ 717 ॥
  26. अतस्तमपरित्यज्य तद्गुणाश्रयलक्षणः । लक्ष्यादिर्लक्ष्यते तत्र लक्षणासौ प्रवर्तते ॥ ७४५ ॥ atastamaparityajya tadguṇāśrayalakṣaṇaḥ । lakṣyādirlakṣyate tatra lakṣaṇāsau pravartate ॥ 745 ॥
  27. अतिसूक्ष्मतरः प्रश्नस्तवायं सदृशो मतः । सूक्ष्मार्थदर्शनं सूक्ष्मबुद्धिष्वेव प्रदृश्यते ॥ ५८४ ॥
  28. अतिसूक्ष्मविमर्शेन स्वधीवृत्तिरचञ्चला । विलीयते यदा बोधे स्वप्नसुप्तिरितीर्यते ॥ ९५४ ॥ atisūkṣmavimarśena svadhīvṛttiracañcalā । vilīyate yadā bodhe svapnasuptiritīryate ॥ 954 ॥
  29. अतोऽन्तरङ्गस्थितकामवेगा - द्भोग्ये प्रवृत्तिः स्वत एव सिद्धा । सर्वस्य जन्तोर्ध्रुवमन्यथा चे - दबोधितार्थेषु कथं प्रवृत्तिः ॥ ५९ ॥ ato'ntaraṅgasthitakāmavegā - dbhogye pravṛttiḥ svata eva siddhā । sarvasya jantordhruvamanyathā ce - dabodhitārtheṣu kathaṁ pravṛttiḥ ॥ 59 ॥
  30. अतोऽप्रामाणिकमिति न किञ्चिदपि चिन्त्यताम् । खांशव्याप्तिश्च खव्याप्तिर्विद्यते पावकादिषु ॥ ४०५ ॥ ato'prāmāṇikamiti na kiñcidapi cintyatām । khāṁśavyāptiśca khavyāptirvidyate pāvakādiṣu ॥ 405 ॥
  31. अतोऽयं पुत्र आत्मेति मन्यते भ्रान्तिमत्तमः । तन्मतं दूषयत्यन्यः पुत्र आत्मा कथं त्विति ॥ ५२६ ॥ ato'yaṁ putra ātmeti manyate bhrāntimattamaḥ । tanmataṁ dūṣayatyanyaḥ putra ātmā kathaṁ tviti ॥ 526 ॥
  32. अत्यन्तं श्रद्धया भक्त्या गुरुमीश्वरमात्मनि । यो भजत्यनिशं क्षान्तस्तस्य चित्तं प्रसीदति ॥ ३६७ ॥ atyantaṁ śraddhayā bhaktyā gurumīśvaramātmani । yo bhajatyaniśaṁ kṣāntastasya cittaṁ prasīdati ॥ 367 ॥
  33. अत्यन्ततीव्रवैराग्यं फललिप्सा महत्तरा । तदेतदुभयं विद्यात्समाधानस्य कारणम् ॥ २२२ ॥ atyantatīvravairāgyaṁ phalalipsā mahattarā । tadetadubhayaṁ vidyātsamādhānasya kāraṇam ॥ 222 ॥
  34. अत्रापि चान्यत्र च विद्यमान - पदार्थसम्मर्शनमेव कार्यम् । यथाप्रकारार्थगुणाभिमर्शनं सन्दर्शयत्येव तदीयदोषम् ॥ २६ ॥ atrāpi cānyatra ca vidyamāna - padārthasammarśanameva kāryam । yathāprakārārthaguṇābhimarśanaṁ sandarśayatyeva tadīyadoṣam ॥ 26 ॥
  35. अद्वितीयस्वमात्रोऽसौ निरुपादान ईश्वरः । स्वयमेव कथं सर्वं सृजतीति न शङ्क्यताम् ॥ ३३१ ॥ advitīyasvamātro'sau nirupādāna īśvaraḥ । svayameva kathaṁ sarvaṁ sṛjatīti na śaṅkyatām ॥ 331 ॥
  36. अधिकारी च विषयः सम्बन्धश्च प्रयोजनम् । शास्त्रारम्भफलं प्राहुरनुबन्धचतुष्टयम् ॥ ६ ॥ adhikārī ca viṣayaḥ sambandhaśca prayojanam । śāstrārambhaphalaṁ prāhuranubandhacatuṣṭayam ॥ 6 ॥
  37. अध्यस्तजगतो रूपं नामरूपमिदं द्वयम् । एतानि सच्चिदानन्दनामरूपाणि पञ्च च ॥ ८८१ ॥ adhyastajagato rūpaṁ nāmarūpamidaṁ dvayam । etāni saccidānandanāmarūpāṇi pañca ca ॥ 881 ॥
  38. अध्यस्तनामरूपादिप्रविलापेन निर्मलम् । अद्वैतं परमानन्दं ब्रह्मैवास्मीति भावयेत् ॥ ८९२ ॥ adhyastanāmarūpādipravilāpena nirmalam । advaitaṁ paramānandaṁ brahmaivāsmīti bhāvayet ॥ 892 ॥
  39. अध्यारोपापवादक्रममनुसरता देशिकेनात्र वेत्त्रवाक्यार्थे बोध्यमाने सति सपदि सतः शुद्धबुद्धेरमुष्य । नित्यानन्दाद्वितीयं निरुपमममलं यत्परं तत्त्वमेकंतद्ब्रह्मैवाहमस्मीत्युदयति परमाखण्डताकारवृत्तिः ॥ ७९७ ॥ adhyāropāpavādakramamanusaratā deśikenātra vettravākyārthe bodhyamāne sati sapadi sataḥ śuddhabuddheramuṣya । nityānandādvitīyaṁ nirupamamamalaṁ yatparaṁ tattvamekaṁtadbrahmaivāhamasmītyudayati paramākhaṇḍatākāravṛttiḥ ॥ 797 ॥
  40. अध्यासदोषात्समुपागतोऽयंसंसारबन्धः प्रबलप्रतीचः । यद्योगतः क्लिश्यति गर्भवास - जन्माप्ययक्लेशभयैरजस्रम् ॥ ४९६ ॥ adhyāsadoṣātsamupāgato'yaṁsaṁsārabandhaḥ prabalapratīcaḥ । yadyogataḥ kliśyati garbhavāsa - janmāpyayakleśabhayairajasram ॥ 496 ॥
  41. अध्यासबाधागमनस्य कारणंशृणु प्रवक्ष्यामि समाहितात्मा । यस्मादिदं प्राप्तमनर्थजातंजन्माप्ययव्याधिजरादिदुःखम् ॥ ४८७ ॥ adhyāsabādhāgamanasya kāraṇaṁśṛṇu pravakṣyāmi samāhitātmā । yasmādidaṁ prāptamanarthajātaṁjanmāpyayavyādhijarādiduḥkham ॥ 487 ॥
  42. अध्यासादेव संसारो नष्टेऽध्यासे न दृश्यते । तदेतदुभयं स्पष्टं पश्य त्वं बद्धमुक्तयोः ॥ ४९९ ॥ adhyāsādeva saṁsāro naṣṭe'dhyāse na dṛśyate । tadetadubhayaṁ spaṣṭaṁ paśya tvaṁ baddhamuktayoḥ ॥ 499 ॥
  43. अध्यासो नाम खल्वेष वस्तुनो योऽन्यथाग्रहः । स्वाभाविकभ्रान्तिमूलं संसृतेरादिकारणम् ॥ ४९७ ॥ adhyāso nāma khalveṣa vastuno yo'nyathāgrahaḥ । svābhāvikabhrāntimūlaṁ saṁsṛterādikāraṇam ॥ 497 ॥
  44. अनन्तशक्तिसम्पन्नो मायोपाधिक ईश्वरः । ईक्षामात्रेण सृजति विश्वमेतच्चराचरम् ॥ ३३० ॥ anantaśaktisampanno māyopādhika īśvaraḥ । īkṣāmātreṇa sṛjati viśvametaccarācaram ॥ 330 ॥
  45. अनपेक्षः शुचिर्दक्षः करुणामृतसागरः । एवंलक्षणसम्पन्नः स गुरुर्ब्रह्मवित्तमः । उपासाद्यः प्रयत्नेन जिझासोः स्वार्थसिद्धये ॥ २५३ ॥ anapekṣaḥ śucirdakṣaḥ karuṇāmṛtasāgaraḥ । evaṁlakṣaṇasampannaḥ sa gururbrahmavittamaḥ । upāsādyaḥ prayatnena jijhāsoḥ svārthasiddhaye ॥ 253 ॥
  46. अनात्मनो जन्मजरामृतिक्षुधा - तृष्णासुखक्लेशभयादिधर्मान् । विपर्ययेण ह्यतथाविधेऽस्मि - न्नारोपयन्त्यात्मनि बुद्धिदोषात् ॥ ४६३ ॥ anātmano janmajarāmṛtikṣudhā - tṛṣṇāsukhakleśabhayādidharmān । viparyayeṇa hyatathāvidhe'smi - nnāropayantyātmani buddhidoṣāt ॥ 463 ॥
  47. अनात्मन्यहमित्येव योऽयमध्यास ईरितः । स्यादुत्तरोत्तराध्यासे पूर्वपूर्वस्तु कारणम् ॥ ४८५ ॥ anātmanyahamityeva yo'yamadhyāsa īritaḥ । syāduttarottarādhyāse pūrvapūrvastu kāraṇam ॥ 485 ॥
  48. अनात्मन्यात्मताध्यासः कथमेष समागतः । निवृत्तिः कथमेतस्य केनोपायेन सिध्यति ॥ ४७० ॥ anātmanyātmatādhyāsaḥ kathameṣa samāgataḥ । nivṛttiḥ kathametasya kenopāyena sidhyati ॥ 470 ॥
  49. अनात्मन्यात्मताध्यासे न सादृश्यमपेक्षते । पीतोऽयं शङ्ख इत्यादौ सादृश्यं किमपेक्षितम् ॥ ४७९ ॥ anātmanyātmatādhyāse na sādṛśyamapekṣate । pīto'yaṁ śaṅkha ityādau sādṛśyaṁ kimapekṣitam ॥ 479 ॥
  50. अनित्यत्वं च नित्यत्वमेवं यच्छ्रुतियुक्तिभिः । विवेचनं नित्यानित्यविवेक इति कथ्यते ॥ २१ ॥ anityatvaṁ ca nityatvamevaṁ yacchrutiyuktibhiḥ । vivecanaṁ nityānityaviveka iti kathyate ॥ 21 ॥
  51. अनुकम्पा दया सैव प्रोक्ता वेदान्तवेदिभिः । करणत्रितयेष्वेकरूपतावक्रता मता ॥ ११२ ॥ anukampā dayā saiva proktā vedāntavedibhiḥ । karaṇatritayeṣvekarūpatāvakratā matā ॥ 112 ॥
  52. अनुभूतिबलाच्चापि युक्तितोऽपि श्रुतेरपि । आत्मा वै पुत्रनामासीत्येवं च वदति श्रुतिः ॥ ५२४ ॥ anubhūtibalāccāpi yuktito'pi śruterapi । ātmā vai putranāmāsītyevaṁ ca vadati śrutiḥ ॥ 524 ॥
  53. अनुसन्धानराहित्यमालस्यं भोगलालसम् । भयं तमश्च विक्षेपस्तेजस्पन्दश्च शून्यता ॥ ९२२ ॥ anusandhānarāhityamālasyaṁ bhogalālasam । bhayaṁ tamaśca vikṣepastejaspandaśca śūnyatā ॥ 922 ॥
  54. अनुस्यूतात्मनः सत्ता जाग्रत्स्वप्नसुषुप्तिषु । अहमस्मीत्यतो नित्यो भवत्यात्मायमव्ययः ॥ ६१२ ॥ anusyūtātmanaḥ sattā jāgratsvapnasuṣuptiṣu । ahamasmītyato nityo bhavatyātmāyamavyayaḥ ॥ 612 ॥
  55. अनेनोद्भूतगुणकं भूतं वक्ष्येऽवधारय । शब्दैकगुणमाकाशं शब्दस्पर्शगुणोऽनिलः ॥ ४०९ ॥ anenodbhūtaguṇakaṁ bhūtaṁ vakṣye'vadhāraya । śabdaikaguṇamākāśaṁ śabdasparśaguṇo'nilaḥ ॥ 409 ॥
  56. अन्तःकरणतद्वृत्तिद्रष्टृ नित्यमविक्रियम् । चैतन्यं यत्तदात्मेति बुद्ध्या बुध्यस्व सूक्ष्मया ॥ ४५७ ॥ antaḥkaraṇatadvṛttidraṣṭṛ nityamavikriyam । caitanyaṁ yattadātmeti buddhyā budhyasva sūkṣmayā ॥ 457 ॥
  57. अन्तःप्रज्ञत्वादिविकल्पैरस्पृष्टं यत्तद्दृशिमात्रम् । सत्तामात्रं समरसमेकं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८६ ॥ antaḥprajñatvādivikalpairaspṛṣṭaṁ yattaddṛśimātram । sattāmātraṁ samarasamekaṁ śuddhaṁ buddhaṁ tattvamasi tvam ॥ 786 ॥
  58. अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे । अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे ॥ ९६६ ॥ antaḥśūnyo bahiḥśūnyaḥ śūnyakumbha ivāmbare । antaḥpūrṇo bahiḥpūrṇaḥ pūrṇakumbha ivārṇave ॥ 966 ॥
  59. अन्तरङ्गं हि बलवद्बहिरङ्गाद्यतस्ततः । शमादिषट्कं जिज्ञासोरवश्यं भाव्यमान्तरम् ॥ २२४ ॥ antaraṅgaṁ hi balavadbahiraṅgādyatastataḥ । śamādiṣaṭkaṁ jijñāsoravaśyaṁ bhāvyamāntaram ॥ 224 ॥
  60. अन्तरङ्गविहीनस्य कृतश्रवणकोटयः । न फलन्ति यथा योद्धुरधीरस्यास्त्रसम्पदः ॥ २२५ ॥ antaraṅgavihīnasya kṛtaśravaṇakoṭayaḥ । na phalanti yathā yoddhuradhīrasyāstrasampadaḥ ॥ 225 ॥
  61. अन्तर्बन्धेन बद्धस्य किं बहिर्बन्धमोचनैः । तदन्तर्बन्धमुक्त्यर्थं क्रियतां कृतिभिः कृतिः ॥ २४५ ॥ antarbandhena baddhasya kiṁ bahirbandhamocanaiḥ । tadantarbandhamuktyarthaṁ kriyatāṁ kṛtibhiḥ kṛtiḥ ॥ 245 ॥
  62. अन्तर्बहिः स्वयमखण्डितमेकरूप - मारोपितार्थवदुदञ्चति मूढबुद्धेः । मृत्स्नादिवद्विगतविक्रियमात्मवेद्यंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७९ ॥ antarbahiḥ svayamakhaṇḍitamekarūpa - māropitārthavadudañcati mūḍhabuddheḥ । mṛtsnādivadvigatavikriyamātmavedyaṁyadbrahma tattvamasi kevalabodhamātram ॥ 779 ॥
  63. अन्तर्बहिश्चापि मृदेव दृश्यतेमृदो न भिन्नं कलशादि किञ्चन । ग्रीवादिमद्यत्कलशं तदित्थंन वाच्यमेतच्च मृदेव नान्यत् ॥ ६८४ ॥ antarbahiścāpi mṛdeva dṛśyatemṛdo na bhinnaṁ kalaśādi kiñcana । grīvādimadyatkalaśaṁ taditthaṁna vācyametacca mṛdeva nānyat ॥ 684 ॥
  64. अन्यत्र त्वन्यधर्माणामुपलम्भो न दृश्यते । तस्मान्न वस्तुधर्मोऽयमानन्दस्तु कदाचन ॥ ६४२ ॥ anyatra tvanyadharmāṇāmupalambho na dṛśyate । tasmānna vastudharmo'yamānandastu kadācana ॥ 642 ॥
  65. अन्यथा विपरीतं स्यात्कार्यकारणलक्षणम् । नियतं सर्वशास्त्रेषु सर्वलोकेषु सर्वतः ॥ ५९२ ॥ anyathā viparītaṁ syātkāryakāraṇalakṣaṇam । niyataṁ sarvaśāstreṣu sarvalokeṣu sarvataḥ ॥ 592 ॥
  66. अन्यप्रकाशं न किमप्यपेक्ष्ययतोऽयमाभाति निजात्मनैव । ततः स्वयञ्ज्योतिरयं चिदात्मान ह्यात्मभाने परदीप्त्यपेक्षा ॥ ६२१ ॥ anyaprakāśaṁ na kimapyapekṣyayato'yamābhāti nijātmanaiva । tataḥ svayañjyotirayaṁ cidātmāna hyātmabhāne paradīptyapekṣā ॥ 621 ॥
  67. अन्योऽन्तर आत्मा विज्ञानमय इति वदति निगमः । मनसोऽपि च भिन्नं विज्ञानमयं कर्तृरूपमात्मानम् ॥ ५५६ ॥ anyo'ntara ātmā vijñānamaya iti vadati nigamaḥ । manaso'pi ca bhinnaṁ vijñānamayaṁ kartṛrūpamātmānam ॥ 556 ॥
  68. अपञ्चीकृतभूतेभ्यो जातं सप्तदशाङ्गकम् । संसारकारणं लिङ्गमात्मनो भोगसाधनम् ॥ ३३९ ॥ apañcīkṛtabhūtebhyo jātaṁ saptadaśāṅgakam । saṁsārakāraṇaṁ liṅgamātmano bhogasādhanam ॥ 339 ॥
  69. अपरः क्रियते प्रश्नो मयायं क्षम्यतां प्रभो । अज्ञवागपराधाय कल्पते न महात्मनाम् ॥ ६३२ ॥
  70. अपरोक्षतयैवात्मा समाधावनुभूयते । केवलानन्दमात्रत्वेनैवमत्र न संशयः ॥ ६६७ ॥ aparokṣatayaivātmā samādhāvanubhūyate । kevalānandamātratvenaivamatra na saṁśayaḥ ॥ 667 ॥
  71. अपरोऽहमनपरोऽहं बहिरन्तश्चापि पूर्ण एवाहम् । अजरोऽहमक्षरोऽहं नित्यानन्दोऽहमद्वितीयोऽहम् ॥ ८६९ ॥ aparo'hamanaparo'haṁ bahirantaścāpi pūrṇa evāham । ajaro'hamakṣaro'haṁ nityānando'hamadvitīyo'ham ॥ 869 ॥
  72. अपाणिपादोऽहमवागचक्षुःअप्राण एवास्म्यमना ह्यबुद्धिः । व्योमेव पूर्णोऽस्मि विनिर्मलोऽस्मिसदैकरूपोऽस्मि चिदेव केवलः ॥ ८४२ ॥ apāṇipādo'hamavāgacakṣuḥaprāṇa evāsmyamanā hyabuddhiḥ । vyomeva pūrṇo'smi vinirmalo'smisadaikarūpo'smi cideva kevalaḥ ॥ 842 ॥
  73. अबंशकतया जिह्वा रसं गृह्णाति तद्गुणम् । भूम्यंशकतया घ्राणं गन्धं गृह्णाति तद्गुणम् ॥ ४१३ ॥ abaṁśakatayā jihvā rasaṁ gṛhṇāti tadguṇam । bhūmyaṁśakatayā ghrāṇaṁ gandhaṁ gṛhṇāti tadguṇam ॥ 413 ॥
  74. अभाव उभयोः सुप्तौ सर्वैरप्यनुभूयते । न कश्चिदनयोर्भेदस्तस्मान्मिथ्यात्वमर्हतः ॥ ७६७ ॥ abhāva ubhayoḥ suptau sarvairapyanubhūyate । na kaścidanayorbhedastasmānmithyātvamarhataḥ ॥ 767 ॥
  75. अभिभूतः स एवात्मा जीव इत्यभिधीयते । किञ्चिज्ज्ञत्वानीश्वरत्वसंसारित्वादिधर्मवान् ॥ ३२० ॥ abhibhūtaḥ sa evātmā jīva ityabhidhīyate । kiñcijjñatvānīśvaratvasaṁsāritvādidharmavān ॥ 320 ॥
  76. अभेद एव नो भेदो जात्येकत्वेन वस्तुतः । अभेद एव ज्ञातव्यस्तथेशप्राज्ञयोरपि ॥ ३२६ ॥ abheda eva no bhedo jātyekatvena vastutaḥ । abheda eva jñātavyastatheśaprājñayorapi ॥ 326 ॥
  77. अयं चापि प्रबुद्धानामज्ञानां प्राणपीडनम् । विषयेष्वात्मतां त्यक्त्वा मनसश्चितिमज्जनम् ॥ ९१७ ॥ ayaṁ cāpi prabuddhānāmajñānāṁ prāṇapīḍanam । viṣayeṣvātmatāṁ tyaktvā manasaścitimajjanam ॥ 917 ॥
  78. अर्था बहुविधाः प्रोक्ता वाक्यानां पण्डितोत्तमैः । वाच्यलक्ष्यादिभेदेन प्रस्तुतं श्रूयतां त्वया ॥ ७०७ ॥ arthā bahuvidhāḥ proktā vākyānāṁ paṇḍitottamaiḥ । vācyalakṣyādibhedena prastutaṁ śrūyatāṁ tvayā ॥ 707 ॥
  79. अर्थी समर्थ इत्यादि लक्षणं कर्मिणो मतम् । परीक्ष्य लोकानित्यादि लक्षणं मोक्षकाङ्क्षिणः ॥ १७९ ॥ arthī samartha ityādi lakṣaṇaṁ karmiṇo matam । parīkṣya lokānityādi lakṣaṇaṁ mokṣakāṅkṣiṇaḥ ॥ 179 ॥
  80. अलाभाद्द्विगुणं दुःखं वित्तस्य व्ययसम्भवे । ततोऽपि त्रिगुणं दुःखं दुर्व्यये विदुषामपि ॥ ८० ॥ alābhāddviguṇaṁ duḥkhaṁ vittasya vyayasambhave । tato'pi triguṇaṁ duḥkhaṁ durvyaye viduṣāmapi ॥ 80 ॥
  81. अवस्तु तत्प्रमाणैर्यद्बाध्यते शुक्तिरौप्यवत् । न बाध्यते यत्तद्वस्तु त्रिषु कालेषु शुक्तिवत् ॥ ३०० ॥ avastu tatpramāṇairyadbādhyate śuktiraupyavat । na bādhyate yattadvastu triṣu kāleṣu śuktivat ॥ 300 ॥
  82. अवस्था सच्चिदानन्दाखण्डैकरसरूपिणी । मोक्षः सिध्यति वाक्यार्थापरोक्षज्ञानतः सताम् ॥ ७०५ ॥ avasthā saccidānandākhaṇḍaikarasarūpiṇī । mokṣaḥ sidhyati vākyārthāparokṣajñānataḥ satām ॥ 705 ॥
  83. अविचारितरमणीयं सर्वमुदुम्बरफलोपमं भोग्यम् । अज्ञानामुपभोग्यं न तु तज्ज्ञानां योषिति वा पदार्थे ॥ ४२ ॥ avicāritaramaṇīyaṁ sarvamudumbaraphalopamaṁ bhogyam । ajñānāmupabhogyaṁ na tu tajjñānāṁ yoṣiti vā padārthe ॥ 42 ॥
  84. अविद्याकार्यकरणसङ्घातेषु पुरोदितः । आत्मा जाग्रत्यपि स्वप्ने न भवत्येष गोचरः ॥ ६५८ ॥ avidyākāryakaraṇasaṅghāteṣu puroditaḥ । ātmā jāgratyapi svapne na bhavatyeṣa gocaraḥ ॥ 658 ॥
  85. अविद्याकार्यतस्तुल्यौ द्वावपि स्वप्नजागरौ । दृष्टदर्शनदृश्यादिकल्पनोभयतः समा ॥ ७६६ ॥ avidyākāryatastulyau dvāvapi svapnajāgarau । dṛṣṭadarśanadṛśyādikalpanobhayataḥ samā ॥ 766 ॥
  86. अविद्याहृदयग्रन्थिविमोक्षोऽपि भवेद्यतः । तमेव गुरुरित्याहुर्गुरुशब्दार्थवेदिनः ॥ २५५ ॥ avidyāhṛdayagranthivimokṣo'pi bhavedyataḥ । tameva gururityāhurguruśabdārthavedinaḥ ॥ 255 ॥
  87. अविरुद्धं पदार्थान्तरांशं स्वांशं च तत्कथम् । एकं पदं लक्षणया संलक्षयितुमर्हति ॥ ७५० ॥ aviruddhaṁ padārthāntarāṁśaṁ svāṁśaṁ ca tatkatham । ekaṁ padaṁ lakṣaṇayā saṁlakṣayitumarhati ॥ 750 ॥
  88. अवेक्ष्य विषये दोषं बुद्धियुक्तो विचक्षणः । कामपाशेन यो मुक्तः स मुक्तेः पथि गोचरः ॥ ६१ ॥ avekṣya viṣaye doṣaṁ buddhiyukto vicakṣaṇaḥ । kāmapāśena yo muktaḥ sa mukteḥ pathi gocaraḥ ॥ 61 ॥
  89. अवेद्यमानः स्वयमन्यलोकैःसौषुप्तिकं धर्ममवैति साक्षात् । बुद्ध्याद्यभावस्य च योऽत्र बोद्धास एष आत्मा खलु निर्विकारः ॥ ५९८ ॥ avedyamānaḥ svayamanyalokaiḥsauṣuptikaṁ dharmamavaiti sākṣāt । buddhyādyabhāvasya ca yo'tra boddhāsa eṣa ātmā khalu nirvikāraḥ ॥ 598 ॥
  90. अव्यक्तमपरं ब्रह्म वाच्यार्थ इति कथ्यते । नीलमुत्पलमित्यत्र यथा वाक्यार्थसङ्गतिः ॥ ७१३ ॥ avyaktamaparaṁ brahma vācyārtha iti kathyate । nīlamutpalamityatra yathā vākyārthasaṅgatiḥ ॥ 713 ॥
  91. अव्यक्तशब्दिते प्राज्ञे सत्यात्मन्यत्र जाग्रति । कथं सिध्यति शून्यत्वं तस्य भ्रान्तिशिरोमणे ॥ ५९४ ॥ avyaktaśabdite prājñe satyātmanyatra jāgrati । kathaṁ sidhyati śūnyatvaṁ tasya bhrāntiśiromaṇe ॥ 594 ॥
  92. अव्याकृतं तदव्यक्तमीश इत्यपि गीयते । सर्वशक्तिगुणोपेतः सर्वज्ञानावभासकः ॥ ३११ ॥ avyākṛtaṁ tadavyaktamīśa ityapi gīyate । sarvaśaktiguṇopetaḥ sarvajñānāvabhāsakaḥ ॥ 311 ॥
  93. अव्याकृतात्मनावस्थां जगतो वदति श्रुतिः । सुषुप्त्यादिषु तद्भेदं तर्ह्यव्याकृतमित्यसौ ॥ ५८८ ॥ avyākṛtātmanāvasthāṁ jagato vadati śrutiḥ । suṣuptyādiṣu tadbhedaṁ tarhyavyākṛtamityasau ॥ 588 ॥
  94. अशितान्नरसादीनां समीकरणधर्मतः । समान इत्यभिप्रेतो वायुर्यस्तेषु पञ्चमः ॥ ३७८ ॥ aśitānnarasādīnāṁ samīkaraṇadharmataḥ । samāna ityabhipreto vāyuryasteṣu pañcamaḥ ॥ 378 ॥
  95. अष्टावङ्गानि योगस्य यमो नियम आसनम् । प्राणायामस्तथा प्रत्याहारश्चापि च धारणा ॥ ९१० ॥ aṣṭāvaṅgāni yogasya yamo niyama āsanam । prāṇāyāmastathā pratyāhāraścāpi ca dhāraṇā ॥ 910 ॥
  96. असन्नेव घटः पूर्वं जायमानः प्रदृश्यते । न हि कुम्भः पुरैवान्तः स्थित्वोदेति बहिर्मुखः ॥ ५७५ ॥ asanneva ghaṭaḥ pūrvaṁ jāyamānaḥ pradṛśyate । na hi kumbhaḥ puraivāntaḥ sthitvodeti bahirmukhaḥ ॥ 575 ॥
  97. अस्तीत्येवोपलब्धव्यं वस्तुसद्भावनिश्चयात् । सद्भावनिश्चयस्तस्य श्रद्धया शास्त्रसिद्धया ॥ २१४ ॥ astītyevopalabdhavyaṁ vastusadbhāvaniścayāt । sadbhāvaniścayastasya śraddhayā śāstrasiddhayā ॥ 214 ॥
  98. अस्मिन्नात्मन्यनात्मत्वमनात्मन्यात्मतां पुनः । विपरीततयाध्यस्य संसरन्ति विमोहतः ॥ ४६१ ॥ asminnātmanyanātmatvamanātmanyātmatāṁ punaḥ । viparītatayādhyasya saṁsaranti vimohataḥ ॥ 461 ॥
  99. अस्मिन्समाधौ कुरुते प्रयासंयस्तस्य नैवास्ति पुनर्विकल्पः । सर्वात्मभावोऽप्यमुनैव सिध्ये - त्सर्वात्मभावः खलु केवलत्वम् ॥ ९०४ ॥ asminsamādhau kurute prayāsaṁyastasya naivāsti punarvikalpaḥ । sarvātmabhāvo'pyamunaiva sidhye - tsarvātmabhāvaḥ khalu kevalatvam ॥ 904 ॥
  100. अस्य व्यष्टिरहङ्कारकारणत्वेन कारणम् । वपुस्तत्राभिमान्यात्मा प्राज्ञ इत्युच्यते बुधैः ॥ ३२१ ॥ asya vyaṣṭirahaṅkārakāraṇatvena kāraṇam । vapustatrābhimānyātmā prājña ityucyate budhaiḥ ॥ 321 ॥
  101. अस्य शास्त्रानुसारित्वादनुबन्धचतुष्टयम् । यदेव मूलं शास्त्रस्य निर्दिष्टं तदिहोच्यते ॥ ५ ॥ asya śāstrānusāritvādanubandhacatuṣṭayam । yadeva mūlaṁ śāstrasya nirdiṣṭaṁ tadihocyate ॥ 5 ॥
  102. अस्यावस्था सुषुप्तिः स्याद्यत्रानन्दः प्रकृष्यते । एषोऽहं सुखमस्वाप्सं न तु किञ्चिदवेदिषम् ॥ ३२४ ॥ asyāvasthā suṣuptiḥ syādyatrānandaḥ prakṛṣyate । eṣo'haṁ sukhamasvāpsaṁ na tu kiñcidavediṣam ॥ 324 ॥
  103. अस्योपाधिः शुद्धसत्त्वप्रधानामाया यत्र त्वस्य नास्त्यल्पभावः । सत्त्वस्यैवोत्कृष्टता तेन बन्धोनो विक्षेपस्तत्कृतो लेशमात्रः ॥ ५०३ ॥ asyopādhiḥ śuddhasattvapradhānāmāyā yatra tvasya nāstyalpabhāvaḥ । sattvasyaivotkṛṣṭatā tena bandhono vikṣepastatkṛto leśamātraḥ ॥ 503 ॥
  104. अहं कर्तास्म्यहं भोक्ता सुखीत्यनुभवादपि । बुद्धिरात्मा भवत्येव बुद्धिधर्मो ह्यहङ्कृतिः ॥ ५५५ ॥ ahaṁ kartāsmyahaṁ bhoktā sukhītyanubhavādapi । buddhirātmā bhavatyeva buddhidharmo hyahaṅkṛtiḥ ॥ 555 ॥
  105. अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः । चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ९७८ ॥ ahaṁ brahmāsmyahaṁ brahmāsmyahaṁ brahmeti niścayaḥ । cidahaṁ cidahaṁ ceti sa jīvanmukta ucyate ॥ 978 ॥
  106. अहं ममेत्येव सदाभिमानंदेहेन्द्रियादौ कुरुते गृहादौ । जीवाभिमानः पुरुषोऽयमेवकर्ता च भोक्ता च सुखी च दुःखी ॥ ३५२ ॥ ahaṁ mametyeva sadābhimānaṁdehendriyādau kurute gṛhādau । jīvābhimānaḥ puruṣo'yamevakartā ca bhoktā ca sukhī ca duḥkhī ॥ 352 ॥
  107. अहङ्कारस्य विच्छित्तिः श्रवणेन प्रतिक्षणम् । प्रवर्तकं कर्मशास्त्रं ज्ञानशास्त्रं निवर्तकम् ॥ १८२ ॥ ahaṅkārasya vicchittiḥ śravaṇena pratikṣaṇam । pravartakaṁ karmaśāstraṁ jñānaśāstraṁ nivartakam ॥ 182 ॥
  108. अहिंसा वाङ्मनःकायैः प्राणिमात्राप्रपीडनम् । स्वात्मवत्सर्वभूतेषु कायेन मनसा गिरा ॥ १११ ॥ ahiṁsā vāṅmanaḥkāyaiḥ prāṇimātrāprapīḍanam । svātmavatsarvabhūteṣu kāyena manasā girā ॥ 111 ॥
  109. अहिनिर्ल्वयनीसर्पनिर्मोको जीववर्जितः । वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते ॥ ९८८ ॥ ahinirlvayanīsarpanirmoko jīvavarjitaḥ । valmīke patitastiṣṭhettaṁ sarpo nābhimanyate ॥ 988 ॥
  110. आकाशवाय्वोर्धर्मस्तु वह्न्यादावुपलभ्यते । यथा तथाकाशवाय्वोर्नाग्न्यादेर्धर्म ईक्ष्यते ॥ ४०४ ॥ ākāśavāyvordharmastu vahnyādāvupalabhyate । yathā tathākāśavāyvornāgnyāderdharma īkṣyate ॥ 404 ॥
  111. आकाशादिगताः पञ्च सात्त्विकांशाः परस्परम् । मिलित्वैवान्तःकरणमभवत्सर्वकारणम् ॥ ३४२ ॥ ākāśādigatāḥ pañca sāttvikāṁśāḥ parasparam । militvaivāntaḥkaraṇamabhavatsarvakāraṇam ॥ 342 ॥
  112. आत्मनः साक्षिमात्रत्वं न कर्तृत्वं न भोक्तृता । रविवत्प्राणिभिर्लोके क्रियमाणेषु कर्मसु ॥ ४२५ ॥ ātmanaḥ sākṣimātratvaṁ na kartṛtvaṁ na bhoktṛtā । ravivatprāṇibhirloke kriyamāṇeṣu karmasu ॥ 425 ॥
  113. आत्मनः सुखरूपत्वादानन्दत्वं स्वलक्षणम् । परप्रेमास्पदत्वेन सुखरूपत्वमात्मनः ॥ ६२३ ॥ ātmanaḥ sukharūpatvādānandatvaṁ svalakṣaṇam । parapremāspadatvena sukharūpatvamātmanaḥ ॥ 623 ॥
  114. आत्मनः सुखरूपत्वे प्रयत्नः किमु देहिनाम् । एष मे संशयः स्वामिन् कृपयैव निरस्यताम् ॥ ६३४ ॥ ātmanaḥ sukharūpatve prayatnaḥ kimu dehinām । eṣa me saṁśayaḥ svāmin kṛpayaiva nirasyatām ॥ 634 ॥
  115. आत्मनः सोऽयमध्यासो मिथ्याज्ञानपुरःसरः । असत्कल्पोऽपि संसारं तनुते रज्जुसर्पवत् ॥ ५०१ ॥ ātmanaḥ so'yamadhyāso mithyājñānapuraḥsaraḥ । asatkalpo'pi saṁsāraṁ tanute rajjusarpavat ॥ 501 ॥
  116. आत्मनः स्थूलभोगाना - मेतदायतनं विदुः । शब्दादिविषयान्भुङ्क्तेस्थूलान्स्थूलात्मनि स्थितः ॥ ४४६ ॥ ātmanaḥ sthūlabhogānā - metadāyatanaṁ viduḥ । śabdādiviṣayānbhuṅktesthūlānsthūlātmani sthitaḥ ॥ 446 ॥
  117. आत्मनीव स्वपुत्रेऽपि प्रबलप्रीतिदर्शनात् । पुत्रे तु पुष्टे पुष्टोऽहं नष्टे नष्टेऽहमित्यतः ॥ ५२३ ॥ ātmanīva svaputre'pi prabalaprītidarśanāt । putre tu puṣṭe puṣṭo'haṁ naṣṭe naṣṭe'hamityataḥ ॥ 523 ॥
  118. आत्मयाथार्थ्यनिश्चित्त्यै कर्तव्यं मननं मुहुः । विपरीतात्मधीर्यावन्न विनश्यति चेतसि । तावन्निरन्तरं ध्यानं कर्तव्यं मोक्षमिच्छता ॥ ८१७ ॥ ātmayāthārthyaniścittyai kartavyaṁ mananaṁ muhuḥ । viparītātmadhīryāvanna vinaśyati cetasi । tāvannirantaraṁ dhyānaṁ kartavyaṁ mokṣamicchatā ॥ 817 ॥
  119. आत्मवत्सर्वभूतेषु यः समत्वेन पश्यति । सुखं दुःखं विवेकेन तस्य चित्तं प्रसीदति ॥ ३६६ ॥ ātmavatsarvabhūteṣu yaḥ samatvena paśyati । sukhaṁ duḥkhaṁ vivekena tasya cittaṁ prasīdati ॥ 366 ॥
  120. आत्मस्वरूपमविचार्य विमूढबुद्धि - रारोपयत्यखिलमेतदनात्मकार्यम् । स्वात्मन्यसङ्गचितिनिष्क्रिय एव चन्द्रेदूरस्थमेघकृतधावनवद्भ्रमेण ॥ ४२९ ॥ ātmasvarūpamavicārya vimūḍhabuddhi - rāropayatyakhilametadanātmakāryam । svātmanyasaṅgacitiniṣkriya eva candredūrasthameghakṛtadhāvanavadbhrameṇa ॥ 429 ॥
  121. आत्मा खलु प्रियतमोऽसुभृतां यदर्थाभार्यात्मजाप्तगृहवित्तमुखाः पदार्थाः । वाणिज्यकर्षणगवावनराजसेवा - भैषज्यकप्रभृतयो विविधाः क्रियाश्च ॥ ६२९ ॥ ātmā khalu priyatamo'subhṛtāṁ yadarthābhāryātmajāptagṛhavittamukhāḥ padārthāḥ । vāṇijyakarṣaṇagavāvanarājasevā - bhaiṣajyakaprabhṛtayo vividhāḥ kriyāśca ॥ 629 ॥
  122. आत्मातः परमप्रेमास्पदः सर्वशरीरिणाम् । यस्य शेषतया सर्वमुपादेयत्वमृच्छति ॥ ६२६ ॥ ātmātaḥ paramapremāspadaḥ sarvaśarīriṇām । yasya śeṣatayā sarvamupādeyatvamṛcchati ॥ 626 ॥
  123. आत्मानात्मविवेकं ते वक्ष्यामि शृणु सादरम् । यस्य श्रवणमात्रेण मुच्यतेऽनात्मबन्धनात् ॥ २९४ ॥ ātmānātmavivekaṁ te vakṣyāmi śṛṇu sādaram । yasya śravaṇamātreṇa mucyate'nātmabandhanāt ॥ 294 ॥
  124. आत्मानात्मविवेकं स्फुटतरमग्रे निवेदयिष्यामः । इममाकर्णय विद्वन् जगदुत्पत्तिप्रकारमावृत्त्या ॥ ४३० ॥ ātmānātmavivekaṁ sphuṭataramagre nivedayiṣyāmaḥ । imamākarṇaya vidvan jagadutpattiprakāramāvṛttyā ॥ 430 ॥
  125. आत्मानात्मविवेकार्थं विवादोऽयं निरूप्यते । येनात्मानात्मनोस्तत्त्वं विविक्तं प्रस्फुटायते ॥ ५२० ॥ ātmānātmavivekārthaṁ vivādo'yaṁ nirūpyate । yenātmānātmanostattvaṁ viviktaṁ prasphuṭāyate ॥ 520 ॥
  126. आत्मान्यः सुखमन्यच्च नात्मनः सुखरूपता । आत्मनः सुखमाशास्यं यतते सकलो जनः ॥ ६३३ ॥ ātmānyaḥ sukhamanyacca nātmanaḥ sukharūpatā । ātmanaḥ sukhamāśāsyaṁ yatate sakalo janaḥ ॥ 633 ॥
  127. आत्मान्यः सुखमन्यच्चेत्येवं निश्चित्य पामरः । बहिःसुखाय यतते सत्यमेव न संशयः ॥ ५३९ ॥ ātmānyaḥ sukhamanyaccetyevaṁ niścitya pāmaraḥ । bahiḥsukhāya yatate satyameva na saṁśayaḥ ॥ 539 ॥
  128. आत्माभासा ततो बुद्धिर्बुद्ध्याभासं ततो मनः । अक्षाणि मनआभासान्यक्षाभासमिदं वपुः । अत एवात्मताबुद्धिर्देहाक्षादावनात्मनि ॥ ४८३ ॥ ātmābhāsā tato buddhirbuddhyābhāsaṁ tato manaḥ । akṣāṇi manaābhāsānyakṣābhāsamidaṁ vapuḥ । ata evātmatābuddhirdehākṣādāvanātmani ॥ 483 ॥
  129. आत्मोपाधेरविद्याया अस्ति शक्तिद्वयं महत् । विक्षेप आवृतिश्चेति याभ्यां संसार आत्मनः ॥ ४८८ ॥ ātmopādheravidyāyā asti śaktidvayaṁ mahat । vikṣepa āvṛtiśceti yābhyāṁ saṁsāra ātmanaḥ ॥ 488 ॥
  130. आद्यं नित्यानित्यवस्तुविवेकः साधनं मतम् । इहामुत्रार्थफलभोगविरागो द्वितीयकम् ॥ १४ ॥ ādyaṁ nityānityavastuvivekaḥ sādhanaṁ matam । ihāmutrārthaphalabhogavirāgo dvitīyakam ॥ 14 ॥
  131. आद्योऽहमनाद्योऽहं वाङ्मनसा साध्यवस्तुमात्रोऽहम् । निगमवचोवेद्योऽहमनवद्याखण्डबोधरूपोऽहम् ॥ ८६७ ॥ ādyo'hamanādyo'haṁ vāṅmanasā sādhyavastumātro'ham । nigamavacovedyo'hamanavadyākhaṇḍabodharūpo'ham ॥ 867 ॥
  132. आधारभूतं यदखण्डमाद्यंशुद्धं परं ब्रह्म सदैकरूपम् । सन्मात्रमेवास्त्यथ नो विकल्पःसतः परं केवलमेव वस्तु ॥ ६८९ ॥ ādhārabhūtaṁ yadakhaṇḍamādyaṁśuddhaṁ paraṁ brahma sadaikarūpam । sanmātramevāstyatha no vikalpaḥsataḥ paraṁ kevalameva vastu ॥ 689 ॥
  133. आध्यात्मिकादि यद्दुःखं प्राप्तं प्रारब्धवेगतः । अचिन्तया तत्सहनं तितिक्षेति निगद्यते ॥ १३७ ॥ ādhyātmikādi yadduḥkhaṁ prāptaṁ prārabdhavegataḥ । acintayā tatsahanaṁ titikṣeti nigadyate ॥ 137 ॥
  134. आनन्दघनतामस्य स्वरूपं प्रत्यगात्मनः । धन्यैर्महात्मभिर्धीरैर्ब्रह्मविद्भिः सदुत्तमैः ॥ ६६६ ॥ ānandaghanatāmasya svarūpaṁ pratyagātmanaḥ । dhanyairmahātmabhirdhīrairbrahmavidbhiḥ saduttamaiḥ ॥ 666 ॥
  135. आनन्दप्रचुरत्वेन साधकत्वेन कोशवत् । सैषानन्दमयः कोश इतीशस्य निगद्यते ॥ ३१४ ॥ ānandapracuratvena sādhakatvena kośavat । saiṣānandamayaḥ kośa itīśasya nigadyate ॥ 314 ॥
  136. आनन्दरूपमात्मानमज्ञात्वैव पृथग्जनः । बहिःसुखाय यतते न तु कश्चिद्विदन्बुधः ॥ ६३५ ॥
  137. आप्त्राप्ययोस्तु भेदश्चेदाप्त्रा चाप्यमवाप्यते । आप्तृस्वरूपमेवैतद्ब्रह्म नाप्यं कदाचन ॥ १५७ ॥ āptrāpyayostu bhedaścedāptrā cāpyamavāpyate । āptṛsvarūpamevaitadbrahma nāpyaṁ kadācana ॥ 157 ॥
  138. आभासमात्रास्ताः सर्वा युक्तयोऽप्युक्तयोऽपि च । पुत्रस्य पितृवद्गेहे सर्वकार्येषु वस्तुषु ॥ ५३१ ॥ ābhāsamātrāstāḥ sarvā yuktayo'pyuktayo'pi ca । putrasya pitṛvadgehe sarvakāryeṣu vastuṣu ॥ 531 ॥
  139. आयातासु गतासु शैशवमुखावस्थासु जाग्रन्मुखा - स्वन्यास्वप्यखिलासु वृत्तिषु धियो दुष्टास्वदुष्टास्वपि । गङ्गाभङ्गपरम्परासु जलवत्सत्तानुवृत्तात्मन - स्तिष्ठत्येव सदा स्थिराहमहमित्येकात्मता साक्षिणः ॥ ६१४ ॥ āyātāsu gatāsu śaiśavamukhāvasthāsu jāgranmukhā - svanyāsvapyakhilāsu vṛttiṣu dhiyo duṣṭāsvaduṣṭāsvapi । gaṅgābhaṅgaparamparāsu jalavatsattānuvṛttātmana - stiṣṭhatyeva sadā sthirāhamahamityekātmatā sākṣiṇaḥ ॥ 614 ॥
  140. आरम्भन्ते कार्यगुणान्ये कारणगुणा हि ते । एतानि सूक्ष्मभूतानि भूतमात्रा अपि क्रमात् ॥ ३३७ ॥ ārambhante kāryaguṇānye kāraṇaguṇā hi te । etāni sūkṣmabhūtāni bhūtamātrā api kramāt ॥ 337 ॥
  141. आरूढस्य विवेकाश्वं तीव्रवैराग्यखड्गिनः । तितिक्षावर्मयुक्तस्य प्रतियोगी न दृश्यते ॥ ९० ॥ ārūḍhasya vivekāśvaṁ tīvravairāgyakhaḍginaḥ । titikṣāvarmayuktasya pratiyogī na dṛśyate ॥ 90 ॥
  142. आर्जने रक्षणे दाने व्यये वापि च वस्तुतः । दुःखमेव सदा नॄणां न धनं सुखसाधनम् ॥ ७२ ॥ ārjane rakṣaṇe dāne vyaye vāpi ca vastutaḥ । duḥkhameva sadā nṝṇāṁ na dhanaṁ sukhasādhanam ॥ 72 ॥
  143. आवृतिस्तमसः शक्तिस्तद्ध्यावरणकारणम् । मूलाविद्येति सा प्रोक्ता यया संमोहितं जगत् ॥ ४८९ ॥ āvṛtistamasaḥ śaktistaddhyāvaraṇakāraṇam । mūlāvidyeti sā proktā yayā saṁmohitaṁ jagat ॥ 489 ॥
  144. आशापाशशतेन पाशितपदो नोत्थातुमेव क्षमः कामक्रोधमदादिभिः प्रतिभटैः संरक्ष्यमाणोऽनिशम् । संमोहावरणेन गोपनवतः संसारकारागृहा - न्निर्गन्तुं त्रिविधेषणापरवशः कः शक्नुयाद्रागिषु ॥ ४८ ॥ āśāpāśaśatena pāśitapado notthātumeva kṣamaḥ kāmakrodhamadādibhiḥ pratibhaṭaiḥ saṁrakṣyamāṇo'niśam । saṁmohāvaraṇena gopanavataḥ saṁsārakārāgṛhā - nnirgantuṁ trividheṣaṇāparavaśaḥ kaḥ śaknuyādrāgiṣu ॥ 48 ॥
  145. आसनं तद्विजानीयादितरत्सुखनाशनम् । चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् ॥ ९१४ ॥ āsanaṁ tadvijānīyāditaratsukhanāśanam । cittādisarvabhāveṣu brahmatvenaiva bhāvanāt ॥ 914 ॥
  146. आसुरीं सम्पदं त्यक्त्वा भजेद्यो दैवसम्पदम् । मोक्षैककाङ्क्षया नित्यं तस्य चित्तं प्रसीदति ॥ ३६४ ॥ āsurīṁ sampadaṁ tyaktvā bhajedyo daivasampadam । mokṣaikakāṅkṣayā nityaṁ tasya cittaṁ prasīdati ॥ 364 ॥
  147. आस्वाद्यते यो भक्ष्येषु सुखकृन्मधुरो रसः । स गुडस्यैव नो तेषां माधुर्यं विद्यते क्वचित् ॥ ६६९ ॥ āsvādyate yo bhakṣyeṣu sukhakṛnmadhuro rasaḥ । sa guḍasyaiva no teṣāṁ mādhuryaṁ vidyate kvacit ॥ 669 ॥
  148. इति गुरुवचनाच्छ्रुतिप्रमाणा - त्परमवगम्य स्वतत्त्वमात्मयुक्त्या । प्रशमितकरणः समाहितात्मा क्वचि - दचलाकृतिरात्मनिष्ठितोऽभूत् ॥ ९२४ ॥ iti guruvacanācchrutipramāṇā - tparamavagamya svatattvamātmayuktyā । praśamitakaraṇaḥ samāhitātmā kvaci - dacalākṛtirātmaniṣṭhito'bhūt ॥ 924 ॥
  149. इति निश्चयमेतस्य दूषयत्यपरो जडः । भवत्यात्मा कथं प्राणो वायुरेवैष आन्तरः ॥ ५४७ ॥ iti niścayametasya dūṣayatyaparo jaḍaḥ । bhavatyātmā kathaṁ prāṇo vāyurevaiṣa āntaraḥ ॥ 547 ॥
  150. इति निश्चयशून्यो यो विदेहो मुक्त एव सः । ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च ॥ ९९५ ॥ iti niścayaśūnyo yo videho mukta eva saḥ । brahmaiva vidyate sākṣādvastuto'vastuto'pi ca ॥ 995 ॥
  151. इति पृष्टो मूढतमो वदिष्यति किमुत्तरम् । नैवानुरूपकं लिङ्गं वक्ता वा नास्ति कश्चन । सुषुप्तिस्थितशून्यस्य बोद्धा कोऽन्वात्मनः परः ॥ ५९६ ॥ iti pṛṣṭo mūḍhatamo vadiṣyati kimuttaram । naivānurūpakaṁ liṅgaṁ vaktā vā nāsti kaścana । suṣuptisthitaśūnyasya boddhā ko'nvātmanaḥ paraḥ ॥ 596 ॥
  152. इति शङ्का न कर्तव्या मूढवत्पण्डितोत्तमैः । कर्मणः फलमन्यत्तु श्रवणस्य फलं पृथक् ॥ १७७ ॥ iti śaṅkā na kartavyā mūḍhavatpaṇḍitottamaiḥ । karmaṇaḥ phalamanyattu śravaṇasya phalaṁ pṛthak ॥ 177 ॥
  153. इति साक्षितयात्मानं जानात्यात्मनि साक्षिणम् । दृश्यं कामादि सकलं स्वात्मन्येव विलापयेत् ॥ ८३४ ॥ iti sākṣitayātmānaṁ jānātyātmani sākṣiṇam । dṛśyaṁ kāmādi sakalaṁ svātmanyeva vilāpayet ॥ 834 ॥
  154. इति स्वमात्मानमवेक्षमाणःप्रतीतदृश्यं प्रविलापयन्सदा । जहाति विद्वान्विपरीतभावंस्वाभाविकं भ्रान्तिवशात्प्रतीतम् ॥ ८४३ ॥ iti svamātmānamavekṣamāṇaḥpratītadṛśyaṁ pravilāpayansadā । jahāti vidvānviparītabhāvaṁsvābhāvikaṁ bhrāntivaśātpratītam ॥ 843 ॥
  155. इत्यज्ञानमपि ज्ञानं प्रबुद्धेषु प्रदृश्यते । प्रज्ञानघन एवानन्दमय इत्यपि श्रुतिः ॥ ५६६ ॥ ityajñānamapi jñānaṁ prabuddheṣu pradṛśyate । prajñānaghana evānandamaya ityapi śrutiḥ ॥ 566 ॥
  156. इत्यवस्थासमुल्लासं विमृशन्मुच्यते सुखी । शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् ॥ ९५९ ॥ ityavasthāsamullāsaṁ vimṛśanmucyate sukhī । śubhecchāditrayaṁ bhūmibhedābhedayutaṁ smṛtam ॥ 959 ॥
  157. इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् । निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ १००५ ॥ ityācāryasya śiṣyasya saṁvādenātmalakṣaṇam । nirūpitaṁ mumukṣūṇāṁ sukhabodhopapattaye ॥ 1005 ॥
  158. इत्यादिवैपरीत्यं तत्साधने चाधिकारिणोः । द्वयोः परस्परापेक्षा विद्यते न कदाचन ॥ १८३ ॥ ityādivaiparītyaṁ tatsādhane cādhikāriṇoḥ । dvayoḥ parasparāpekṣā vidyate na kadācana ॥ 183 ॥
  159. इत्यादिश्रुतिसद्भावाद्युक्ता मनस आत्मता । इति निश्चयमेतस्य दूषयत्यपरो जडः ॥ ५५२ ॥ ityādiśrutisadbhāvādyuktā manasa ātmatā । iti niścayametasya dūṣayatyaparo jaḍaḥ ॥ 552 ॥
  160. इत्यानन्दसमुत्कर्षः प्रबुद्धेषु प्रदृश्यते । समष्टेरपि च व्यष्टेरुभयोर्वनवृक्षवत् ॥ ३२५ ॥ ityānandasamutkarṣaḥ prabuddheṣu pradṛśyate । samaṣṭerapi ca vyaṣṭerubhayorvanavṛkṣavat ॥ 325 ॥
  161. इत्युक्त्वा स गुरुं स्तुत्वा प्रश्रयेण कृतानतिः । मुमुक्षोरुपकाराय प्रष्टव्यांशमपृच्छत ॥ ९३६ ॥ ityuktvā sa guruṁ stutvā praśrayeṇa kṛtānatiḥ । mumukṣorupakārāya praṣṭavyāṁśamapṛcchata ॥ 936 ॥
  162. इत्युक्त्वाभिमुखीकृत्य शिष्यं करुणया गुरुः । अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्चयन् ॥ २९५ ॥ ityuktvābhimukhīkṛtya śiṣyaṁ karuṇayā guruḥ । adhyāropāpavādābhyāṁ niṣprapañcaṁ prapañcayan ॥ 295 ॥
  163. इत्येवं निर्विकारादिशब्दमात्रसमर्पितम् । ध्यायतः केवलं वस्तु लक्ष्ये चित्तं प्रतिष्ठति ॥ ८९८ ॥ ityevaṁ nirvikārādiśabdamātrasamarpitam । dhyāyataḥ kevalaṁ vastu lakṣye cittaṁ pratiṣṭhati ॥ 898 ॥
  164. इत्येवं पण्डितंमन्यैः परस्परविरोधिभिः । तत्तन्मतानुरूपाल्पश्रुतियुक्त्यनुभूतिभिः ॥ ५७७ ॥ ityevaṁ paṇḍitaṁmanyaiḥ parasparavirodhibhiḥ । tattanmatānurūpālpaśrutiyuktyanubhūtibhiḥ ॥ 577 ॥
  165. इदं जगदयं सोऽयं दृश्यजातमवास्तवम् । यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते ॥ ९७४ ॥ idaṁ jagadayaṁ so'yaṁ dṛśyajātamavāstavam । yasya citte na sphurati sa jīvanmukta ucyate ॥ 974 ॥
  166. इदं ममेति सर्वेषु दृश्यभावेष्वभावना । जाग्रज्जाग्रदिति प्राहुर्महान्तो ब्रह्मवित्तमाः ॥ ९४९ ॥ idaṁ mameti sarveṣu dṛśyabhāveṣvabhāvanā । jāgrajjāgraditi prāhurmahānto brahmavittamāḥ ॥ 949 ॥
  167. इदं स्थूलवपुर्जातं भौतिकं च चतुर्विधम् । सामान्येन समष्टिः स्यादेकधीविषयत्वतः ॥ ४३७ ॥ idaṁ sthūlavapurjātaṁ bhautikaṁ ca caturvidham । sāmānyena samaṣṭiḥ syādekadhīviṣayatvataḥ ॥ 437 ॥
  168. इन्द्रियाणां चेतनत्वं देहे प्राणाः प्रजापतिम् । एतमेत्येत्यूचुरिति श्रुत्यैव प्रतिपाद्यते ॥ ५४० ॥ indriyāṇāṁ cetanatvaṁ dehe prāṇāḥ prajāpatim । etametyetyūcuriti śrutyaiva pratipādyate ॥ 540 ॥
  169. इन्द्रियाणां चेष्टयिता प्राणोऽयं पञ्चवृत्तिकः । सर्वावस्थास्ववस्थावान्सोऽयमात्मत्वमर्हति । अहं क्षुधावांस्तृष्णावानित्याद्यनुभवादपि ॥ ५४५ ॥ indriyāṇāṁ ceṣṭayitā prāṇo'yaṁ pañcavṛttikaḥ । sarvāvasthāsvavasthāvānso'yamātmatvamarhati । ahaṁ kṣudhāvāṁstṛṣṇāvānityādyanubhavādapi ॥ 545 ॥
  170. इन्द्रियाणि कथं त्वात्मा करणानि कुठारवत् । करणस्य कुठारादेश्चेतनत्वं न हीक्ष्यते ॥ ५४२ ॥ indriyāṇi kathaṁ tvātmā karaṇāni kuṭhāravat । karaṇasya kuṭhārādeścetanatvaṁ na hīkṣyate ॥ 542 ॥
  171. इन्द्रियेषु निरुद्धेषु त्यक्त्वा वेगं मनः स्वयम् । सत्त्वभावमुपादत्ते प्रसादस्तेन जायते ॥ १३१ ॥ indriyeṣu niruddheṣu tyaktvā vegaṁ manaḥ svayam । sattvabhāvamupādatte prasādastena jāyate ॥ 131 ॥
  172. इन्द्रियेष्विन्द्रियार्थेषु प्रवृत्तेषु यदृच्छया । अनुधावति तान्येव मनो वायुमिवानलः ॥ १३० ॥ indriyeṣvindriyārtheṣu pravṛtteṣu yadṛcchayā । anudhāvati tānyeva mano vāyumivānalaḥ ॥ 130 ॥
  173. इन्द्रियैश्चाल्यमानोऽयं चेष्टते न स्वतः क्वचित् । आश्रयश्चक्षुरादीनां गृहवद्गृहमेधिनाम् ॥ ५३७ ॥ indriyaiścālyamāno'yaṁ ceṣṭate na svataḥ kvacit । āśrayaścakṣurādīnāṁ gṛhavadgṛhamedhinām ॥ 537 ॥
  174. इममर्थमविज्ञाय निर्णीतं श्रुतियुक्तिभिः । जगतो दर्शनं शून्यमिति प्राहुरतद्विदः ॥ ५८९ ॥ imamarthamavijñāya nirṇītaṁ śrutiyuktibhiḥ । jagato darśanaṁ śūnyamiti prāhuratadvidaḥ ॥ 589 ॥
  175. इयं भूर्न सन्नापि तोयं न तेजोन वायुर्न खं नापि तत्कार्यजातम् । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८६ ॥ iyaṁ bhūrna sannāpi toyaṁ na tejona vāyurna khaṁ nāpi tatkāryajātam । yadeṣāmadhiṣṭhānabhūtaṁ viśuddhaṁsadekaṁ paraṁ sattadevāhamasmi ॥ 886 ॥
  176. इयं समष्टिरुत्कृष्टा सत्त्वांशोत्कर्षतः पुरा । मायेति कथ्यते तज्ज्ञैः शुद्धसत्त्वैकलक्षणा ॥ ३०९ ॥ iyaṁ samaṣṭirutkṛṣṭā sattvāṁśotkarṣataḥ purā । māyeti kathyate tajjñaiḥ śuddhasattvaikalakṣaṇā ॥ 309 ॥
  177. इष्टसाधनताबुद्ध्या गृहीतस्यापि वस्तुनः । विज्ञाय फल्गुतां पश्चात्कः पुनस्तत्प्रतीक्षते ॥ २०४ ॥ iṣṭasādhanatābuddhyā gṛhītasyāpi vastunaḥ । vijñāya phalgutāṁ paścātkaḥ punastatpratīkṣate ॥ 204 ॥
  178. इष्टस्य वस्तुनो ध्यानदर्शनाद्युपभुक्तिषु । प्रतीयते य आनन्दः सर्वेषामिह देहिनाम् ॥ ६४० ॥ iṣṭasya vastuno dhyānadarśanādyupabhuktiṣu । pratīyate ya ānandaḥ sarveṣāmiha dehinām ॥ 640 ॥
  179. ईदृशाङ्गसमायुक्तो जिज्ञासुर्युक्तिकोविदः । शूरो मृत्युं निहन्त्येव सम्यग्ज्ञानासिना ध्रुवम् ॥ २५० ॥ īdṛśāṅgasamāyukto jijñāsuryuktikovidaḥ । śūro mṛtyuṁ nihantyeva samyagjñānāsinā dhruvam ॥ 250 ॥
  180. उक्तसाधनसम्पन्नो जिज्ञासुर्यतिरात्मनः । जिज्ञासायै गुरुं गच्छेत्समित्पाणिर्नयोज्ज्वलः ॥ २५१ ॥ uktasādhanasampanno jijñāsuryatirātmanaḥ । jijñāsāyai guruṁ gacchetsamitpāṇirnayojjvalaḥ ॥ 251 ॥
  181. उत्तमो मध्यमश्चैव जघन्य इति च त्रिधा । निरूपितो विपश्चिद्भिः तत्तल्लक्षणवेदिभिः ॥ ९६ ॥ uttamo madhyamaścaiva jaghanya iti ca tridhā । nirūpito vipaścidbhiḥ tattallakṣaṇavedibhiḥ ॥ 96 ॥
  182. उत्थाने वाप्यनुत्थानेऽप्यप्रमत्तो जितेन्द्रियः । समाधिषट्कं कुर्वीत सर्वदा प्रयतो यतिः ॥ ९०० ॥ utthāne vāpyanutthāne'pyapramatto jitendriyaḥ । samādhiṣaṭkaṁ kurvīta sarvadā prayato yatiḥ ॥ 900 ॥
  183. उत्पाद्यमाप्यं संस्कार्यं विकार्यं परिगण्यते । चतुर्विधं कर्मसाध्यं फलं नान्यदितः परम् ॥ १५४ ॥ utpādyamāpyaṁ saṁskāryaṁ vikāryaṁ parigaṇyate । caturvidhaṁ karmasādhyaṁ phalaṁ nānyaditaḥ param ॥ 154 ॥
  184. उपरतिशब्दार्थो ह्युपरमणं पूर्वदृष्टवृत्तिभ्यः । सोऽयं मुख्यो गौणश्चेति च वृत्त्या द्विरूपतां धत्ते ॥ २०५ ॥ uparatiśabdārtho hyuparamaṇaṁ pūrvadṛṣṭavṛttibhyaḥ । so'yaṁ mukhyo gauṇaśceti ca vṛttyā dvirūpatāṁ dhatte ॥ 205 ॥
  185. उपरमयति कर्माणीत्युपरतिशब्देन कथ्यते न्यासः । न्यासेन हि सर्वेषां श्रुत्या प्रोक्तो विकर्मणां त्यागः ॥ १५२ ॥ uparamayati karmāṇītyuparatiśabdena kathyate nyāsaḥ । nyāsena hi sarveṣāṁ śrutyā prokto vikarmaṇāṁ tyāgaḥ ॥ 152 ॥
  186. उपलक्षणमस्यापि तत्त्रिवृत्करणश्रुतिः । पञ्चानामपि भूतानां श्रूयतेऽन्यत्र सम्भवः ॥ ४०२ ॥ upalakṣaṇamasyāpi tattrivṛtkaraṇaśrutiḥ । pañcānāmapi bhūtānāṁ śrūyate'nyatra sambhavaḥ ॥ 402 ॥
  187. उपलभ्येत केनायं ह्युपलब्धा स्वयं ततः । उपलब्ध्यन्तराभावान्नायमात्मोपलभ्यते ॥ ६०२ ॥ upalabhyeta kenāyaṁ hyupalabdhā svayaṁ tataḥ । upalabdhyantarābhāvānnāyamātmopalabhyate ॥ 602 ॥
  188. उपाधियोग उभयोः सम एवेशजीवयोः । जीवस्यैव कथं बन्धो नेश्वरस्यास्ति तत्कथम् ॥ ४७१ ॥ upādhiyoga ubhayoḥ sama eveśajīvayoḥ । jīvasyaiva kathaṁ bandho neśvarasyāsti tatkatham ॥ 471 ॥
  189. उपाधियोगसाम्येऽपि जीववत्परमात्मनः । उपाधिभेदान्नो बन्धस्तत्कार्यमपि किञ्चन ॥ ५०२ ॥ upādhiyogasāmye'pi jīvavatparamātmanaḥ । upādhibhedānno bandhastatkāryamapi kiñcana ॥ 502 ॥
  190. उपाधिवैशिष्ट्यकृतो विरोधोब्रह्मात्मनोरेकतयाधिगत्या । उपाधिवैशिष्ट्य उदस्यमानेन कश्चिदप्यस्ति विरोध एतयोः ॥ ७६२ ॥ upādhivaiśiṣṭyakṛto virodhobrahmātmanorekatayādhigatyā । upādhivaiśiṣṭya udasyamānena kaścidapyasti virodha etayoḥ ॥ 762 ॥
  191. एककर्त्राश्रयौ हस्तौ कर्मण्यधिकृतावुभौ । सहयोगस्तयोर्युक्तो न तथा ज्ञानकर्मणोः ॥ १८८ ॥ ekakartrāśrayau hastau karmaṇyadhikṛtāvubhau । sahayogastayoryukto na tathā jñānakarmaṇoḥ ॥ 188 ॥
  192. एकत्वकथने का वा लक्षणात्रोररीकृता । एतत्सर्वं करुणया सम्यक्त्वं प्रतिपादय ॥ ७०२ ॥ ekatvakathane kā vā lakṣaṇātrorarīkṛtā । etatsarvaṁ karuṇayā samyaktvaṁ pratipādaya ॥ 702 ॥
  193. एकत्वरूपवाक्यार्थो विरुद्धांशविवर्जनात् । न सिध्यति यतस्तस्मान्नाजहल्लक्षणा मता ॥ ७४७ ॥ ekatvarūpavākyārtho viruddhāṁśavivarjanāt । na sidhyati yatastasmānnājahallakṣaṇā matā ॥ 747 ॥
  194. एकवृत्त्यैव मनसः स्वलक्ष्ये नियतस्थितिः । शम इत्युच्यते सद्भिः शमलक्षणवेदिभिः ॥ ९५ ॥ ekavṛttyaiva manasaḥ svalakṣye niyatasthitiḥ । śama ityucyate sadbhiḥ śamalakṣaṇavedibhiḥ ॥ 95 ॥
  195. एकश्चन्द्रः सद्वितीयो यथा स्या - द्दृष्टेर्दोषादेव पुंसस्तथैकम् । ब्रह्मास्त्येतद्बुद्धिदोषेण नानादोषे नष्टे भाति वस्त्वेकमेव ॥ ६९० ॥ ekaścandraḥ sadvitīyo yathā syā - ddṛṣṭerdoṣādeva puṁsastathaikam । brahmāstyetadbuddhidoṣeṇa nānādoṣe naṣṭe bhāti vastvekameva ॥ 690 ॥
  196. एकादशद्वारवतीह देहेसौधे महाराज इवाक्षवर्गैः । संसेव्यमानो विषयोपभोगा - नुपाधिसंस्थो बुभुजेऽयमात्मा ॥ ४४८ ॥ ekādaśadvāravatīha dehesaudhe mahārāja ivākṣavargaiḥ । saṁsevyamāno viṣayopabhogā - nupādhisaṁstho bubhuje'yamātmā ॥ 448 ॥
  197. एकीकृत्य तरङ्गोऽयमिति निर्दिश्यते यथा । आरोपिते नामरूपे उपेक्ष्य ब्रह्मणस्ततः ॥ ८८३ ॥ ekīkṛtya taraṅgo'yamiti nirdiśyate yathā । āropite nāmarūpe upekṣya brahmaṇastataḥ ॥ 883 ॥
  198. एकीकृत्योच्यते मूर्खैरिदं विश्वमिति भ्रमात् । शैत्यं श्वेतं रसं द्राव्यं तरङ्ग इति नाम च ॥ ८८२ ॥ ekīkṛtyocyate mūrkhairidaṁ viśvamiti bhramāt । śaityaṁ śvetaṁ rasaṁ drāvyaṁ taraṅga iti nāma ca ॥ 882 ॥
  199. एतत्संशयजातं मे हृदयग्रन्थिलक्षणम् । छिन्धि युक्तिमहाखड्गधारया कृपया गुरो ॥ ५८३ ॥ etatsaṁśayajātaṁ me hṛdayagranthilakṣaṇam । chindhi yuktimahākhaḍgadhārayā kṛpayā guro ॥ 583 ॥
  200. एतत्समष्टिव्यष्ट्योश्चोभयोरप्यभिमानिनोः । तद्विश्ववैश्वानरयोरभेदः पूर्ववन्मतः ॥ ४५१ ॥ etatsamaṣṭivyaṣṭyoścobhayorapyabhimāninoḥ । tadviśvavaiśvānarayorabhedaḥ pūrvavanmataḥ ॥ 451 ॥
  201. एतत्समष्ट्यवच्छिन्नं चैतन्यं फलसंयुतम् । प्राहुर्वैश्वानर इति विराडिति च वैदिकाः ॥ ४३८ ॥ etatsamaṣṭyavacchinnaṁ caitanyaṁ phalasaṁyutam । prāhurvaiśvānara iti virāḍiti ca vaidikāḥ ॥ 438 ॥
  202. एतत्सर्वं दयादृष्ट्या करामलकवत्स्फुटम् । प्रतिपादय सर्वज्ञ श्रीगुरो करुणानिधे ॥ ४७२ ॥ etatsarvaṁ dayādṛṣṭyā karāmalakavatsphuṭam । pratipādaya sarvajña śrīguro karuṇānidhe ॥ 472 ॥
  203. एतदेवाविविक्तं सदुपाधिभ्यां च तद्गुणैः । महावाक्यस्य वाच्यार्थो विविक्तं लक्ष्य इष्यते ॥ ३२९ ॥ etadevāviviktaṁ sadupādhibhyāṁ ca tadguṇaiḥ । mahāvākyasya vācyārtho viviktaṁ lakṣya iṣyate ॥ 329 ॥
  204. एतदैक्यप्रमेयस्य प्रमाणस्यापि च श्रुतेः । सम्बन्धः कथ्यते सद्भिर्बोध्यबोधकलक्षणः ॥ ९ ॥ etadaikyaprameyasya pramāṇasyāpi ca śruteḥ । sambandhaḥ kathyate sadbhirbodhyabodhakalakṣaṇaḥ ॥ 9 ॥
  205. एतद्दृश्यं नामरूपात्मकं यो - ऽधिष्ठानं तद्ब्रह्म सत्यं सदेति । गच्छंस्तिष्टन्वा शयानोऽपि नित्यंकुर्याद्विद्वान्बाह्यदृश्यानुविद्धम् ॥ ८९१ ॥ etaddṛśyaṁ nāmarūpātmakaṁ yo - 'dhiṣṭhānaṁ tadbrahma satyaṁ sadeti । gacchaṁstiṣṭanvā śayāno'pi nityaṁkuryādvidvānbāhyadṛśyānuviddham ॥ 891 ॥
  206. एतस्य संसृतेर्हेतुरध्यासोऽर्थविपर्ययः । अध्यासमूलमज्ञानमाहुरावृतिलक्षणम् ॥ ५०९ ॥ etasya saṁsṛterheturadhyāso'rthaviparyayaḥ । adhyāsamūlamajñānamāhurāvṛtilakṣaṇam ॥ 509 ॥
  207. एते प्राणादयः पञ्च पञ्चकर्मेन्द्रियैः सह । भवेत्प्राणमयः कोशः स्थूलो येनैव चेष्टते ॥ ३८१ ॥ ete prāṇādayaḥ pañca pañcakarmendriyaiḥ saha । bhavetprāṇamayaḥ kośaḥ sthūlo yenaiva ceṣṭate ॥ 381 ॥
  208. एतेभ्यः सूक्ष्मभूतेभ्यः सूक्ष्मदेहा भवन्त्यपि । स्थूलान्यपि च भूतानि चान्योन्यांशविमेलनात् ॥ ३३८ ॥ etebhyaḥ sūkṣmabhūtebhyaḥ sūkṣmadehā bhavantyapi । sthūlānyapi ca bhūtāni cānyonyāṁśavimelanāt ॥ 338 ॥
  209. एतैः प्रमाणैरस्तीति ज्ञातः साक्षितया बुधैः । आत्मायं केवलः शुद्धः सच्चिदानन्दलक्षणः ॥ ६०९ ॥ etaiḥ pramāṇairastīti jñātaḥ sākṣitayā budhaiḥ । ātmāyaṁ kevalaḥ śuddhaḥ saccidānandalakṣaṇaḥ ॥ 609 ॥
  210. एतैश्चतुर्भिर्गन्धेन सह पञ्चगुणा मही । आकाशांशतया श्रोत्रं शब्दं गृह्णाति तद्गुणम् ॥ ४११ ॥ etaiścaturbhirgandhena saha pañcaguṇā mahī । ākāśāṁśatayā śrotraṁ śabdaṁ gṛhṇāti tadguṇam ॥ 411 ॥
  211. एवं यद्विघ्नबाहुल्यं त्याज्यं तद्ब्रह्मविज्जनैः । विघ्नानेतान्परित्यज्य प्रमादरहितो वशी । समाधिनिष्ठया ब्रह्म साक्षाद्भवितुमर्हसि ॥ ९२३ ॥ evaṁ yadvighnabāhulyaṁ tyājyaṁ tadbrahmavijjanaiḥ । vighnānetānparityajya pramādarahito vaśī । samādhiniṣṭhayā brahma sākṣādbhavitumarhasi ॥ 923 ॥
  212. एवं सन्मात्रगाहिन्या वृत्त्या तन्मात्रगाहकैः । शब्दैः समर्पितं वस्तु भावयेन्निश्चलो यतिः ॥ ८७१ ॥ evaṁ sanmātragāhinyā vṛttyā tanmātragāhakaiḥ । śabdaiḥ samarpitaṁ vastu bhāvayenniścalo yatiḥ ॥ 871 ॥
  213. एवं सूक्ष्मप्रपञ्चस्य प्रकारः शास्त्रसम्मतः । अथ स्थूलप्रपञ्चस्य प्रकारः कथ्यते शृणु ॥ ३९६ ॥ evaṁ sūkṣmaprapañcasya prakāraḥ śāstrasammataḥ । atha sthūlaprapañcasya prakāraḥ kathyate śṛṇu ॥ 396 ॥
  214. एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते । प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके ॥ ९८९ ॥ evaṁ sthūlaṁ ca sūkṣmaṁ ca śarīraṁ nābhimanyate । pratyagjñānaśikhidhvaste mithyājñāne sahetuke ॥ 989 ॥
  215. एष एव प्रियतमः पुत्रादपि धनादपि । अन्यस्मादपि सर्वस्मादात्मायं परमान्तरः ॥ ६२७ ॥ eṣa eva priyatamaḥ putrādapi dhanādapi । anyasmādapi sarvasmādātmāyaṁ paramāntaraḥ ॥ 627 ॥
  216. एष निष्कण्टकः पन्था मुक्तेर्ब्रह्मात्मना स्थितेः । शुद्धात्मनां मुमुक्षूणां यत्सदेकत्वदर्शनम् ॥ ९०७ ॥ eṣa niṣkaṇṭakaḥ panthā mukterbrahmātmanā sthiteḥ । śuddhātmanāṁ mumukṣūṇāṁ yatsadekatvadarśanam ॥ 907 ॥
  217. एष प्रत्यक्स्वप्रकाशो निरंशो - ऽसङ्गः शुद्धः सर्वदैकस्वभावः । नित्याखण्डानन्दरूपो निरीहःसाक्षी चेता केवलो निर्गुणश्च ॥ ४५८ ॥ eṣa pratyaksvaprakāśo niraṁśo - 'saṅgaḥ śuddhaḥ sarvadaikasvabhāvaḥ । nityākhaṇḍānandarūpo nirīhaḥsākṣī cetā kevalo nirguṇaśca ॥ 458 ॥
  218. ऐतदात्म्यमिदं सर्वं तत्सत्यमिति च श्रुतिः । अस्यैव नित्यतां ब्रूते जगद्धेतोः सतः स्फुटम् ॥ १६७ ॥ aitadātmyamidaṁ sarvaṁ tatsatyamiti ca śrutiḥ । asyaiva nityatāṁ brūte jagaddhetoḥ sataḥ sphuṭam ॥ 167 ॥
  219. ऐतदात्म्यमिदं सर्वमित्युक्त्यैव सदात्मनोः । ब्रवीति श्रुतिरेकत्वं ब्रह्मणोऽद्वैतसिद्धये ७३० ॥ aitadātmyamidaṁ sarvamityuktyaiva sadātmanoḥ । bravīti śrutirekatvaṁ brahmaṇo'dvaitasiddhaye 730 ॥
  220. ऐहिकामुष्मिकार्थेषु ह्यनित्यत्वेन निश्चयात् । नैःस्पृह्यं तुच्छबुद्ध्या यत्तद्वैराग्यमितीर्यते ॥ २२ ॥ aihikāmuṣmikārtheṣu hyanityatvena niścayāt । naiḥspṛhyaṁ tucchabuddhyā yattadvairāgyamitīryate ॥ 22 ॥
  221. ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः । अवस्थात्रयहीनात्मा विदेहो मुक्त एव सः ॥ ९८७ ॥ oṅkāravācyahīnātmā sarvavācyavivarjitaḥ । avasthātrayahīnātmā videho mukta eva saḥ ॥ 987 ॥
  222. औपचारिकमात्मत्वं पुत्रे तस्मान्न मुख्यतः । अहम्पदप्रत्ययार्थो देह एव न चेतरः ॥ ५३३ ॥ aupacārikamātmatvaṁ putre tasmānna mukhyataḥ । ahampadapratyayārtho deha eva na cetaraḥ ॥ 533 ॥
  223. क आत्मा कस्त्वनात्मा च किमु लक्षणमेतयोः । आत्मन्यनात्मधर्माणामारोपः क्रियते कथम् ॥ २७५ ॥ ka ātmā kastvanātmā ca kimu lakṣaṇametayoḥ । ātmanyanātmadharmāṇāmāropaḥ kriyate katham ॥ 275 ॥
  224. कट्वाम्ललवणात्युष्णतीक्ष्णरूक्षविधायिनाम् । पूतिपर्युषितादीनां त्यागः सत्त्वाय कल्पते ॥ ३६९ ॥ kaṭvāmlalavaṇātyuṣṇatīkṣṇarūkṣavidhāyinām । pūtiparyuṣitādīnāṁ tyāgaḥ sattvāya kalpate ॥ 369 ॥
  225. कथं मनस आत्मत्वं करणस्य दृगादिवत् । कर्तृप्रयोज्यं करणं न स्वयं तु प्रवर्तते ॥ ५५३ ॥ kathaṁ manasa ātmatvaṁ karaṇasya dṛgādivat । kartṛprayojyaṁ karaṇaṁ na svayaṁ tu pravartate ॥ 553 ॥
  226. कथमज्ञानमेवात्मा ज्ञानं चाप्युपलभ्यते । ज्ञानाभावे कथं विद्युरज्ञोऽहमिति चाज्ञताम् । अस्वाप्सं सुखमेवाहं न जानाम्यत्र किञ्चन ॥ ५६५ ॥ kathamajñānamevātmā jñānaṁ cāpyupalabhyate । jñānābhāve kathaṁ vidyurajño'hamiti cājñatām । asvāpsaṁ sukhamevāhaṁ na jānāmyatra kiñcana ॥ 565 ॥
  227. कथमन्योन्यसापेक्षा कथं वापि समुच्चयः । यथाग्नेस्तृणकूटस्य तेजसस्तिमिरस्य च ॥ १८५ ॥ kathamanyonyasāpekṣā kathaṁ vāpi samuccayaḥ । yathāgnestṛṇakūṭasya tejasastimirasya ca ॥ 185 ॥
  228. कथमसतः सज्जायेतेति श्रुत्या निषिध्यते तस्मात् । असतः सज्जननं नो घटते मिथ्यैव शून्यशब्दार्थः ॥ ५९३ ॥ kathamasataḥ sajjāyeteti śrutyā niṣidhyate tasmāt । asataḥ sajjananaṁ no ghaṭate mithyaiva śūnyaśabdārthaḥ ॥ 593 ॥
  229. कथमेकत्वमनयोर्घटते विपरीतयोः । प्रत्यक्षेण विरोधोऽयमुभयोरुपलभ्यते ॥ ७२३ ॥ kathamekatvamanayorghaṭate viparītayoḥ । pratyakṣeṇa virodho'yamubhayorupalabhyate ॥ 723 ॥
  230. करणप्रयोक्ता यः कर्ता तस्यैवात्मत्वमर्हति । आत्मा स्वतन्त्रः पुरुषो न प्रयोज्यः कदाचन ॥ ५५४ ॥ karaṇaprayoktā yaḥ kartā tasyaivātmatvamarhati । ātmā svatantraḥ puruṣo na prayojyaḥ kadācana ॥ 554 ॥
  231. करोति खांशकतया वाक्शब्दोच्चारणक्रियाम् । वाय्वंशकतया पादौ गमनादिक्रियापरौ ॥ ४१४ ॥ karoti khāṁśakatayā vākśabdoccāraṇakriyām । vāyvaṁśakatayā pādau gamanādikriyāparau ॥ 414 ॥
  232. करोति विज्ञानमयोऽभिमानंकर्ताहमेवेति तदात्मना स्थितः । आत्मा तु साक्षी न करोति किञ्चि - न्न कारयत्येव तटस्थवत्सदा ॥ ४२३ ॥ karoti vijñānamayo'bhimānaṁkartāhameveti tadātmanā sthitaḥ । ātmā tu sākṣī na karoti kiñci - nna kārayatyeva taṭasthavatsadā ॥ 423 ॥
  233. कर्तव्यं स्वोचितं कर्म योगमारोढुमिच्छता । आरोहणं कुर्वतस्तु कर्म नारोहणं मतम् ॥ ८६३ ॥ kartavyaṁ svocitaṁ karma yogamāroḍhumicchatā । ārohaṇaṁ kurvatastu karma nārohaṇaṁ matam ॥ 863 ॥
  234. कर्तृतन्त्रं भवेत्कर्म कर्मतन्त्रं शुभाशुभम् । प्रमाणतन्त्रं विज्ञानं मायातन्त्रमिदं जगत् ॥ १९६ ॥ kartṛtantraṁ bhavetkarma karmatantraṁ śubhāśubham । pramāṇatantraṁ vijñānaṁ māyātantramidaṁ jagat ॥ 196 ॥
  235. कर्त्रा कर्तुमकर्तुं वाप्यन्यथा कर्म शक्यते । न तथा वस्तुनो ज्ञानं कर्तृतन्त्रं कदाचन ॥ १८९ ॥ kartrā kartumakartuṁ vāpyanyathā karma śakyate । na tathā vastuno jñānaṁ kartṛtantraṁ kadācana ॥ 189 ॥
  236. कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । कर्मणः कार्यमेवैषा जन्ममृत्युपरम्परा ॥ ५११ ॥ karmaṇā jāyate jantuḥ karmaṇaiva pralīyate । karmaṇaḥ kāryamevaiṣā janmamṛtyuparamparā ॥ 511 ॥
  237. कर्मणा साध्यमानस्यानित्यत्वं श्रूयते यतः । कर्मणानेन किं नित्यफलेप्सोः परमार्थिनः ॥ १५३ ॥ karmaṇā sādhyamānasyānityatvaṁ śrūyate yataḥ । karmaṇānena kiṁ nityaphalepsoḥ paramārthinaḥ ॥ 153 ॥
  238. कर्मानुरूपेण गुणोदयो भवे - द्गुणानुरूपेण मनःप्रवृत्तिः । मनोनुवृत्तैरुभयात्मकेन्द्रियै - र्निवर्त्यते पुण्यमपुण्यमत्र ॥ ४२२ ॥ karmānurūpeṇa guṇodayo bhave - dguṇānurūpeṇa manaḥpravṛttiḥ । manonuvṛttairubhayātmakendriyai - rnivartyate puṇyamapuṇyamatra ॥ 422 ॥
  239. काकस्य विष्ठावदसह्यबुद्धि - र्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहु - र्भोग्येषु दोषेक्षणमेव सन्तः ॥ २४ ॥ kākasya viṣṭhāvadasahyabuddhi - rbhogyeṣu sā tīvraviraktiriṣyate । viraktitīvratvanidānamāhu - rbhogyeṣu doṣekṣaṇameva santaḥ ॥ 24 ॥
  240. कान्तारे विजने वने जनपदे सेतौ निरीतौ च वा चोरैर्वापि तथेतरैर्नरवरैर्युक्तो वियुक्तोऽपि वा । निःस्वः स्वस्थतया सुखेन वसति ह्याद्रीयमाणो जनैः क्लिश्नात्येव धनी सदाकुलमतिर्भीतश्च पुत्रादपि ॥ ८२ ॥ kāntāre vijane vane janapade setau nirītau ca vā corairvāpi tathetarairnaravarairyukto viyukto'pi vā । niḥsvaḥ svasthatayā sukhena vasati hyādrīyamāṇo janaiḥ kliśnātyeva dhanī sadākulamatirbhītaśca putrādapi ॥ 82 ॥
  241. काम एव यमः साक्षात्कान्ता वैतरणी नदी । विवेकिनां मुमुक्षूणां निलयस्तु यमालयः ॥ ५३ ॥ kāma eva yamaḥ sākṣātkāntā vaitaraṇī nadī । vivekināṁ mumukṣūṇāṁ nilayastu yamālayaḥ ॥ 53 ॥
  242. कामः क्रोधश्च लोभश्च मदो मोहश्च मत्सरः । न जिताः षडिमे येन तस्य शान्तिर्न सिध्यति ॥ १०१ ॥ kāmaḥ krodhaśca lobhaśca mado mohaśca matsaraḥ । na jitāḥ ṣaḍime yena tasya śāntirna sidhyati ॥ 101 ॥
  243. कामस्य बीजं सङ्कल्पः सङ्कल्पादेव जायते । बीजे नष्टेऽङ्कुर इव तस्मिन्नष्टे विनश्यति ॥ ६४ ॥ kāmasya bījaṁ saṅkalpaḥ saṅkalpādeva jāyate । bīje naṣṭe'ṅkura iva tasminnaṣṭe vinaśyati ॥ 64 ॥
  244. कामस्य विजयोपायं सूक्ष्मं वक्ष्याम्यहं सताम् । सङ्कल्पस्य परित्याग उपायः सुलभो मतः ॥ ६२ ॥ kāmasya vijayopāyaṁ sūkṣmaṁ vakṣyāmyahaṁ satām । saṅkalpasya parityāga upāyaḥ sulabho mataḥ ॥ 62 ॥
  245. कामादिदृश्यप्रविलापपूर्वकंशुद्धोऽहमित्यादिकशब्दमिश्रः । दृश्येव निष्ठस्य य एष भावःशब्दानुविद्धः कथितः समाधिः ॥ ८७२ ॥ kāmādidṛśyapravilāpapūrvakaṁśuddho'hamityādikaśabdamiśraḥ । dṛśyeva niṣṭhasya ya eṣa bhāvaḥśabdānuviddhaḥ kathitaḥ samādhiḥ ॥ 872 ॥
  246. कामान्धकारेण निरुद्धदृष्टि - र्मुह्यत्यसत्यप्यबलास्वरूपे । न ह्यन्धदृष्टेरसतः सतो वा सुखत्वदुःखत्वविचारणास्ति ॥ ४९ ॥ kāmāndhakāreṇa niruddhadṛṣṭi - rmuhyatyasatyapyabalāsvarūpe । na hyandhadṛṣṭerasataḥ sato vā sukhatvaduḥkhatvavicāraṇāsti ॥ 49 ॥
  247. कामेन कान्तां परिगृह्य तद्व - ज्जनोऽप्ययं नश्यति नष्टदृष्टिः । मांसास्थिमज्जामलमूत्रपात्रं स्त्रियं स्वयं रम्यतयैव पश्यति ॥ ५२ ॥ kāmena kāntāṁ parigṛhya tadva - jjano'pyayaṁ naśyati naṣṭadṛṣṭiḥ । māṁsāsthimajjāmalamūtrapātraṁ striyaṁ svayaṁ ramyatayaiva paśyati ॥ 52 ॥
  248. कामो नाम महाञ्जगद्भ्रमयिता स्थित्वान्तरङ्गे स्वयं स्त्रीपुंसावितरेतराङ्गकगुणैर्हासैश्च भावैः स्फुटम् । अन्योन्यं परिमोह्य नैजतमसा प्रेमानुबन्धेन तौ बद्ध्वा भ्रामयति प्रपञ्चरचनां संवर्धयन्ब्रह्महा ॥ ५८ ॥ kāmo nāma mahāñjagadbhramayitā sthitvāntaraṅge svayaṁ strīpuṁsāvitaretarāṅgakaguṇairhāsaiśca bhāvaiḥ sphuṭam । anyonyaṁ parimohya naijatamasā premānubandhena tau baddhvā bhrāmayati prapañcaracanāṁ saṁvardhayanbrahmahā ॥ 58 ॥
  249. कारणस्यानुरूपेण कार्यं सर्वत्र दृश्यते । तस्मात्प्रामाण्यमेष्टव्यं बुद्धैः पञ्चीकृतेरपि ॥ ४०८ ॥ kāraṇasyānurūpeṇa kāryaṁ sarvatra dṛśyate । tasmātprāmāṇyameṣṭavyaṁ buddhaiḥ pañcīkṛterapi ॥ 408 ॥
  250. कारणाज्ञाननाशाद्यद्द्रष्टृदर्शनदृश्यता । न कार्यमस्ति तज्ज्ञानं स्वप्नस्वप्नः समीर्यते ॥ ९५३ ॥ kāraṇājñānanāśādyaddraṣṭṛdarśanadṛśyatā । na kāryamasti tajjñānaṁ svapnasvapnaḥ samīryate ॥ 953 ॥
  251. कारागृहस्यास्य च को विशेषः प्रदृश्यते साधु विचार्यमाणे । मुक्तेः प्रतीपत्वमिहापि पुंसः कान्तासुखाभ्युत्थितमोहपाशैः ॥ ४६ ॥ kārāgṛhasyāsya ca ko viśeṣaḥ pradṛśyate sādhu vicāryamāṇe । mukteḥ pratīpatvamihāpi puṁsaḥ kāntāsukhābhyutthitamohapāśaiḥ ॥ 46 ॥
  252. कालभेदो वस्तुभेदो देशभेदः स्वभेदकः । किञ्चिद्भेदो न तस्यास्ति किञ्चिद्वापि न विद्यते ॥ ९९३ ॥ kālabhedo vastubhedo deśabhedaḥ svabhedakaḥ । kiñcidbhedo na tasyāsti kiñcidvāpi na vidyate ॥ 993 ॥
  253. किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् । यन्मया पूरितं विश्वं महाकल्पाम्बुना यथा ॥ ९२८ ॥ kiṁ karomi kva gacchāmi kiṁ gṛhṇāmi tyajāmi kim । yanmayā pūritaṁ viśvaṁ mahākalpāmbunā yathā ॥ 928 ॥
  254. किं मरुन्मृगतृष्णाम्बुपूरेणार्द्रत्वमृच्छति । दृष्टिसंस्थितपीतेन शङ्खः पीतायते किमु ॥ ४६५ ॥ kiṁ marunmṛgatṛṣṇāmbupūreṇārdratvamṛcchati । dṛṣṭisaṁsthitapītena śaṅkhaḥ pītāyate kimu ॥ 465 ॥
  255. किमज्ञानं तदुत्पन्नभयत्यागोऽपि वा कथम् । किमु ज्ञानं तदुत्पन्नसुखप्राप्तिश्च वा कथम् ॥ २७६ ॥ kimajñānaṁ tadutpannabhayatyāgo'pi vā katham । kimu jñānaṁ tadutpannasukhaprāptiśca vā katham ॥ 276 ॥
  256. कुक्षौ स्वमातुर्मलमूत्रमध्ये स्थितिं तदा विट्क्रिमिदंशनं च । तदीयकौक्षेयकवह्निदाहं विचार्य को वा विरतिं न याति ॥ २७ ॥ kukṣau svamāturmalamūtramadhye sthitiṁ tadā viṭkrimidaṁśanaṁ ca । tadīyakaukṣeyakavahnidāhaṁ vicārya ko vā viratiṁ na yāti ॥ 27 ॥
  257. कुड्यादेस्तु जडस्य नैव घटते भानं स्वतः सर्वदासूर्यादिप्रभया विना क्वचिदपि प्रत्यक्षमेतत्तथा । बुद्ध्यादेरपि न स्वतोऽस्त्यणुरपि स्फूर्तिर्विनैवात्मनासोऽयं केवलचिन्मयश्रुतिमतो भानुर्यथा रुङ्मयः ॥ ६१९ ॥ kuḍyādestu jaḍasya naiva ghaṭate bhānaṁ svataḥ sarvadāsūryādiprabhayā vinā kvacidapi pratyakṣametattathā । buddhyāderapi na svato'styaṇurapi sphūrtirvinaivātmanāso'yaṁ kevalacinmayaśrutimato bhānuryathā ruṅmayaḥ ॥ 619 ॥
  258. कृतकत्वमनित्यत्वे हेतुर्जागर्ति सर्वदा । तस्मादनित्ये स्वर्गादौ पण्डितः को नु मुह्यति ॥ १६५ ॥ kṛtakatvamanityatve heturjāgarti sarvadā । tasmādanitye svargādau paṇḍitaḥ ko nu muhyati ॥ 165 ॥
  259. कृतिपर्यवसानैव मता तीव्रमुमुक्षुता । अन्या तु रञ्जनामात्रा यत्र नो दृश्यते कृतिः ॥ २४६ ॥ kṛtiparyavasānaiva matā tīvramumukṣutā । anyā tu rañjanāmātrā yatra no dṛśyate kṛtiḥ ॥ 246 ॥
  260. केचिन्मारुतभोजनाः खलु परे चन्द्रार्कतेजोशनाःकेचित्तोयकणाशिनोऽपरिमिताः केचित्तु मृद्भक्षकाः । केचित्पर्णशिलातृणादनपराः केचित्तु मांसाशिनःकेचिद्व्रीहियवान्नभोजनपरा जीवन्त्यमी जन्तवः ॥ ४३३ ॥ kecinmārutabhojanāḥ khalu pare candrārkatejośanāḥkecittoyakaṇāśino'parimitāḥ kecittu mṛdbhakṣakāḥ । kecitparṇaśilātṛṇādanaparāḥ kecittu māṁsāśinaḥkecidvrīhiyavānnabhojanaparā jīvantyamī jantavaḥ ॥ 433 ॥
  261. केन दुष्टेन युज्येत वस्तु निर्मलमक्रियम् । यद्योगादागतं दोषं संस्कारो विनिवर्तयेत् ॥ १५९ ॥ kena duṣṭena yujyeta vastu nirmalamakriyam । yadyogādāgataṁ doṣaṁ saṁskāro vinivartayet ॥ 159 ॥
  262. केन वा पुण्यशेषेण तव पादाम्बुजद्वयम् । दृष्टवानस्मि मामार्तं मृत्योस्त्राहि दयादृशा ॥ २६४ ॥ kena vā puṇyaśeṣeṇa tava pādāmbujadvayam । dṛṣṭavānasmi māmārtaṁ mṛtyostrāhi dayādṛśā ॥ 264 ॥
  263. को नाम लोके पुरुषो विवेकी विनश्वरे तुच्छसुखे गृहादौ । कुर्याद्रतिं नित्यमवेक्षमाणो वृथैव मोहान्म्रियमाणजन्तून् ॥ ४० ॥ ko nāma loke puruṣo vivekī vinaśvare tucchasukhe gṛhādau । kuryādratiṁ nityamavekṣamāṇo vṛthaiva mohānmriyamāṇajantūn ॥ 40 ॥
  264. कोटीन्धनाद्रिज्वलितोऽपि वह्निरर्कस्य नार्हत्युपकर्तुमीषत् । यथा तथा कर्मसहस्रकोटिर्ज्ञानस्य किं नु स्वयमेव लीयते ॥ १८७ ॥ koṭīndhanādrijvalito'pi vahnirarkasya nārhatyupakartumīṣat । yathā tathā karmasahasrakoṭirjñānasya kiṁ nu svayameva līyate ॥ 187 ॥
  265. कोशक्रिमिस्तन्तुभिरात्मदेह - मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् । स्वयं विनिर्गन्तुमशक्त एव संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥ kośakrimistantubhirātmadeha - māveṣṭya cāveṣṭya ca guptimicchan । svayaṁ vinirgantumaśakta eva saṁstatastadante mriyate ca lagnaḥ ॥ 44 ॥
  266. कोशत्रयं मिलित्वैतद्वपुः स्यात्सूक्ष्ममात्मनः ।अतिसूक्ष्मतया लीनस्यात्मनो गमकत्वतः ॥ ३८५ ॥ kośatrayaṁ militvaitadvapuḥ syātsūkṣmamātmanaḥ ।atisūkṣmatayā līnasyātmano gamakatvataḥ ॥ 385 ॥
  267. क्रियैव दिश्यते प्रायः प्राणकर्मेन्द्रियेष्वलम् । ततस्तेषां रजोंऽशेभ्यो जनिरङ्गीकृता बुधैः ॥ ३७९ ॥ kriyaiva diśyate prāyaḥ prāṇakarmendriyeṣvalam । tatasteṣāṁ rajoṁ'śebhyo janiraṅgīkṛtā budhaiḥ ॥ 379 ॥
  268. क्लेशाः स्युर्वासना एव जन्तोर्जन्मादिकारणम् । ज्ञाननिष्ठाग्निना दाहे तासां नो जन्महेतुता ॥ ८४९ ॥ kleśāḥ syurvāsanā eva jantorjanmādikāraṇam । jñānaniṣṭhāgninā dāhe tāsāṁ no janmahetutā ॥ 849 ॥
  269. क्षमावतामेव हि योगसिद्धिःस्वाराज्यलक्ष्मीसुखभोगसिद्धिः । क्षमाविहीना निपतन्ति विघ्नै - र्वातैर्हताः पर्णचया इव द्रुमात् ॥ १३९ ॥ kṣamāvatāmeva hi yogasiddhiḥsvārājyalakṣmīsukhabhogasiddhiḥ । kṣamāvihīnā nipatanti vighnai - rvātairhatāḥ parṇacayā iva drumāt ॥ 139 ॥
  270. क्षीणेन्द्रियस्य जीर्णस्य सम्प्राप्तोत्क्रमणस्य वा । अस्ति जीवितुमेवाशा स्वात्मा प्रियतमो यतः ॥ ६२५ ॥ kṣīṇendriyasya jīrṇasya samprāptotkramaṇasya vā । asti jīvitumevāśā svātmā priyatamo yataḥ ॥ 625 ॥
  271. खादते मोदते नित्यं शुनकः सूकरः खरः । तेषामेषां विशेषः को वृत्तिर्येषां तु तैः समा ॥ २४१ ॥ khādate modate nityaṁ śunakaḥ sūkaraḥ kharaḥ । teṣāmeṣāṁ viśeṣaḥ ko vṛttiryeṣāṁ tu taiḥ samā ॥ 241 ॥
  272. गङ्गापदं यथा स्वार्थं त्यक्त्वा लक्षयते तटम् । तत्पदं त्वम्पदं वापि त्यक्त्वा स्वार्थं यथाखिलम् ॥ ७४० ॥ gaṅgāpadaṁ yathā svārthaṁ tyaktvā lakṣayate taṭam । tatpadaṁ tvampadaṁ vāpi tyaktvā svārthaṁ yathākhilam ॥ 740 ॥
  273. गतेऽपि तोये सुषिरं कुलीरो हातुं ह्यशक्तो म्रियते विमोहात् । यथा तथा गेहसुखानुषक्तो विनाशमायाति नरो भ्रमेण ॥ ४३ ॥ gate'pi toye suṣiraṁ kulīro hātuṁ hyaśakto mriyate vimohāt । yathā tathā gehasukhānuṣakto vināśamāyāti naro bhrameṇa ॥ 43 ॥
  274. गर्भावासजनिप्रणाशनजराव्याध्यादिषु प्राणिनांयद्दुःखं परिदृश्यते च नरके तच्चिन्तयित्वा मुहुः । दोषानेव विलोक्य सर्वविषयेष्वाशां विमुच्याभित - श्चित्तग्रन्थिविमोचनाय सुमतिः सत्त्वं समालम्बनात् ॥ ३६२ ॥ garbhāvāsajanipraṇāśanajarāvyādhyādiṣu prāṇināṁyadduḥkhaṁ paridṛśyate ca narake taccintayitvā muhuḥ । doṣāneva vilokya sarvaviṣayeṣvāśāṁ vimucyābhita - ścittagranthivimocanāya sumatiḥ sattvaṁ samālambanāt ॥ 362 ॥
  275. गुणरूपादिसादृश्यं दीपवन्न सुते पितुः । अव्यङ्गाज्जायते व्यङ्गः सुगुणादपि दुर्गुणः ॥ ५३० ॥ guṇarūpādisādṛśyaṁ dīpavanna sute pituḥ । avyaṅgājjāyate vyaṅgaḥ suguṇādapi durguṇaḥ ॥ 530 ॥
  276. गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः । पावयन्वसुधां सर्वां विचचार निरुत्तरः ॥ १००४ ॥ gurureṣa sadānandasindhau nirmagnamānasaḥ । pāvayanvasudhāṁ sarvāṁ vicacāra niruttaraḥ ॥ 1004 ॥
  277. गुरुवेदान्तवाक्येषु बुद्धिर्या निश्चयात्मिका । सत्यमित्येव सा श्रद्धा निदानं मुक्तिसिद्धये ॥ २१० ॥ guruvedāntavākyeṣu buddhiryā niścayātmikā । satyamityeva sā śraddhā nidānaṁ muktisiddhaye ॥ 210 ॥
  278. गृहस्पृहा पादनिबद्धशृङ्खला कान्तासुताशा पटुकण्ठपाशः । शीर्षे पतद्भूर्यशनिर्हि साक्षा - त्प्राणान्तहेतुः प्रबला धनाशा ॥ ४७ ॥ gṛhaspṛhā pādanibaddhaśṛṅkhalā kāntāsutāśā paṭukaṇṭhapāśaḥ । śīrṣe patadbhūryaśanirhi sākṣā - tprāṇāntahetuḥ prabalā dhanāśā ॥ 47 ॥
  279. गेहादिसर्वमपहाय लघुत्वबुद्ध्यासौख्येच्छया स्वपतिनानलमाविविक्षोः । कान्ताजनस्य नियता सुदृढा त्वरा यासैषा फलान्तगमने करणं मुमुक्षोः ॥ २४७ ॥ gehādisarvamapahāya laghutvabuddhyāsaukhyecchayā svapatinānalamāvivikṣoḥ । kāntājanasya niyatā sudṛḍhā tvarā yāsaiṣā phalāntagamane karaṇaṁ mumukṣoḥ ॥ 247 ॥
  280. घटं विस्फुरयत्येष चिदाभासः स्वतेजसा । न तथा स्वप्रभे ब्रह्मण्याभास उपयुज्यते ॥ ८०६ ॥ ghaṭaṁ visphurayatyeṣa cidābhāsaḥ svatejasā । na tathā svaprabhe brahmaṇyābhāsa upayujyate ॥ 806 ॥
  281. घटाभावे घटाकाशो महाकाशो यथा तथा । उपाध्यभावे त्वात्मैष स्वयं ब्रह्मैव केवलम् ॥ ६९४ ॥ ghaṭābhāve ghaṭākāśo mahākāśo yathā tathā । upādhyabhāve tvātmaiṣa svayaṁ brahmaiva kevalam ॥ 694 ॥
  282. घटोऽयमित्यत्र घटाभिधानःप्रत्यक्षतः कश्चिदुदेति दृष्टेः । विचार्यमाणे स तु नास्ति तत्रमृदस्ति तद्भावविलक्षणा सा ॥ २८७ ॥ ghaṭo'yamityatra ghaṭābhidhānaḥpratyakṣataḥ kaścidudeti dṛṣṭeḥ । vicāryamāṇe sa tu nāsti tatramṛdasti tadbhāvavilakṣaṇā sā ॥ 287 ॥
  283. चतुर्धा सुविभज्याथ तमेकैकं विनिक्षिपेत् । चतुर्णां प्रथमे भागे क्रमेण स्वार्धमन्तरा ॥ ३९९ ॥ caturdhā suvibhajyātha tamekaikaṁ vinikṣipet । caturṇāṁ prathame bhāge krameṇa svārdhamantarā ॥ 399 ॥
  284. चतुर्भिः साधनैः सम्यक्सम्पन्नो युक्तिदक्षिणः । मेधावी पुरुषो विद्वानधिकार्यत्र सम्मतः ॥ ७ ॥ caturbhiḥ sādhanaiḥ samyaksampanno yuktidakṣiṇaḥ । medhāvī puruṣo vidvānadhikāryatra sammataḥ ॥ 7 ॥
  285. चतुर्विधं भूतजातं तत्तज्जातिविशेषतः । नैकधीविषयत्वेन पूर्ववद्व्यष्टिरिष्यते ॥ ४४० ॥ caturvidhaṁ bhūtajātaṁ tattajjātiviśeṣataḥ । naikadhīviṣayatvena pūrvavadvyaṣṭiriṣyate ॥ 440 ॥
  286. चतुर्विधं स्थूलशरीरजातंतद्भोज्यमन्नादि तदाश्रयादि । ब्रह्माण्डमेतत्सकलं स्थविष्ठ - मीक्षेत पञ्चीकृतभूतमात्रम् ॥ ६८२ ॥ caturvidhaṁ sthūlaśarīrajātaṁtadbhojyamannādi tadāśrayādi । brahmāṇḍametatsakalaṁ sthaviṣṭha - mīkṣeta pañcīkṛtabhūtamātram ॥ 682 ॥
  287. चत्वारि साधनान्यत्र वदन्ति परमर्षयः । मुक्तिर्येषां तु सद्भावे नाभावे सिध्यति ध्रुवम् ॥ १३ ॥ catvāri sādhanānyatra vadanti paramarṣayaḥ । muktiryeṣāṁ tu sadbhāve nābhāve sidhyati dhruvam ॥ 13 ॥
  288. चित्तं च दृष्टिं करणं तथान्य - देकत्र बघ्नाति हि लक्ष्यभेत्ता । किञ्चित्प्रमादे सति लक्ष्यभेत्तु - र्बाणप्रयोगो विफलो यथा तथा ॥ २२० ॥ cittaṁ ca dṛṣṭiṁ karaṇaṁ tathānya - dekatra baghnāti hi lakṣyabhettā । kiñcitpramāde sati lakṣyabhettu - rbāṇaprayogo viphalo yathā tathā ॥ 220 ॥
  289. चित्तप्रसादेन विनावगन्तुंबन्धं न शक्नोति परात्मतत्त्वम् । तत्त्वावगत्या तु विना विमुक्ति - र्न सिध्यति ब्रह्मसहस्रकोटिषु ॥ ३७३ ॥ cittaprasādena vināvagantuṁbandhaṁ na śaknoti parātmatattvam । tattvāvagatyā tu vinā vimukti - rna sidhyati brahmasahasrakoṭiṣu ॥ 373 ॥
  290. चित्तवृत्तेरतीतो यश्चित्तवृत्त्यावभासकः । चित्तवृत्तिविहीनो यो विदेहो मुक्त एव सः ॥ ९८५ ॥ cittavṛtteratīto yaścittavṛttyāvabhāsakaḥ । cittavṛttivihīno yo videho mukta eva saḥ ॥ 985 ॥
  291. चित्तस्य साध्यैकपरत्वमेवपुमर्थसिद्धेर्नियमेन कारणम् । नैवान्यथा सिध्यति साध्यमीष - न्मनःप्रमादे विफलः प्रयत्नः ॥ २१९ ॥ cittasya sādhyaikaparatvamevapumarthasiddherniyamena kāraṇam । naivānyathā sidhyati sādhyamīṣa - nmanaḥpramāde viphalaḥ prayatnaḥ ॥ 219 ॥
  292. चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः । आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ९७५ ॥ cidātmāhaṁ parātmāhaṁ nirguṇo'haṁ parātparaḥ । ātmamātreṇa yastiṣṭhetsa jīvanmukta ucyate ॥ 975 ॥
  293. चिन्तनं च मनोधर्मः सङ्कल्पादिर्यथा तथा । अन्तर्भावो मनस्येव सम्यक्चित्तस्य सिध्यति ॥ ३४७ ॥ cintanaṁ ca manodharmaḥ saṅkalpādiryathā tathā । antarbhāvo manasyeva samyakcittasya sidhyati ॥ 347 ॥
  294. चिन्ताविषादहर्षाद्याः कामाद्या अस्य वृत्तयः । मनुते मनसैवैष फलं कामयते बहिः । यतते कुरुते भुङ्क्ते तन्मनः सर्वकारणम् ॥ ३५६ ॥ cintāviṣādaharṣādyāḥ kāmādyā asya vṛttayaḥ । manute manasaivaiṣa phalaṁ kāmayate bahiḥ । yatate kurute bhuṅkte tanmanaḥ sarvakāraṇam ॥ 356 ॥
  295. चिन्मयाकारमतयो धीवृत्तिप्रसरैर्गतः । आनन्दानुभवो विद्वन् सुप्तिजाग्रदितीर्यते ॥ ९५५ ॥ cinmayākāramatayo dhīvṛttiprasarairgataḥ । ānandānubhavo vidvan suptijāgraditīryate ॥ 955 ॥
  296. चैतन्यं तदवच्छिन्नं सत्यज्ञानादिलक्षणम् । सर्वज्ञत्वेश्वरत्वान्तर्यामित्वादिगुणैर्युतम् ॥ ७११ ॥ caitanyaṁ tadavacchinnaṁ satyajñānādilakṣaṇam । sarvajñatveśvaratvāntaryāmitvādiguṇairyutam ॥ 711 ॥
  297. चैतन्यं तैजस इति निगदन्ति मनीषिणः । तेजोमयान्तःकरणोपाधित्वेनैष तैजसः ॥ ३९१ ॥ caitanyaṁ taijasa iti nigadanti manīṣiṇaḥ । tejomayāntaḥkaraṇopādhitvenaiṣa taijasaḥ ॥ 391 ॥
  298. चैतन्यं व्यष्ट्यवच्छिन्नं प्रत्यगात्मेति गीयते । साभासं व्यष्ट्युपहितं सत्तादात्म्येन तद्गुणैः ॥ ३१९ ॥ caitanyaṁ vyaṣṭyavacchinnaṁ pratyagātmeti gīyate । sābhāsaṁ vyaṣṭyupahitaṁ sattādātmyena tadguṇaiḥ ॥ 319 ॥
  299. छायया स्पृष्टमुष्णं वा शीतं वा दुष्ठु सुष्ठु वा । न स्पृशत्येव यत्किञ्चित्पुरुषं तद्विलक्षणम् ॥ ९३३ ॥ chāyayā spṛṣṭamuṣṇaṁ vā śītaṁ vā duṣṭhu suṣṭhu vā । na spṛśatyeva yatkiñcitpuruṣaṁ tadvilakṣaṇam ॥ 933 ॥
  300. जगत्स्रष्टृत्वपातृत्वसंहर्तृत्वादिधर्मकम् । सर्वात्मना भासमानं यदमेयं गुणैश्च तत् ॥ ७१२ ॥ jagatsraṣṭṛtvapātṛtvasaṁhartṛtvādidharmakam । sarvātmanā bhāsamānaṁ yadameyaṁ guṇaiśca tat ॥ 712 ॥
  301. जगद्धेतोस्तु नित्यत्वं सर्वेषामपि सम्मतम् । जगद्धेतुत्वमस्यैव वावदीति श्रुतिर्मुहुः ॥ १६६ ॥ jagaddhetostu nityatvaṁ sarveṣāmapi sammatam । jagaddhetutvamasyaiva vāvadīti śrutirmuhuḥ ॥ 166 ॥
  302. जडप्रकाशकः सूर्यः प्रकाशात्मैव नो जडः । बुद्ध्यादिभासकस्तस्माच्चित्स्वरूपस्तथा मतः ॥ ६१८ ॥ jaḍaprakāśakaḥ sūryaḥ prakāśātmaiva no jaḍaḥ । buddhyādibhāsakastasmāccitsvarūpastathā mataḥ ॥ 618 ॥
  303. जडस्वभावश्चपलः कर्मयुक्तश्च सर्वदा । प्राणस्य भानं मनसि स्थिते सुप्ते न दृश्यते ॥ ५४९ ॥ jaḍasvabhāvaścapalaḥ karmayuktaśca sarvadā । prāṇasya bhānaṁ manasi sthite supte na dṛśyate ॥ 549 ॥
  304. जन्मानेकशतैः सदादरयुजा भक्त्या समाराधितोभक्तैर्वैदिकलक्षणेन विधिना सन्तुष्ट ईशः स्वयम् । साक्षाच्छ्रीगुरुरूपमेत्य कृपया दृग्गोचरः सन्प्रभुःतत्त्वं साधु विबोध्य तारयति तान्संसारदुःखार्णवात् ॥ २५४ ॥ janmānekaśataiḥ sadādarayujā bhaktyā samārādhitobhaktairvaidikalakṣaṇena vidhinā santuṣṭa īśaḥ svayam । sākṣācchrīgururūpametya kṛpayā dṛggocaraḥ sanprabhuḥtattvaṁ sādhu vibodhya tārayati tānsaṁsāraduḥkhārṇavāt ॥ 254 ॥
  305. जन्मानेकसहस्रेषु तपसाराधितेश्वरः । तेन निःशेषनिर्धूतहृदयस्थितकल्मषः ॥ २३३ ॥ janmānekasahasreṣu tapasārādhiteśvaraḥ । tena niḥśeṣanirdhūtahṛdayasthitakalmaṣaḥ ॥ 233 ॥
  306. जन्मान्तरकृतानन्तपुण्यकर्मफलोदयः । अद्य संनिहितो यस्मात्त्वत्कृपापात्रमस्म्यहम् ॥ २६० ॥ janmāntarakṛtānantapuṇyakarmaphalodayaḥ । adya saṁnihito yasmāttvatkṛpāpātramasmyaham ॥ 260 ॥
  307. जन्मान्तरे मध्यमस्तु तदन्यस्तु युगान्तरे । चतुर्थः कल्पकोट्यां वा नैव बन्धाद्विमुच्यते ॥ २३७ ॥ janmāntare madhyamastu tadanyastu yugāntare । caturthaḥ kalpakoṭyāṁ vā naiva bandhādvimucyate ॥ 237 ॥
  308. जन्मास्तित्वविवृद्धयः परिणतिश्चापक्षतिर्नाशनंदृश्यस्यैव भवन्ति षड्विकृतयो नानाविधा व्याधयः । स्थूलत्वादि च नीलताद्यपि मितिर्वर्णाश्रमादिप्रथादृश्यन्ते वपुषो न चात्मन इमे तद्विक्रियासाक्षिणः ॥ ४६० ॥ janmāstitvavivṛddhayaḥ pariṇatiścāpakṣatirnāśanaṁdṛśyasyaiva bhavanti ṣaḍvikṛtayo nānāvidhā vyādhayaḥ । sthūlatvādi ca nīlatādyapi mitirvarṇāśramādiprathādṛśyante vapuṣo na cātmana ime tadvikriyāsākṣiṇaḥ ॥ 460 ॥
  309. जरायुजाण्डजस्वेदजोद्भिज्जाद्याश्चतुर्विधाः । स्वस्वकर्मानुरूपेण जातास्तिष्ठन्ति जन्तवः ॥ ४३४ ॥ jarāyujāṇḍajasvedajodbhijjādyāścaturvidhāḥ । svasvakarmānurūpeṇa jātāstiṣṭhanti jantavaḥ ॥ 434 ॥
  310. जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ् न भाति किं न्वम्भ एकमेवावभासते ॥ ८२४ ॥ jale nikṣiptalavaṇaṁ jalamātratayā sthitam । pṛthaṅ na bhāti kiṁ nvambha ekamevāvabhāsate ॥ 824 ॥
  311. जिह्वाया वरुणो दैवं घ्राणस्य त्वश्विनावुभौ । वाचोऽग्निर्हस्तयोरिन्द्रः पादयोस्तु त्रिविक्रमः ॥ ४१७ ॥ jihvāyā varuṇo daivaṁ ghrāṇasya tvaśvināvubhau । vāco'gnirhastayorindraḥ pādayostu trivikramaḥ ॥ 417 ॥
  312. जीवन्मुक्तस्य भगवन्ननुभूतेश्च लक्षणम् । विदेहमुक्तस्य च मे कृपया ब्रूहि तत्त्वतः ॥ ९३७ ॥ jīvanmuktasya bhagavannanubhūteśca lakṣaṇam । videhamuktasya ca me kṛpayā brūhi tattvataḥ ॥ 937 ॥
  313. जीवन्मुक्तिपदं त्यक्त्वा स्वदेहे कालसात्कृते । विशत्यदेहमुक्तित्वं पवनोऽस्पन्दतामिव ॥ ९७९ ॥ jīvanmuktipadaṁ tyaktvā svadehe kālasātkṛte । viśatyadehamuktitvaṁ pavano'spandatāmiva ॥ 979 ॥
  314. जीवात्मेति परात्मेति सर्वचिन्ताविवर्जितः । सर्वसङ्कल्पहीनात्मा विदेहो मुक्त एव सः ॥ ९८६ ॥ jīvātmeti parātmeti sarvacintāvivarjitaḥ । sarvasaṅkalpahīnātmā videho mukta eva saḥ ॥ 986 ॥
  315. जीवेश्वरेति वाक्ये च वेदशास्त्रेष्वहं त्विति । इदं चैतन्यमेवेत्यहं चैतन्यमित्यपि ॥ ९९४ ॥ jīveśvareti vākye ca vedaśāstreṣvahaṁ tviti । idaṁ caitanyamevetyahaṁ caitanyamityapi ॥ 994 ॥
  316. ज्ञातज्ञेयः सम्प्रणम्य सद्गुरोश्चरणाम्बुजम् । स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ १००३ ॥ jñātajñeyaḥ sampraṇamya sadguroścaraṇāmbujam । sa tena samanujñāto yayau nirmuktabandhanaḥ ॥ 1003 ॥
  317. ज्ञातृज्ञानज्ञेयविहीनं ज्ञातुरभिन्नं ज्ञानमखण्डम् । ज्ञेयाज्ञेयत्वादिविमुक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८५ ॥ jñātṛjñānajñeyavihīnaṁ jñāturabhinnaṁ jñānamakhaṇḍam । jñeyājñeyatvādivimuktaṁ śuddhaṁ buddhaṁ tattvamasi tvam ॥ 785 ॥
  318. ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः । वृत्तेः सद्भावबाधाभ्यामुभयोर्भेद इष्यते ॥ ८२६ ॥ jñātrādikalpanābhāvānmato'yaṁ nirvikalpakaḥ । vṛtteḥ sadbhāvabādhābhyāmubhayorbheda iṣyate ॥ 826 ॥
  319. ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पः स्यात्समाधिर्योगसंज्ञितः ॥ ८२३ ॥ jñātrādibhāvamutsṛjya jñeyamātrasthitirdṛḍhā । manaso nirvikalpaḥ syātsamādhiryogasaṁjñitaḥ ॥ 823 ॥
  320. ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ ८२० ॥ jñātrādyavilayenaiva jñeye brahmaṇi kevale । tadākārākāritayā cittavṛtteravasthitiḥ ॥ 820 ॥
  321. ज्ञात्वा देवं सर्वपाशापहानिःक्षीणैः क्लेशैर्जन्ममृत्युप्रहानिः । इत्येवैषा वैदिकी वाग्ब्रवीतिक्लेशक्षत्यां जन्ममृत्युप्रहाणिम् ॥ ८४७ ॥ jñātvā devaṁ sarvapāśāpahāniḥkṣīṇaiḥ kleśairjanmamṛtyuprahāniḥ । ityevaiṣā vaidikī vāgbravītikleśakṣatyāṁ janmamṛtyuprahāṇim ॥ 847 ॥
  322. ज्ञाननिष्ठातत्परस्य नैव कर्मोपयुज्यते । कर्मणो ज्ञाननिष्ठाया न सिध्यति सहस्थितिः ॥ ८५२ ॥ jñānaniṣṭhātatparasya naiva karmopayujyate । karmaṇo jñānaniṣṭhāyā na sidhyati sahasthitiḥ ॥ 852 ॥
  323. ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता । विचारणा द्वितीया तु तृतीया तनुमानसी ॥ ९३९ ॥ jñānabhūmiḥ śubhecchā syātprathamā samudīritā । vicāraṇā dvitīyā tu tṛtīyā tanumānasī ॥ 939 ॥
  324. ज्ञानशास्त्रैकपरता समता सुखदुःखयोः । मानानासक्तिरेकान्तशीलता च मुमुक्षुता ॥ १०७ ॥ jñānaśāstraikaparatā samatā sukhaduḥkhayoḥ । mānānāsaktirekāntaśīlatā ca mumukṣutā ॥ 107 ॥
  325. ज्ञानस्य वस्तुतन्त्रत्वे संशयाद्युदयः कथम् । अतो न वास्तवं ज्ञानमिति नो शङ्क्यतां बुधैः ॥ १९१ ॥ jñānasya vastutantratve saṁśayādyudayaḥ katham । ato na vāstavaṁ jñānamiti no śaṅkyatāṁ budhaiḥ ॥ 191 ॥
  326. ज्ञानस्याप्रतिबद्धत्वं सदानन्दश्च सिध्यति । दृश्यानुविद्धः शब्दानुविद्धश्चेति द्विधा मतः ॥ ८२९ ॥ jñānasyāpratibaddhatvaṁ sadānandaśca sidhyati । dṛśyānuviddhaḥ śabdānuviddhaśceti dvidhā mataḥ ॥ 829 ॥
  327. ज्ञानाज्ञानमयस्त्वात्मा कथं भवितुमर्हति । परस्परविरुद्धत्वात्तेजस्तिमिरवत्तयोः ॥ ५६९ ॥ jñānājñānamayastvātmā kathaṁ bhavitumarhati । parasparaviruddhatvāttejastimiravattayoḥ ॥ 569 ॥
  328. ज्ञानादेव तु कैवल्यमिति श्रुत्या निगद्यते । ज्ञानस्य मुक्तिहेतुत्वमन्यव्यावृत्तिपूर्वकम् ॥ १७० ॥ jñānādeva tu kaivalyamiti śrutyā nigadyate । jñānasya muktihetutvamanyavyāvṛttipūrvakam ॥ 170 ॥
  329. ज्ञानेन कर्मणो योगः कथं सिध्यति वैरिणा । सहयोगो न घटते यथा तिमिरतेजसोः ॥ ८५५ ॥ jñānena karmaṇo yogaḥ kathaṁ sidhyati vairiṇā । sahayogo na ghaṭate yathā timiratejasoḥ ॥ 855 ॥
  330. ज्ञानेन्द्रियाणि निजदैवतचोदितानिकर्मेन्द्रियाण्यपि तथा मनआदिकानि । स्वस्वप्रयोजनविधौ नियतानि सन्तियत्नेन किङ्करजना इव तं भजन्ते ॥ ४४९ ॥ jñānendriyāṇi nijadaivatacoditānikarmendriyāṇyapi tathā manaādikāni । svasvaprayojanavidhau niyatāni santiyatnena kiṅkarajanā iva taṁ bhajante ॥ 449 ॥
  331. ज्ञानैकनिष्ठानिरतस्य भिक्षो - र्नैवावकाशोऽस्ति हि कर्मतन्त्रे । तदेव कर्मास्य तदेव सन्ध्यातदेव सर्वं न ततोऽन्यदस्ति ॥ ८५७ ॥ jñānaikaniṣṭhāniratasya bhikṣo - rnaivāvakāśo'sti hi karmatantre । tadeva karmāsya tadeva sandhyātadeva sarvaṁ na tato'nyadasti ॥ 857 ॥
  332. तं विक्रीणाति देहार्थं प्रतिकूलं निहन्ति च । तस्मादात्मा तु तनयो न भवेच्च कदाचन ॥ ५२९ ॥ taṁ vikrīṇāti dehārthaṁ pratikūlaṁ nihanti ca । tasmādātmā tu tanayo na bhavecca kadācana ॥ 529 ॥
  333. तच्चापि पञ्चीकृतभूतजातंशब्दादिभिः स्वस्वगुणैश्च सार्धम् । वपूंषि सूक्ष्माणि च सर्वमेत - द्भवत्यपञ्चीकृतभूतमात्रम् ॥ ६८७ ॥ taccāpi pañcīkṛtabhūtajātaṁśabdādibhiḥ svasvaguṇaiśca sārdham । vapūṁṣi sūkṣmāṇi ca sarvameta - dbhavatyapañcīkṛtabhūtamātram ॥ 687 ॥
  334. ततः प्रामाणिकं पञ्चीकरणं मन्यतां बुधैः । प्रत्यक्षादिविरोधः स्यादन्यथा क्रियते यदि ॥ ४०३ ॥ tataḥ prāmāṇikaṁ pañcīkaraṇaṁ manyatāṁ budhaiḥ । pratyakṣādivirodhaḥ syādanyathā kriyate yadi ॥ 403 ॥
  335. ततस्तत्सम्बभूवासौ यद्गिरामप्यगोचरम् । यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् ॥ ९८० ॥ tatastatsambabhūvāsau yadgirāmapyagocaram । yacchūnyavādināṁ śūnyaṁ brahma brahmavidāṁ ca yat ॥ 980 ॥
  336. ततो मुमुक्षुर्भवबन्धमुक्त्यैरजस्तमोभ्यां च तदीयकार्यैः । वियोज्य चित्तं परिशुद्धसत्त्वंप्रियं प्रयत्नेन सदैव कुर्यात् ॥ ३६१ ॥ tato mumukṣurbhavabandhamuktyairajastamobhyāṁ ca tadīyakāryaiḥ । viyojya cittaṁ pariśuddhasattvaṁpriyaṁ prayatnena sadaiva kuryāt ॥ 361 ॥
  337. ततो व्योमादिभूतानां भागाः पञ्च भवन्ति ते । स्वस्वार्धभागेनान्येभ्यः प्राप्तं भागचतुष्टयम् ॥ ४०० ॥ tato vyomādibhūtānāṁ bhāgāḥ pañca bhavanti te । svasvārdhabhāgenānyebhyaḥ prāptaṁ bhāgacatuṣṭayam ॥ 400 ॥
  338. ततोऽज्ञानस्य विच्छित्तिः कर्मणा नैव सिध्यति । यस्य प्रध्वस्तजनको यत्संयोगोऽस्ति तत्क्षणे ॥ ५१५ ॥ tato'jñānasya vicchittiḥ karmaṇā naiva sidhyati । yasya pradhvastajanako yatsaṁyogo'sti tatkṣaṇe ॥ 515 ॥
  339. तत्कारणं यदज्ञानं सकार्यं सद्विलक्षणम् । अवस्त्वित्युच्यते सद्भिर्यस्य बाधा प्रदृश्यते ॥ २९९ ॥ tatkāraṇaṁ yadajñānaṁ sakāryaṁ sadvilakṣaṇam । avastvityucyate sadbhiryasya bādhā pradṛśyate ॥ 299 ॥
  340. तत्कार्यं सकलं तेन समं भवति बाधितम् । तन्तुदाहे तु तत्कार्यपटदाहो यथा तथा ॥ ८०० ॥ tatkāryaṁ sakalaṁ tena samaṁ bhavati bādhitam । tantudāhe tu tatkāryapaṭadāho yathā tathā ॥ 800 ॥
  341. तत्तत्कालसमागतामयततेः शान्त्यै प्रवृत्तो यदिस्यात्तत्तत्परिहारकौषधरतस्तच्चिन्तने तत्परः । तद्भिक्षुः श्रवणादिधर्मरहितो भूत्वा मृतश्चेत्ततःकिं सिद्धं फलमाप्नुयादुभयथा भ्रष्टो भवेत्स्वार्थतः ॥ १४५ ॥ tattatkālasamāgatāmayatateḥ śāntyai pravṛtto yadisyāttattatparihārakauṣadharatastaccintane tatparaḥ । tadbhikṣuḥ śravaṇādidharmarahito bhūtvā mṛtaścettataḥkiṁ siddhaṁ phalamāpnuyādubhayathā bhraṣṭo bhavetsvārthataḥ ॥ 145 ॥
  342. तत्तद्वृत्तिनिरोधेन बाह्येन्द्रियविनिग्रहः । योगिनो दम इत्याहुर्मनसः शान्तिसाधनम् ॥ १२९ ॥ tattadvṛttinirodhena bāhyendriyavinigrahaḥ । yogino dama ityāhurmanasaḥ śāntisādhanam ॥ 129 ॥
  343. तत्त्वमात्मस्थमज्ञात्वा मूढः शास्त्रेषु पश्यति । गोपः कक्षगतं छागं यथा कूपेषु दुर्मतिः ॥ २९१ ॥ tattvamātmasthamajñātvā mūḍhaḥ śāstreṣu paśyati । gopaḥ kakṣagataṁ chāgaṁ yathā kūpeṣu durmatiḥ ॥ 291 ॥
  344. तत्पदं त्वम्पदं चापि स्वकीयार्थविरोधिनम् । अंशं सम्यक्परित्यज्य स्वाविरुद्धांशसंयुतम् ॥ ७४८ ॥ tatpadaṁ tvampadaṁ cāpi svakīyārthavirodhinam । aṁśaṁ samyakparityajya svāviruddhāṁśasaṁyutam ॥ 748 ॥
  345. तत्पदार्थस्त्वमर्थस्तु किञ्चिज्ज्ञो दुःखजीवनः । संसार्ययं तद्गतिको जीवः प्राकृतलक्षणः ॥ ७२२ ॥ tatpadārthastvamarthastu kiñcijjño duḥkhajīvanaḥ । saṁsāryayaṁ tadgatiko jīvaḥ prākṛtalakṣaṇaḥ ॥ 722 ॥
  346. तत्प्रकारं प्रवक्ष्यामि निशामय समासतः । अधिष्ठानं परं ब्रह्म सच्चिदानन्दलक्षणम् ॥ ८७९ ॥ tatprakāraṁ pravakṣyāmi niśāmaya samāsataḥ । adhiṣṭhānaṁ paraṁ brahma saccidānandalakṣaṇam ॥ 879 ॥
  347. तत्राध्यस्तमिदं भाति नामरूपात्मकं जगत् । सत्त्वं चित्त्वं तथानन्दरूपं यद्ब्रह्मणस्त्रयम् ॥ ८८० ॥ tatrādhyastamidaṁ bhāti nāmarūpātmakaṁ jagat । sattvaṁ cittvaṁ tathānandarūpaṁ yadbrahmaṇastrayam ॥ 880 ॥
  348. तत्सर्वं खल्विदं ब्रह्मेत्यस्य वाक्यस्य पण्डितैः । वाच्यार्थ इति निर्णीतं विविक्तं लक्ष्य इत्यपि ॥ ४५५ ॥ tatsarvaṁ khalvidaṁ brahmetyasya vākyasya paṇḍitaiḥ । vācyārtha iti nirṇītaṁ viviktaṁ lakṣya ityapi ॥ 455 ॥
  349. तथा तत्त्वमसीत्यत्र चैतन्यैकत्वलक्षणे । विवक्षिते तु वाक्यार्थेऽपरोक्षत्वादिलक्षणः ॥ ७३७ ॥ tathā tattvamasītyatra caitanyaikatvalakṣaṇe । vivakṣite tu vākyārthe'parokṣatvādilakṣaṇaḥ ॥ 737 ॥
  350. तथा तत्त्वमसीत्यत्र नास्ति वाक्यार्थसङ्गतिः । पटाद्व्यावर्तते नील उत्पलेन विशेषितः ॥ ७१४ ॥ tathā tattvamasītyatra nāsti vākyārthasaṅgatiḥ । paṭādvyāvartate nīla utpalena viśeṣitaḥ ॥ 714 ॥
  351. तथा श्रवणजो बोधः पुंसो विहितकर्मणा । अतः सापेक्षितं ज्ञानमथवापि समुच्चयम् ॥ १७५ ॥ tathā śravaṇajo bodhaḥ puṁso vihitakarmaṇā । ataḥ sāpekṣitaṁ jñānamathavāpi samuccayam ॥ 175 ॥
  352. तथापि किञ्चिद्वक्ष्यामि सादृश्यं शृणु तत्परः । अत्यन्तनिर्मलः सूक्ष्म आत्मायमतिभास्वरः ॥ ४८१ ॥ tathāpi kiñcidvakṣyāmi sādṛśyaṁ śṛṇu tatparaḥ । atyantanirmalaḥ sūkṣma ātmāyamatibhāsvaraḥ ॥ 481 ॥
  353. तथैव दुःखं जन्तूनां ब्रह्मादिपदभागिनाम् । न काङ्क्षणीयं विदुषा तस्माद्वैषयिकं सुखम् ॥ ६५४ ॥ tathaiva duḥkhaṁ jantūnāṁ brahmādipadabhāginām । na kāṅkṣaṇīyaṁ viduṣā tasmādvaiṣayikaṁ sukham ॥ 654 ॥
  354. तथैव परमं ब्रह्म महतां च महत्तमम् । परिच्छिन्नमिवाभाति भ्रान्त्या कल्पितवस्तुना ॥ ६९७ ॥ tathaiva paramaṁ brahma mahatāṁ ca mahattamam । paricchinnamivābhāti bhrāntyā kalpitavastunā ॥ 697 ॥
  355. तथैव प्रत्यगात्मापि रविवन्निष्क्रियात्मना । उदासीनतयैवास्ते देहादीनां प्रवृत्तिषु ॥ ४२७ ॥ tathaiva pratyagātmāpi ravivanniṣkriyātmanā । udāsīnatayaivāste dehādīnāṁ pravṛttiṣu ॥ 427 ॥
  356. तथैवान्योन्यभेदस्य व्यावर्तकतया तयोः । विशेषणविशेष्यस्य संसर्गस्येतरस्य वा ॥ ७१९ ॥ tathaivānyonyabhedasya vyāvartakatayā tayoḥ । viśeṣaṇaviśeṣyasya saṁsargasyetarasya vā ॥ 719 ॥
  357. तथैवैतज्जगत्सर्वमनित्यं ब्रह्मकार्यतः । तत्कारणं परं ब्रह्म भवेन्नित्यं मृदादिवत् ॥ १८ ॥ tathaivaitajjagatsarvamanityaṁ brahmakāryataḥ । tatkāraṇaṁ paraṁ brahma bhavennityaṁ mṛdādivat ॥ 18 ॥
  358. तदन्तःकरणं वृत्तिभेदेन स्याच्चतुर्विधम् । मनो बुद्धिरहङ्कारश्चित्तं चेति तदुच्यते ॥ ३४४ ॥ tadantaḥkaraṇaṁ vṛttibhedena syāccaturvidham । mano buddhirahaṅkāraścittaṁ ceti taducyate ॥ 344 ॥
  359. तदप्यपञ्चीकृतभूतजातंरजस्तमःसत्त्वगुणैश्च सार्धम् । अव्यक्तमात्रं भवति स्वरूपतःसाभासमव्यक्तमिदं स्वयं च ॥ ६८८ ॥ tadapyapañcīkṛtabhūtajātaṁrajastamaḥsattvaguṇaiśca sārdham । avyaktamātraṁ bhavati svarūpataḥsābhāsamavyaktamidaṁ svayaṁ ca ॥ 688 ॥
  360. तदर्थं वा त्वमर्थं वा यदि लक्षयति स्वयम् । तदा जहल्लक्षणायाः प्रवृत्तिरुपपद्यते ॥ ७४१ ॥ tadarthaṁ vā tvamarthaṁ vā yadi lakṣayati svayam । tadā jahallakṣaṇāyāḥ pravṛttirupapadyate ॥ 741 ॥
  361. तदर्थं वा त्वमर्थं वा सम्यग्लक्षयतः स्वयम् । भागलक्षणया साध्यं किमस्तीति न शङ्क्यताम् ॥ ७४९ ॥ tadarthaṁ vā tvamarthaṁ vā samyaglakṣayataḥ svayam । bhāgalakṣaṇayā sādhyaṁ kimastīti na śaṅkyatām ॥ 749 ॥
  362. तदर्थस्य परोक्षत्वादिविशिष्टचितेरपि । त्वमर्थस्यापरोक्षत्वादिविशिष्टचितेरपि ॥ ७१८ ॥ tadarthasya parokṣatvādiviśiṣṭaciterapi । tvamarthasyāparokṣatvādiviśiṣṭaciterapi ॥ 718 ॥
  363. तदर्थे च कथं तत्र सम्प्रवर्तेत लक्षणा । अत्र शोणो धावतीति वाक्यवन्न प्रवर्तते ॥ ७४३ ॥ tadarthe ca kathaṁ tatra sampravarteta lakṣaṇā । atra śoṇo dhāvatīti vākyavanna pravartate ॥ 743 ॥
  364. तदेकवृत्त्या तत्स्थैर्यं नैश्चल्यं न तु वर्ष्मणः । विद्यैश्वर्यतपोरूपकुलवर्णाश्रमादिभिः ॥ १२० ॥ tadekavṛttyā tatsthairyaṁ naiścalyaṁ na tu varṣmaṇaḥ । vidyaiśvaryataporūpakulavarṇāśramādibhiḥ ॥ 120 ॥
  365. तद्वत्त्वयाप्यात्मन उक्तमेत - ज्जन्माप्ययव्याधिजरादिदुःखम् । मृषैव सर्वं भ्रमकल्पितं तेसम्यग्विचार्यात्मनि मुञ्च भीतिम् ॥ २६९ ॥ tadvattvayāpyātmana uktameta - jjanmāpyayavyādhijarādiduḥkham । mṛṣaiva sarvaṁ bhramakalpitaṁ tesamyagvicāryātmani muñca bhītim ॥ 269 ॥
  366. तद्वदेव चिदाभासचैतन्यं वृत्तिसंस्थितम् । स्वप्रकाशं परं ब्रह्म प्रकाशयितुमक्षमम् ॥ ८०२ ॥ tadvadeva cidābhāsacaitanyaṁ vṛttisaṁsthitam । svaprakāśaṁ paraṁ brahma prakāśayitumakṣamam ॥ 802 ॥
  367. तद्वद्विषयसांनिध्यादानन्दो यः प्रतीयते । बिम्बानन्दांशविस्फूर्तिरेवासौ न जडात्मनाम् ॥ ६७० ॥ tadvadviṣayasāṁnidhyādānando yaḥ pratīyate । bimbānandāṁśavisphūrtirevāsau na jaḍātmanām ॥ 670 ॥
  368. तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखात्मकम् । शान्तं च तदतीतं च परं ब्रह्म तदुच्यते ॥ ९९६ ॥ tadvidyāviṣayaṁ brahma satyajñānasukhātmakam । śāntaṁ ca tadatītaṁ ca paraṁ brahma taducyate ॥ 996 ॥
  369. तन्मतं दूषयत्यन्योऽसहमानः पृथग्जनः । देह आत्मा कथं नु स्यात्परतन्त्रो ह्यचेतनः ॥ ५३६ ॥ tanmataṁ dūṣayatyanyo'sahamānaḥ pṛthagjanaḥ । deha ātmā kathaṁ nu syātparatantro hyacetanaḥ ॥ 536 ॥
  370. तमःप्रधानप्रकृतिविशिष्टात्परमात्मनः । अभूत्सकाशादाकाशमाकाशाद्वायुरुच्यते ॥ ३३५ ॥ tamaḥpradhānaprakṛtiviśiṣṭātparamātmanaḥ । abhūtsakāśādākāśamākāśādvāyurucyate ॥ 335 ॥
  371. तमेव सा धीकर्मेति श्रुतिर्वक्ति महेशितुः । निग्रहानुग्रहे शक्तिरावृतिक्षेपयोर्यतः ॥ ५०६ ॥ tameva sā dhīkarmeti śrutirvakti maheśituḥ । nigrahānugrahe śaktirāvṛtikṣepayoryataḥ ॥ 506 ॥
  372. तयोरुपाधिश्च विशिष्टता चतद्धर्मभाक्त्वं च विलक्षणत्वम् । भ्रान्त्या कृतं सर्वमिदं मृषैवस्वप्नार्थवज्जाग्रति नैव सत्यम् ॥ ७६३ ॥ tayorupādhiśca viśiṣṭatā cataddharmabhāktvaṁ ca vilakṣaṇatvam । bhrāntyā kṛtaṁ sarvamidaṁ mṛṣaivasvapnārthavajjāgrati naiva satyam ॥ 763 ॥
  373. तयोरेव विरोधित्वं युक्तं भिन्नस्वभावयोः । तमःप्रकाशयोर्यद्वत्परस्परविरोधिता ॥ ५१६ ॥ tayoreva virodhitvaṁ yuktaṁ bhinnasvabhāvayoḥ । tamaḥprakāśayoryadvatparasparavirodhitā ॥ 516 ॥
  374. तस्माच्छ्रद्धा सुसम्पाद्या गुरुवेदान्तवाक्ययोः । मुमुक्षोः श्रद्दधानस्य फलं सिध्यति नान्यथा ॥ २१५ ॥ tasmācchraddhā susampādyā guruvedāntavākyayoḥ । mumukṣoḥ śraddadhānasya phalaṁ sidhyati nānyathā ॥ 215 ॥
  375. तस्मात्क्रियान्तरं त्यक्त्वा ज्ञाननिष्ठापरो यतिः । सदात्मनिष्ठया तिष्ठेन्निश्चलस्तत्परायणः ॥ ८६२ ॥ tasmātkriyāntaraṁ tyaktvā jñānaniṣṭhāparo yatiḥ । sadātmaniṣṭhayā tiṣṭhenniścalastatparāyaṇaḥ ॥ 862 ॥
  376. तस्मात्तत्त्वमसीत्यत्र लक्षणा भागलक्षणा । वाक्यार्थसत्त्वाखण्डैकरसतासिद्धये मता ॥ ७५२ ॥ tasmāttattvamasītyatra lakṣaṇā bhāgalakṣaṇā । vākyārthasattvākhaṇḍaikarasatāsiddhaye matā ॥ 752 ॥
  377. तस्मात्तितिक्षया सोढ्वा तत्तद्दुःखमुपागतम् । कुर्याच्छक्त्यनुरूपेण श्रवणादि शनैः शनैः ॥ १४९ ॥ tasmāttitikṣayā soḍhvā tattadduḥkhamupāgatam । kuryācchaktyanurūpeṇa śravaṇādi śanaiḥ śanaiḥ ॥ 149 ॥
  378. तस्मात्त्वं चाप्यप्रमत्तः समाधी - न्कृत्वा ग्रन्थिं साधु निर्दह्य युक्तः । नित्यं ब्रह्मानन्दपीयूषसिन्धौमज्जन्क्रीडन्मोदमानो रमस्व ॥ ९०८ ॥ tasmāttvaṁ cāpyapramattaḥ samādhī - nkṛtvā granthiṁ sādhu nirdahya yuktaḥ । nityaṁ brahmānandapīyūṣasindhaumajjankrīḍanmodamāno ramasva ॥ 908 ॥
  379. तस्मात्त्वमभयं नित्यं केवलानन्दलक्षणम् । निष्कलं निष्क्रियं शान्तं ब्रह्मैवासि सदाद्वयम् ॥ ७८४ ॥ tasmāttvamabhayaṁ nityaṁ kevalānandalakṣaṇam । niṣkalaṁ niṣkriyaṁ śāntaṁ brahmaivāsi sadādvayam ॥ 784 ॥
  380. तस्मात्त्वयीदं भ्रमतः प्रतीतंमृषैव नो सत्यमवेहि साक्षात् । ब्रह्म त्वमेवासि सुखस्वरुपंत्वत्तो न भिन्नं विचिनुष्व बुद्धौ ॥ २८९ ॥ tasmāttvayīdaṁ bhramataḥ pratītaṁmṛṣaiva no satyamavehi sākṣāt । brahma tvamevāsi sukhasvarupaṁtvatto na bhinnaṁ vicinuṣva buddhau ॥ 289 ॥
  381. तस्मादज्ञानविच्छित्त्यै ज्ञानं सम्पादयेत्सुधीः । आत्मानात्मविवेकेन ज्ञानं सिध्यति नान्यथा ॥ ५१८ ॥ tasmādajñānavicchittyai jñānaṁ sampādayetsudhīḥ । ātmānātmavivekena jñānaṁ sidhyati nānyathā ॥ 518 ॥
  382. तस्मादनर्थस्य निदानमर्थः पुमर्थसिद्धिर्न भवत्यनेन । ततो वनान्ते निवसन्ति सन्तः संन्यस्य सर्वं प्रतिकूलमर्थम् ॥ ८३ ॥ tasmādanarthasya nidānamarthaḥ pumarthasiddhirna bhavatyanena । tato vanānte nivasanti santaḥ saṁnyasya sarvaṁ pratikūlamartham ॥ 83 ॥
  383. तस्मादनित्ये स्वर्गादौ साधनत्वेन चोदितम् । नित्यं नैमित्तिकं चापि सर्वं कर्म ससाधनम् ॥ १७२ ॥ tasmādanitye svargādau sādhanatvena coditam । nityaṁ naimittikaṁ cāpi sarvaṁ karma sasādhanam ॥ 172 ॥
  384. तस्मादन्नविकारित्वेनायमन्नमयो मतः । आच्छादकत्वादेतस्याप्यसेः कोशवदात्मनः ॥ ४४५ ॥ tasmādannavikāritvenāyamannamayo mataḥ । ācchādakatvādetasyāpyaseḥ kośavadātmanaḥ ॥ 445 ॥
  385. तस्मादात्मा केवलानन्दरूपोयः सर्वस्माद्वस्तुनः प्रेष्ठ उक्तः । यो वा अस्मान्मन्यतेऽन्यं प्रियं यंसोऽयं तस्माच्छोकमेवानुभुङ्क्ते ॥ ६३१ ॥ tasmādātmā kevalānandarūpoyaḥ sarvasmādvastunaḥ preṣṭha uktaḥ । yo vā asmānmanyate'nyaṁ priyaṁ yaṁso'yaṁ tasmācchokamevānubhuṅkte ॥ 631 ॥
  386. तस्मादावृतिविक्षेपौ किञ्चित्कर्तुं न शक्नुतः । स्वयमेव स्वतन्त्रोऽसौ तत्प्रवृत्तिनिरोधयोः ॥ ५०५ ॥ tasmādāvṛtivikṣepau kiñcitkartuṁ na śaknutaḥ । svayameva svatantro'sau tatpravṛttinirodhayoḥ ॥ 505 ॥
  387. तस्मादेव तु बुद्धेः कर्तृत्वं तदितरस्य करणत्वम् । सिध्यत्यात्मन उभयाद्विद्यात्संसारकारणं मोहात् ॥ ३४९ ॥ tasmādeva tu buddheḥ kartṛtvaṁ taditarasya karaṇatvam । sidhyatyātmana ubhayādvidyātsaṁsārakāraṇaṁ mohāt ॥ 349 ॥
  388. तस्माद्धि कार्यं न कदापि भिन्नंस्वकारणादस्ति यतस्ततोऽङ्ग । यद्भौतिकं सर्वमिदं तथैवतद्भूतमात्रं न ततोऽपि भिन्नम् ॥ ६८६ ॥ tasmāddhi kāryaṁ na kadāpi bhinnaṁsvakāraṇādasti yatastato'ṅga । yadbhautikaṁ sarvamidaṁ tathaivatadbhūtamātraṁ na tato'pi bhinnam ॥ 686 ॥
  389. तस्माद्ब्रह्मात्मनोर्भेदः कल्पितो न तु वास्तवः । अत एव मुहुः श्रुत्याप्येकत्वं प्रतिपाद्यते ॥ ६९८ ॥ tasmādbrahmātmanorbhedaḥ kalpito na tu vāstavaḥ । ata eva muhuḥ śrutyāpyekatvaṁ pratipādyate ॥ 698 ॥
  390. तस्मान्न कर्मसाध्यत्वं ब्रह्मणोऽस्ति कुतश्चन । कर्मसाध्यं त्वनित्यं हि ब्रह्म नित्यं सनातनम् ॥ १६३ ॥ tasmānna karmasādhyatvaṁ brahmaṇo'sti kutaścana । karmasādhyaṁ tvanityaṁ hi brahma nityaṁ sanātanam ॥ 163 ॥
  391. तस्मान्न मानसो धर्मो निर्गुणत्वान्न चात्मनः । किं तु पुण्यस्य सांनिध्यादिष्टस्यापि च वस्तुनः ॥ ६४६ ॥ tasmānna mānaso dharmo nirguṇatvānna cātmanaḥ । kiṁ tu puṇyasya sāṁnidhyādiṣṭasyāpi ca vastunaḥ ॥ 646 ॥
  392. तस्मान्मुमुक्षोः कर्तव्या ज्ञाननिष्ठा प्रयत्नतः । निःशेषवासनाक्षत्यै विपरीतनिवृत्तये ॥ ८५१ ॥ tasmānmumukṣoḥ kartavyā jñānaniṣṭhā prayatnataḥ । niḥśeṣavāsanākṣatyai viparītanivṛttaye ॥ 851 ॥
  393. तस्मान्मुमुक्षोरधिका तितिक्षासम्पादनीयेप्सितकार्यसिद्ध्यै । तीव्रा मुमुक्षा च महत्युपेक्षाचोभे तितिक्षा सहकारि कारणम् ॥ १४४ ॥ tasmānmumukṣoradhikā titikṣāsampādanīyepsitakāryasiddhyai । tīvrā mumukṣā ca mahatyupekṣācobhe titikṣā sahakāri kāraṇam ॥ 144 ॥
  394. तस्य कार्यतया जीववृत्तिर्भवति बाधिता । उपप्रभा यथा सूर्यं प्रकाशयितुमक्षमा ॥ ८०१ ॥ tasya kāryatayā jīvavṛttirbhavati bādhitā । upaprabhā yathā sūryaṁ prakāśayitumakṣamā ॥ 801 ॥
  395. तान्येव सूक्ष्मभूतानि व्योमादीनि परस्परम् । पञ्चीकृतानि स्थूलानि भवन्ति शृणु तत्क्रमम् ॥ ३९७ ॥ tānyeva sūkṣmabhūtāni vyomādīni parasparam । pañcīkṛtāni sthūlāni bhavanti śṛṇu tatkramam ॥ 397 ॥
  396. तापत्रयं तीव्रमवेक्ष्य वस्तुदृष्ट्वा कलत्रं तनयान्विहातुम् । मध्ये द्वयोर्लोडनमात्मनो य - त्सैषा मता माध्यमिकी मुमुक्षा ॥ २३० ॥ tāpatrayaṁ tīvramavekṣya vastudṛṣṭvā kalatraṁ tanayānvihātum । madhye dvayorloḍanamātmano ya - tsaiṣā matā mādhyamikī mumukṣā ॥ 230 ॥
  397. तापैस्त्रिभिर्नित्यमनेकरूपैः सन्तप्यमानः क्षुभितान्तरात्मा । परिग्रहं सर्वमनर्थबुद्ध्या जहाति सा तीव्रतरा मुमुक्षा ॥ २२९ ॥ tāpaistribhirnityamanekarūpaiḥ santapyamānaḥ kṣubhitāntarātmā । parigrahaṁ sarvamanarthabuddhyā jahāti sā tīvratarā mumukṣā ॥ 229 ॥
  398. तावदेव नरः स्वस्थः सारग्रहणतत्परः । विवेकी प्रयतेताशु भवबन्धविमुक्तये ॥ २४३ ॥ tāvadeva naraḥ svasthaḥ sāragrahaṇatatparaḥ । vivekī prayatetāśu bhavabandhavimuktaye ॥ 243 ॥
  399. तितिक्षया तपो दानं यज्ञस्तीर्थं व्रतं श्रुतम् । भूतिः स्वर्गोऽपवर्गश्च प्राप्यते तत्तदर्थिभिः ॥ १४० ॥ titikṣayā tapo dānaṁ yajñastīrthaṁ vrataṁ śrutam । bhūtiḥ svargo'pavargaśca prāpyate tattadarthibhiḥ ॥ 140 ॥
  400. तितिक्षोरेव विघ्नेभ्यस्त्वनिवर्तितचेतसः । सिध्यन्ति सिद्धयः सर्वा अणिमाद्याः समृद्धयः ॥ १४३ ॥ titikṣoreva vighnebhyastvanivartitacetasaḥ । sidhyanti siddhayaḥ sarvā aṇimādyāḥ samṛddhayaḥ ॥ 143 ॥
  401. तिष्ठत्येव स्वरूपेण न तु शून्यायते जगत् । क्वचिदङ्कुररूपेण क्वचिद्बीजात्मना वटः । कार्यकारणरूपेण यथा तिष्ठत्यदस्तथा ॥ ५८७ ॥ tiṣṭhatyeva svarūpeṇa na tu śūnyāyate jagat । kvacidaṅkurarūpeṇa kvacidbījātmanā vaṭaḥ । kāryakāraṇarūpeṇa yathā tiṣṭhatyadastathā ॥ 587 ॥
  402. तीव्रमध्यममन्दातिमन्दभेदाश्चतुर्विधाः । मुमुक्षा तत्प्रकारोऽपि कीर्त्यते श्रूयतां बुधैः ॥ २२८ ॥ tīvramadhyamamandātimandabhedāścaturvidhāḥ । mumukṣā tatprakāro'pi kīrtyate śrūyatāṁ budhaiḥ ॥ 228 ॥
  403. तुर्यावस्थां सप्तभूमिं क्रमात्प्राप्नोति योगिराट् । विदेहमुक्तिरेवात्र तुर्यातीतदशोच्यते ॥ ९६४ ॥ turyāvasthāṁ saptabhūmiṁ kramātprāpnoti yogirāṭ । videhamuktirevātra turyātītadaśocyate ॥ 964 ॥
  404. तेजः शब्दस्पर्शरूपैर्गुणवत्कारणं क्रमात् । आपश्चतुर्गुणः शब्दस्पर्शरूपरसैः क्रमात् ॥ ४१० ॥ tejaḥ śabdasparśarūpairguṇavatkāraṇaṁ kramāt । āpaścaturguṇaḥ śabdasparśarūparasaiḥ kramāt ॥ 410 ॥
  405. तेजोंशकतया पाणी वह्न्याद्यर्चनतत्परौ । जलांशकतयोपस्थो रेतोमूत्रविसर्गकृत् ॥ ४१५ ॥ tejoṁśakatayā pāṇī vahnyādyarcanatatparau । jalāṁśakatayopastho retomūtravisargakṛt ॥ 415 ॥
  406. तेन बन्धोऽस्य जीवस्य संसारोऽपि च तत्कृतः । सम्प्राप्तः सर्वदा यत्र दुःखं भूयः स ईक्षते ॥ ५०८ ॥ tena bandho'sya jīvasya saṁsāro'pi ca tatkṛtaḥ । samprāptaḥ sarvadā yatra duḥkhaṁ bhūyaḥ sa īkṣate ॥ 508 ॥
  407. तेन स्वदौष्ट्यं परिमुच्य चित्तंशनैः शनैः शान्तिमुपाददाति । चित्तस्य बाह्यार्थविमोक्षमेवमोक्षं विदुर्मोक्षणलक्षणज्ञाः ॥ १३३ ॥ tena svadauṣṭyaṁ parimucya cittaṁśanaiḥ śanaiḥ śāntimupādadāti । cittasya bāhyārthavimokṣamevamokṣaṁ vidurmokṣaṇalakṣaṇajñāḥ ॥ 133 ॥
  408. तेनैव सर्वजन्तूनां कामना बलवत्तरा । जीर्यत्यपि च देहेऽस्मिन्कामना नैव जीर्यते ॥ ६० ॥ tenaiva sarvajantūnāṁ kāmanā balavattarā । jīryatyapi ca dehe'sminkāmanā naiva jīryate ॥ 60 ॥
  409. तेनोपलभ्यते शब्दः कारणस्यातिरेकतः । तथा नभस्वतो धर्मोऽप्यग्न्यादावुपलभ्यते ॥ ४०६ ॥ tenopalabhyate śabdaḥ kāraṇasyātirekataḥ । tathā nabhasvato dharmo'pyagnyādāvupalabhyate ॥ 406 ॥
  410. तैलधारावदच्छिन्नवृत्त्या तद्ध्यानमिष्यते । तावत्कालं प्रयत्नेन कर्तव्यं श्रवणं सदा ॥ ८१५ ॥ tailadhārāvadacchinnavṛttyā taddhyānamiṣyate । tāvatkālaṁ prayatnena kartavyaṁ śravaṇaṁ sadā ॥ 815 ॥
  411. त्वं प्रत्यस्ताशेषविशेषं व्योमेवान्तर्बहिरपि पूर्णम् । ब्रह्मानन्दं परमद्वैतं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८९ ॥ tvaṁ pratyastāśeṣaviśeṣaṁ vyomevāntarbahirapi pūrṇam । brahmānandaṁ paramadvaitaṁ śuddhaṁ buddhaṁ tattvamasi tvam ॥ 789 ॥
  412. त्वङ्मारुतांशकतया स्पर्शं गृह्णाति तद्गुणम् । तेजोंशकतया चक्षू रूपं गृह्णाति तद्गुणम् ॥ ४१२ ॥ tvaṅmārutāṁśakatayā sparśaṁ gṛhṇāti tadguṇam । tejoṁśakatayā cakṣū rūpaṁ gṛhṇāti tadguṇam ॥ 412 ॥
  413. त्वत्कटाक्षवरचान्द्रचन्द्रिकापातधूतभवतापजः श्रमः । प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥ ९३२ ॥ tvatkaṭākṣavaracāndracandrikāpātadhūtabhavatāpajaḥ śramaḥ । prāptavānahamakhaṇḍavaibhavānandamātmapadamakṣayaṁ kṣaṇāt ॥ 932 ॥
  414. त्वयापि प्रत्यभिज्ञातं सुखमात्रत्वमात्मनः । सुषुप्तादुत्थितवता सुखमस्वाप्समित्यनु ॥ ६६२ ॥ tvayāpi pratyabhijñātaṁ sukhamātratvamātmanaḥ । suṣuptādutthitavatā sukhamasvāpsamityanu ॥ 662 ॥
  415. दमं विना साधु मनःप्रसाद - हेतुं न विद्मः सुकरं मुमुक्षोः । दमेन चित्तं निजदोषजातंविसृज्य शान्तिं समुपैति शीघ्रम् ॥ १३४ ॥ damaṁ vinā sādhu manaḥprasāda - hetuṁ na vidmaḥ sukaraṁ mumukṣoḥ । damena cittaṁ nijadoṣajātaṁvisṛjya śāntiṁ samupaiti śīghram ॥ 134 ॥
  416. दर्शयित्वा सुषुप्तौ तद्ब्रह्माभिन्नत्वमात्मनः । उपपाद्य सदैकत्वं प्रदर्शयितुमिच्छया ॥ ७२९ ॥ darśayitvā suṣuptau tadbrahmābhinnatvamātmanaḥ । upapādya sadaikatvaṁ pradarśayitumicchayā ॥ 729 ॥
  417. दशाचतुष्टयाभ्यासादसंसर्गफला तु या । रूढसत्त्वचमत्कारा प्रोक्तासंसक्तिनामिका ॥ ९४५ ॥ daśācatuṣṭayābhyāsādasaṁsargaphalā tu yā । rūḍhasattvacamatkārā proktāsaṁsaktināmikā ॥ 945 ॥
  418. दहत्यलाभे निःस्वत्वं लाभे लोभो दहत्यमुम् । तस्मात्सन्तापकं वित्तं कस्य सौख्यं प्रयच्छति ॥ ७४ ॥ dahatyalābhe niḥsvatvaṁ lābhe lobho dahatyamum । tasmātsantāpakaṁ vittaṁ kasya saukhyaṁ prayacchati ॥ 74 ॥
  419. दिवान्धदृष्टेस्तु दिवान्धकारःप्रत्यक्षसिद्धोऽपि स किं यथार्थः । तद्वद्भ्रमेणावगतः पदार्थोभ्रान्तस्य सत्यः सुमतेर्मृषैव ॥ २८६ ॥ divāndhadṛṣṭestu divāndhakāraḥpratyakṣasiddho'pi sa kiṁ yathārthaḥ । tadvadbhrameṇāvagataḥ padārthobhrāntasya satyaḥ sumatermṛṣaiva ॥ 286 ॥
  420. दीपाद्दीपो यथा तद्वत्पितुः पुत्रः प्रजायते । पितुर्गुणानां तनये बीजाङ्कुरवदीक्षणात् ॥ ५२५ ॥ dīpāddīpo yathā tadvatpituḥ putraḥ prajāyate । piturguṇānāṁ tanaye bījāṅkuravadīkṣaṇāt ॥ 525 ॥
  421. दुःखं च भोगकालेऽपि तेषामन्ते महत्तरम् । सुखं विषयसम्पृक्तं विषसम्पृक्तभक्तवत् ॥ ६५१ ॥ duḥkhaṁ ca bhogakāle'pi teṣāmante mahattaram । sukhaṁ viṣayasampṛktaṁ viṣasampṛktabhaktavat ॥ 651 ॥
  422. दुःखप्रत्ययशून्यत्वादानन्दमयता मता । अज्ञाने सकलं सुप्तौ बुद्ध्यादि प्रविलीयते ॥ ५६२ ॥ duḥkhapratyayaśūnyatvādānandamayatā matā । ajñāne sakalaṁ suptau buddhyādi pravilīyate ॥ 562 ॥
  423. दुःखाभावः सुखमिति यदुक्तं पूर्ववादिना । अनाघ्रातोपनिषदा तदसारं मृषा वचः ॥ ६६३ ॥ duḥkhābhāvaḥ sukhamiti yaduktaṁ pūrvavādinā । anāghrātopaniṣadā tadasāraṁ mṛṣā vacaḥ ॥ 663 ॥
  424. दुःखाभावस्तु लोष्टादौ विद्यते नानुभूयते । सुखलेशोऽपि सर्वेषां प्रत्यक्षं तदिदं खलु ॥ ६६४ ॥ duḥkhābhāvastu loṣṭādau vidyate nānubhūyate । sukhaleśo'pi sarveṣāṁ pratyakṣaṁ tadidaṁ khalu ॥ 664 ॥
  425. दुःखिनोऽपि सुषुप्तौ त्वानन्दमयता ततः । सुप्तौ किञ्चिन्न जानामीत्यनुभूतिश्च दृश्यते ॥ ५६३ ॥ duḥkhino'pi suṣuptau tvānandamayatā tataḥ । suptau kiñcinna jānāmītyanubhūtiśca dṛśyate ॥ 563 ॥
  426. दुरदृष्टादिकं नात्र प्रतिबन्धः प्रकल्प्यताम् । प्रियस्य वस्तुनो लाभे दुरदृष्टं न सिध्यति ॥ ६४५ ॥ duradṛṣṭādikaṁ nātra pratibandhaḥ prakalpyatām । priyasya vastuno lābhe duradṛṣṭaṁ na sidhyati ॥ 645 ॥
  427. दुष्पारे भवसागरे जनिमृतव्याध्यादिदुःखोत्कटेघोरे पुत्रकलत्रमित्रबहुलग्राहाकरे भीकरे । कर्मोत्तुङ्गतरङ्गभङ्गनिकरैराकृष्यमाणो मुहुःयातायातगतिभ्रमेण शरणं किञ्चिन्न पश्याम्यहम् ॥ २६३ ॥ duṣpāre bhavasāgare janimṛtavyādhyādiduḥkhotkaṭeghore putrakalatramitrabahulagrāhākare bhīkare । karmottuṅgataraṅgabhaṅganikarairākṛṣyamāṇo muhuḥyātāyātagatibhrameṇa śaraṇaṁ kiñcinna paśyāmyaham ॥ 263 ॥
  428. दूरादवेक्ष्याग्निशिखां पतङ्गो रम्यत्वबुद्ध्या विनिपत्य नश्यति । यथा तथा नष्टदृगेष सूक्ष्मं कथं निरीक्षेत विमुक्तिमार्गम् ॥ ५१ ॥ dūrādavekṣyāgniśikhāṁ pataṅgo ramyatvabuddhyā vinipatya naśyati । yathā tathā naṣṭadṛgeṣa sūkṣmaṁ kathaṁ nirīkṣeta vimuktimārgam ॥ 51 ॥
  429. दृगाद्यविषये व्योम्नि नीलतादि यथाबुधाः । अध्यस्यन्ति तथैवास्मिन्नात्मन्यपि मतिभ्रमात् ॥ ४७८ ॥ dṛgādyaviṣaye vyomni nīlatādi yathābudhāḥ । adhyasyanti tathaivāsminnātmanyapi matibhramāt ॥ 478 ॥
  430. दृश्यधीवृत्तिरेतस्य केवलीभावभावना । परं बोधैकतावाप्तिः सुप्तिसुप्तिरितीर्यते ॥ ९५७ ॥ dṛśyadhīvṛttiretasya kevalībhāvabhāvanā । paraṁ bodhaikatāvāptiḥ suptisuptiritīryate ॥ 957 ॥
  431. दृश्यन्ते येन सन्दृष्टा दृश्याः स्युरहमादयः । कामादिसर्ववृत्तीनां द्रष्टारमविकारिणम् ॥ ८३२ ॥ dṛśyante yena sandṛṣṭā dṛśyāḥ syurahamādayaḥ । kāmādisarvavṛttīnāṁ draṣṭāramavikāriṇam ॥ 832 ॥
  432. दृश्यस्यापि च साक्षित्वात्समुल्लेखनमात्मनि । निवर्तकमनोवस्था निर्विकल्प इतीर्यते ॥ ८७३ ॥ dṛśyasyāpi ca sākṣitvātsamullekhanamātmani । nivartakamanovasthā nirvikalpa itīryate ॥ 873 ॥
  433. देवर्षिपितृमर्त्यर्णबन्धमुक्तास्तु कोटिशः । भवबन्धविमुक्तस्तु यः कश्चिद्ब्रह्मवित्तमः ॥ २४४ ॥ devarṣipitṛmartyarṇabandhamuktāstu koṭiśaḥ । bhavabandhavimuktastu yaḥ kaścidbrahmavittamaḥ ॥ 244 ॥
  434. देशकालादिवैशिष्ट्यं विरुद्धांशं निरस्य च । अविरुद्धं देवदत्तदेहमात्रं स्वलक्षणम् ॥ ७५५ ॥ deśakālādivaiśiṣṭyaṁ viruddhāṁśaṁ nirasya ca । aviruddhaṁ devadattadehamātraṁ svalakṣaṇam ॥ 755 ॥
  435. देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् । ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ९७६ ॥ dehatrayātirikto'haṁ śuddhacaitanyamasmyaham । brahmāhamiti yasyāntaḥ sa jīvanmukta ucyate ॥ 976 ॥
  436. देहात्मबुद्धेर्विच्छित्त्यै ज्ञानं कर्म विवृद्धये । अज्ञानमूलकं कर्म ज्ञानं तूभयनाशकं ॥ ८५४ ॥ dehātmabuddhervicchittyai jñānaṁ karma vivṛddhaye । ajñānamūlakaṁ karma jñānaṁ tūbhayanāśakaṁ ॥ 854 ॥
  437. देहादावहमित्येव भावो दृढतरो धियः । दृश्यतेऽहङ्कृतेस्तस्मादन्तर्भावोऽत्र युज्यते ॥ ३४८ ॥ dehādāvahamityeva bhāvo dṛḍhataro dhiyaḥ । dṛśyate'haṅkṛtestasmādantarbhāvo'tra yujyate ॥ 348 ॥
  438. देहादिः क्षीयते लोको यथैवं कर्मणा चितः । तथैवामुष्मिको लोकः सञ्चितः पुण्यकर्मणा ॥ १६४ ॥ dehādiḥ kṣīyate loko yathaivaṁ karmaṇā citaḥ । tathaivāmuṣmiko lokaḥ sañcitaḥ puṇyakarmaṇā ॥ 164 ॥
  439. देहोऽयं पितृभुक्तान्नविकाराच्छुक्लशोणितात् । जातः प्रवर्धतेऽन्नेन तदभावे विनश्यति ॥ ४४४ ॥ deho'yaṁ pitṛbhuktānnavikārācchuklaśoṇitāt । jātaḥ pravardhate'nnena tadabhāve vinaśyati ॥ 444 ॥
  440. दैवे च वेदे च गुरौ च मन्त्रेतीर्थे महात्मन्यपि भेषजे च । श्रद्धा भवत्यस्य यथा यथान्त - स्तथा तथा सिद्धिरुदेति पुंसाम् ॥ २१३ ॥ daive ca vede ca gurau ca mantretīrthe mahātmanyapi bheṣaje ca । śraddhā bhavatyasya yathā yathānta - stathā tathā siddhirudeti puṁsām ॥ 213 ॥
  441. द्रष्टा श्रोता वक्ता कर्ता भोक्ता भवत्यहङ्कारः । स्वयमेतद्विकृतीनां साक्षी निर्लेप एवात्मा ॥ ४२४ ॥ draṣṭā śrotā vaktā kartā bhoktā bhavatyahaṅkāraḥ । svayametadvikṛtīnāṁ sākṣī nirlepa evātmā ॥ 424 ॥
  442. द्वयोरुपाध्योरेकत्वे तयोरप्यभिमानिनोः । सूत्रात्मनस्तैजसस्याप्यभेदः पूर्ववन्मतः ॥ ३९५ ॥ dvayorupādhyorekatve tayorapyabhimāninoḥ । sūtrātmanastaijasasyāpyabhedaḥ pūrvavanmataḥ ॥ 395 ॥
  443. द्वैतवर्जितचिन्मात्रे पदे परमपावने । अक्षुब्धचित्तविश्रान्तः स जीवन्मुक्त उच्यते ॥ ९७३ ॥ dvaitavarjitacinmātre pade paramapāvane । akṣubdhacittaviśrāntaḥ sa jīvanmukta ucyate ॥ 973 ॥
  444. धनं भयनिबन्धनं सततदुःखसंवर्धनं प्रचण्डतरकर्दनं स्फुटितबन्धुसंवर्धनम् । विशिष्टगुणबाधनं कृपणधीसमाराधनं न मुक्तिगतिसाधनं भवति नापि हृच्छोधनम् ॥ ७० ॥ dhanaṁ bhayanibandhanaṁ satataduḥkhasaṁvardhanaṁ pracaṇḍatarakardanaṁ sphuṭitabandhusaṁvardhanam । viśiṣṭaguṇabādhanaṁ kṛpaṇadhīsamārādhanaṁ na muktigatisādhanaṁ bhavati nāpi hṛcchodhanam ॥ 70 ॥
  445. धनकान्ताज्वरादीनां प्राप्तकाले सुखादिभिः । विकारहीनतैव स्यात्सुखदुःखसमानता ॥ १२४ ॥ dhanakāntājvarādīnāṁ prāptakāle sukhādibhiḥ । vikārahīnataiva syātsukhaduḥkhasamānatā ॥ 124 ॥
  446. धनेन मदवृद्धिः स्यान्मदेन स्मृतिनाशनम् । स्मृतिनाशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ७६ ॥ dhanena madavṛddhiḥ syānmadena smṛtināśanam । smṛtināśādbuddhināśo buddhināśātpraṇaśyati ॥ 76 ॥
  447. धन्यः कृतार्थस्त्वमहो विवेकःशिवप्रसादस्तव विद्यते महान् । विसृज्य तु प्राकृतलोकमार्गंब्रह्मावगन्तुं यतसे यतस्त्वम् ॥ २७८ ॥
  448. ध्यानं समाधिरित्येव निगदन्ति मनीषिणः । सर्वं ब्रह्मेति विज्ञानादिन्द्रियग्रामसंयमः ॥ ९११ ॥ dhyānaṁ samādhirityeva nigadanti manīṣiṇaḥ । sarvaṁ brahmeti vijñānādindriyagrāmasaṁyamaḥ ॥ 911 ॥
  449. ध्यानपूजादिकं लोके द्रष्टर्येव करोति यः । पारमार्थिकधीहीनः स दम्भाचार उच्यते ॥ ११६ ॥ dhyānapūjādikaṁ loke draṣṭaryeva karoti yaḥ । pāramārthikadhīhīnaḥ sa dambhācāra ucyate ॥ 116 ॥
  450. ध्यानशब्देन विख्याता परमानन्ददायिनी । निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः ॥ ९२० ॥ dhyānaśabdena vikhyātā paramānandadāyinī । nirvikāratayā vṛttyā brahmākāratayā punaḥ ॥ 920 ॥
  451. न कर्म यत्किञ्चिदपेक्षते हि रूपोपलब्धौ पुरुषस्य चक्षुः । ज्ञानं तथैव श्रवणादिजन्यं वस्तुप्रकाशे निरपेक्षमेव ॥ १९५ ॥ na karma yatkiñcidapekṣate hi rūpopalabdhau puruṣasya cakṣuḥ । jñānaṁ tathaiva śravaṇādijanyaṁ vastuprakāśe nirapekṣameva ॥ 195 ॥
  452. न कर्मणा न प्रजया धनेनेति स्वयं श्रुतिः । कर्मणो मोक्षहेतुत्वं साक्षादेव निषेधति ॥ १६८ ॥ na karmaṇā na prajayā dhaneneti svayaṁ śrutiḥ । karmaṇo mokṣahetutvaṁ sākṣādeva niṣedhati ॥ 168 ॥
  453. न कस्यापि स्वसद्भावे प्रमाणमभिकाङ्क्ष्यते । प्रमाणानां च प्रामाण्यं यन्मूलं किं तु बोधयेत् ॥ ४७५ ॥ na kasyāpi svasadbhāve pramāṇamabhikāṅkṣyate । pramāṇānāṁ ca prāmāṇyaṁ yanmūlaṁ kiṁ tu bodhayet ॥ 475 ॥
  454. न केवलाज्ञानमयो घटकुड्यादिवज्जडः । इति निश्चयमेतेषां दूषयत्यपरो जडः ॥ ५६८ ॥ na kevalājñānamayo ghaṭakuḍyādivajjaḍaḥ । iti niścayameteṣāṁ dūṣayatyaparo jaḍaḥ ॥ 568 ॥
  455. न कोऽपि सम्यक्त्वधिया विनैव भोग्यं नरः कामयितुं समर्थः । यतस्ततः कामजयेच्छुरेतां सम्यक्त्वबुद्धिं विषये निहन्यात् ॥ ६५ ॥ na ko'pi samyaktvadhiyā vinaiva bhogyaṁ naraḥ kāmayituṁ samarthaḥ । yatastataḥ kāmajayecchuretāṁ samyaktvabuddhiṁ viṣaye nihanyāt ॥ 65 ॥
  456. न च संन्यसनादेव सिद्धिं समधिगच्छति । इत्यनुष्ठेयसन्त्यागात्सिद्ध्यभावमुवाच च ॥ १४८ ॥ na ca saṁnyasanādeva siddhiṁ samadhigacchati । ityanuṣṭheyasantyāgātsiddhyabhāvamuvāca ca ॥ 148 ॥
  457. न चास्य कश्चिज्जनितेत्यागमेन निषिध्यते । कारणं ब्रह्म तत्तस्माद्ब्रह्म नोत्पाद्यमिष्यते ॥ १५६ ॥ na cāsya kaścijjanitetyāgamena niṣidhyate । kāraṇaṁ brahma tattasmādbrahma notpādyamiṣyate ॥ 156 ॥
  458. न ज्ञानकर्मणोर्यस्मात्सहयोगस्तु युज्यते । तस्मात्त्याज्यं प्रयत्नेन कर्म ज्ञानेच्छुना ध्रुवम् ॥ २०३ ॥ na jñānakarmaṇoryasmātsahayogastu yujyate । tasmāttyājyaṁ prayatnena karma jñānecchunā dhruvam ॥ 203 ॥
  459. न तथा विद्यते व्याप्तिर्वह्न्यादेः खनभस्वतोः । सूक्ष्मत्वादंशकव्याप्तेस्तद्धर्मो नोपलभ्यते ॥ ४०७ ॥ na tathā vidyate vyāptirvahnyādeḥ khanabhasvatoḥ । sūkṣmatvādaṁśakavyāptestaddharmo nopalabhyate ॥ 407 ॥
  460. न तु कृत्वैव संन्यासं तूष्णीमेव मृतस्य हि । पुण्यलोकगतिं ब्रूते भगवान्न्यासमात्रतः ॥ १४७ ॥ na tu kṛtvaiva saṁnyāsaṁ tūṣṇīmeva mṛtasya hi । puṇyalokagatiṁ brūte bhagavānnyāsamātrataḥ ॥ 147 ॥
  461. न देशो न कालो न दिग्वापि सत्स्या - न्न वस्त्वन्तरं स्थूलसूक्ष्मादिरूपम् । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८९० ॥ na deśo na kālo na digvāpi satsyā - nna vastvantaraṁ sthūlasūkṣmādirūpam । yadeṣāmadhiṣṭhānabhūtaṁ viśuddhaṁsadekaṁ paraṁ sattadevāhamasmi ॥ 890 ॥
  462. न देहो न चाक्षाणि न प्राणावायु - र्मनो नापि बुद्धिर्न चित्तं ह्यहन्धीः । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८९ ॥ na deho na cākṣāṇi na prāṇāvāyu - rmano nāpi buddhirna cittaṁ hyahandhīḥ । yadeṣāmadhiṣṭhānabhūtaṁ viśuddhaṁsadekaṁ paraṁ sattadevāhamasmi ॥ 889 ॥
  463. न प्रमादोऽत्र कर्तव्यो विदुषा मोक्षमिच्छता । प्रमादे जृम्भते माया सूर्यापाये तमो यथा ॥ ९०२ ॥ na pramādo'tra kartavyo viduṣā mokṣamicchatā । pramāde jṛmbhate māyā sūryāpāye tamo yathā ॥ 902 ॥
  464. न मेऽस्ति देहेन्द्रियबुद्धियोगोन पुण्यलेशोऽपि न पापलेशः । क्षुधापिपासादिषडूर्मिदूरःसदा विमुक्तोऽस्मि चिदेव केवलः ॥ ८४१ ॥ na me'sti dehendriyabuddhiyogona puṇyaleśo'pi na pāpaleśaḥ । kṣudhāpipāsādiṣaḍūrmidūraḥsadā vimukto'smi cideva kevalaḥ ॥ 841 ॥
  465. न वेषभाषाभिरमुष्य मुक्तिर्याकेवलाखण्डचिदात्मना स्थितिः । तत्सिद्धये स्वात्मनि सर्वदा स्थितोजह्यादहन्तां ममतामुपाधौ ॥ ८४५ ॥ na veṣabhāṣābhiramuṣya muktiryākevalākhaṇḍacidātmanā sthitiḥ । tatsiddhaye svātmani sarvadā sthitojahyādahantāṁ mamatāmupādhau ॥ 845 ॥
  466. न शङ्कनीयमित्यार्यैर्ज्ञातार्थे न हि लक्षणा । तत्पदं त्वम्पदं वापि श्रूयते च प्रतीयते ॥ ७४२ ॥ na śaṅkanīyamityāryairjñātārthe na hi lakṣaṇā । tatpadaṁ tvampadaṁ vāpi śrūyate ca pratīyate ॥ 742 ॥
  467. न शब्दो न रूपं न च स्पर्शको वातथा नो रसो नापि गन्धो न चान्यः । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८७ ॥ na śabdo na rūpaṁ na ca sparśako vātathā no raso nāpi gandho na cānyaḥ । yadeṣāmadhiṣṭhānabhūtaṁ viśuddhaṁsadekaṁ paraṁ sattadevāhamasmi ॥ 887 ॥
  468. न सद्द्रव्यजातं गुणा न क्रिया वान जातिर्विशेषो न चान्यः कदापि । यदेषामधिष्ठानभूतं विशुद्धंसदेकं परं सत्तदेवाहमस्मि ॥ ८८८ ॥ na saddravyajātaṁ guṇā na kriyā vāna jātirviśeṣo na cānyaḥ kadāpi । yadeṣāmadhiṣṭhānabhūtaṁ viśuddhaṁsadekaṁ paraṁ sattadevāhamasmi ॥ 888 ॥
  469. न सा तत्त्वमसीत्यत्र वाक्य एषा प्रवर्तते । गङ्गाया अपि घोषस्याधाराधेयत्वलक्षणम् ॥ ७३५ ॥ na sā tattvamasītyatra vākya eṣā pravartate । gaṅgāyā api ghoṣasyādhārādheyatvalakṣaṇam ॥ 735 ॥
  470. न साक्षिणं साक्ष्यधर्मा न स्पृशन्ति विलक्षणम् । अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ ९३४ ॥ na sākṣiṇaṁ sākṣyadharmā na spṛśanti vilakṣaṇam । avikāramudāsīnaṁ gṛhadharmāḥ pradīpavat ॥ 934 ॥
  471. न सावयव एकस्य नात्मा विषय इष्यते । अस्यास्मत्प्रत्ययार्थत्वादपरोक्षाच्च सर्वशः ॥ ४७३ ॥
  472. न स्वप्नजागरणयोरुभयोर्विशेषःसन्दृश्यते क्वचिदपि भ्रमजैर्विकल्पैः । यद्दृष्टदर्शनमुखैरत एव मिथ्यास्वप्नो यथा ननु तथैव हि जागरोऽपि ॥ ७६५ ॥ na svapnajāgaraṇayorubhayorviśeṣaḥsandṛśyate kvacidapi bhramajairvikalpaiḥ । yaddṛṣṭadarśanamukhairata eva mithyāsvapno yathā nanu tathaiva hi jāgaro'pi ॥ 765 ॥
  473. न हि त्वं देहोऽसावसुरपि च वाप्यक्षनिकरोमनो वा बुद्धिर्वा क्वचिदपि तथाहङ्कृतिरपि । न चैषां सङ्घातस्त्वमु भवति विद्वन् शृणु परंयदेतेषां साक्षी स्फुरणममलं तत्त्वमसि हि ॥ ७७३ ॥ na hi tvaṁ deho'sāvasurapi ca vāpyakṣanikaromano vā buddhirvā kvacidapi tathāhaṅkṛtirapi । na caiṣāṁ saṅghātastvamu bhavati vidvan śṛṇu paraṁyadeteṣāṁ sākṣī sphuraṇamamalaṁ tattvamasi hi ॥ 773 ॥
  474. न हि दुःखप्रदं वस्तु सुखं दातुं सर्महति । किं विषं पिबतो जन्तोरमृतत्वं प्रयच्छति ॥ ६३८ ॥ na hi duḥkhapradaṁ vastu sukhaṁ dātuṁ sarmahati । kiṁ viṣaṁ pibato jantoramṛtatvaṁ prayacchati ॥ 638 ॥
  475. न हि प्रमाणान्तरबाधितस्ययाथार्थ्यमङ्गीक्रियते महद्भिः । पुत्रादिशून्यान्तमनात्मतत्त्व - मित्येव विस्पष्टमतः सुजातम् ॥ ५८० ॥ na hi pramāṇāntarabādhitasyayāthārthyamaṅgīkriyate mahadbhiḥ । putrādiśūnyāntamanātmatattva - mityeva vispaṣṭamataḥ sujātam ॥ 580 ॥
  476. न ह्यत्र विषयः कश्चिन्नापि बुद्ध्यादि किञ्चन । आत्मैव केवलानन्दमात्रस्तिष्ठति निर्द्वयः ॥ ६६० ॥ na hyatra viṣayaḥ kaścinnāpi buddhyādi kiñcana । ātmaiva kevalānandamātrastiṣṭhati nirdvayaḥ ॥ 660 ॥
  477. न ह्यर्कः कुरुते कर्म न कारयति जन्तवः । स्वस्वभावानुरोधेन वर्तन्ते स्वस्वकर्मसु ॥ ४२६ ॥ na hyarkaḥ kurute karma na kārayati jantavaḥ । svasvabhāvānurodhena vartante svasvakarmasu ॥ 426 ॥
  478. नानात्वेन प्रतीतानामज्ञानानामभेदतः । एकत्वेन समष्टिः स्याद्भूरुहाणां वनं यथा ॥ ३०८ ॥ nānātvena pratītānāmajñānānāmabhedataḥ । ekatvena samaṣṭiḥ syādbhūruhāṇāṁ vanaṁ yathā ॥ 308 ॥
  479. नानायोनिसहस्रेषु जायमानो मुहुर्मुहुः । म्रियमाणो भ्रमत्येष जीवः संसारमण्डले ॥ ३५४ ॥ nānāyonisahasreṣu jāyamāno muhurmuhuḥ । mriyamāṇo bhramatyeṣa jīvaḥ saṁsāramaṇḍale ॥ 354 ॥
  480. नानुभूतः कदाप्यात्माननुभूतस्य वस्तुनः । सादृश्यं सिध्यति कथमनात्मनि विलक्षणे ॥ ४६९ ॥ nānubhūtaḥ kadāpyātmānanubhūtasya vastunaḥ । sādṛśyaṁ sidhyati kathamanātmani vilakṣaṇe ॥ 469 ॥
  481. नान्तःप्रज्ञो न बहिःप्रज्ञको वानैव प्रज्ञो नापि चाप्रज्ञ एषः । नाहं श्रोता नापि मन्ता न बोद्धासाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८४० ॥ nāntaḥprajño na bahiḥprajñako vānaiva prajño nāpi cāprajña eṣaḥ । nāhaṁ śrotā nāpi mantā na boddhāsākṣī nityaḥ pratyagevāhamasmi ॥ 840 ॥
  482. नाप्येष धर्मो मनसोऽसत्यर्थे तददर्शनात् । असति व्यञ्जके व्यङ्ग्यं नोदेतीति न मन्यताम् ॥ ६४३ ॥ nāpyeṣa dharmo manaso'satyarthe tadadarśanāt । asati vyañjake vyaṅgyaṁ nodetīti na manyatām ॥ 643 ॥
  483. नामरूपे पृथक्कृत्वा ब्रह्मण्येव विलापयन् । अधिष्ठानं परं ब्रह्म सच्चिदानन्दमद्वयम् । यत्तदेवाहमित्येव निश्चितात्मा भवेद्ध्रुवम् ॥ ८८५ ॥ nāmarūpe pṛthakkṛtvā brahmaṇyeva vilāpayan । adhiṣṭhānaṁ paraṁ brahma saccidānandamadvayam । yattadevāhamityeva niścitātmā bhaveddhruvam ॥ 885 ॥
  484. नाशकत्वं तदुभयोः को न कल्पयितुं क्षमः । सर्वं कर्माविरोध्येव सदाज्ञानस्य सर्वदा ॥ ५१४ ॥ nāśakatvaṁ tadubhayoḥ ko na kalpayituṁ kṣamaḥ । sarvaṁ karmāvirodhyeva sadājñānasya sarvadā ॥ 514 ॥
  485. नाशेषलोकैरनुभूयमानःप्रत्यक्षतोऽयं सकलप्रपञ्चः । कथं मृषा स्यादिति शङ्कनीयंविचारशून्येन विमुह्यता त्वया ॥ २८५ ॥ nāśeṣalokairanubhūyamānaḥpratyakṣato'yaṁ sakalaprapañcaḥ । kathaṁ mṛṣā syāditi śaṅkanīyaṁvicāraśūnyena vimuhyatā tvayā ॥ 285 ॥
  486. नासतः सत उत्पत्तिः श्रूयते न च दृश्यते । उदेति नरशृङ्गात्किं खपुष्पात्किं भविष्यति ॥ ५९० ॥ nāsataḥ sata utpattiḥ śrūyate na ca dṛśyate । udeti naraśṛṅgātkiṁ khapuṣpātkiṁ bhaviṣyati ॥ 590 ॥
  487. नास्म्यागन्ता नापि गन्ता न हन्तानाहं कर्ता न प्रयोक्ता न वक्ता । नाहं भोक्ता नो सुखी नैव दुःखीसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३८ ॥ nāsmyāgantā nāpi gantā na hantānāhaṁ kartā na prayoktā na vaktā । nāhaṁ bhoktā no sukhī naiva duḥkhīsākṣī nityaḥ pratyagevāhamasmi ॥ 838 ॥
  488. नाहं देहो नाप्यसुर्नाक्षवर्गोनाहङ्कारो नो मनो नापि बुद्धिः । अन्तस्तेषां चापि तद्विक्रियाणांसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३५ ॥ nāhaṁ deho nāpyasurnākṣavargonāhaṅkāro no mano nāpi buddhiḥ । antasteṣāṁ cāpi tadvikriyāṇāṁsākṣī nityaḥ pratyagevāhamasmi ॥ 835 ॥
  489. नाहं योगी नो वियोगी न रागीनाहं क्रोधी नैव कामी न लोभी । नाहं बद्धो नापि युक्तो न मुक्तःसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३९ ॥ nāhaṁ yogī no viyogī na rāgīnāhaṁ krodhī naiva kāmī na lobhī । nāhaṁ baddho nāpi yukto na muktaḥsākṣī nityaḥ pratyagevāhamasmi ॥ 839 ॥
  490. नाहं स्थूलो नापि सूक्ष्मो न दीर्घोनाहं बालो नो युवा नापि वृद्धः । नाहं काणो नापि मूको न षण्डःसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३७ ॥ nāhaṁ sthūlo nāpi sūkṣmo na dīrghonāhaṁ bālo no yuvā nāpi vṛddhaḥ । nāhaṁ kāṇo nāpi mūko na ṣaṇḍaḥsākṣī nityaḥ pratyagevāhamasmi ॥ 837 ॥
  491. नित्यानन्दस्वरूपोऽहमात्माहं त्वदनुग्रहात् । पूर्णोऽहमनवद्योऽहं केवलोऽहं च सद्गुरो ॥ ९३० ॥ nityānandasvarūpo'hamātmāhaṁ tvadanugrahāt । pūrṇo'hamanavadyo'haṁ kevalo'haṁ ca sadguro ॥ 930 ॥
  492. नित्यानन्दाखण्डैकरसं निष्कलमक्रियमस्तविकारम् । प्रत्यगभिन्नं परमव्यक्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८८ ॥ nityānandākhaṇḍaikarasaṁ niṣkalamakriyamastavikāram । pratyagabhinnaṁ paramavyaktaṁ śuddhaṁ buddhaṁ tattvamasi tvam ॥ 788 ॥
  493. नित्यानित्यपदार्थबोधरहितो यश्चोभयत्र स्रगा - द्यर्थानामनुभूतिलग्नहृदयो निर्विण्णबुद्धिर्जनः । तस्यैवास्य जडस्य कर्म विहितं श्रुत्या विरज्याभितोमोक्षेच्छोर्न विधीयते तु परमानन्दार्थिनो धीमतः ॥ १९८ ॥ nityānityapadārthabodharahito yaścobhayatra sragā - dyarthānāmanubhūtilagnahṛdayo nirviṇṇabuddhirjanaḥ । tasyaivāsya jaḍasya karma vihitaṁ śrutyā virajyābhitomokṣecchorna vidhīyate tu paramānandārthino dhīmataḥ ॥ 198 ॥
  494. नित्यानित्यपदार्थविवेकात्पुरुषस्य जायते सद्यः । स्रक्चन्दनवनितादौ सर्वत्रानित्यवस्तुनि विरक्तिः ॥ २३ ॥ nityānityapadārthavivekātpuruṣasya jāyate sadyaḥ । srakcandanavanitādau sarvatrānityavastuni viraktiḥ ॥ 23 ॥
  495. नित्यानित्यविवेकश्च देहक्षणिकतामतिः । मृत्योर्भीतिश्च तापश्च मुमुक्षावृद्धिकारणम् ॥ २४८ ॥ nityānityavivekaśca dehakṣaṇikatāmatiḥ । mṛtyorbhītiśca tāpaśca mumukṣāvṛddhikāraṇam ॥ 248 ॥
  496. नित्याहितेन वित्तेन भयचिन्तानपायिना । चित्तस्वास्थ्यं कुतो जन्तो - र्गृहस्थेनाहिना यथा ॥ ८१ ॥ nityāhitena vittena bhayacintānapāyinā । cittasvāsthyaṁ kuto janto - rgṛhasthenāhinā yathā ॥ 81 ॥
  497. निद्रा यथा पुरुषमप्रमत्तंसमावृणोतीयमपि प्रतीचम् । तथावृणोत्यावृतिशक्तिरन्त - र्विक्षेपशक्तिं परिजृम्भयन्ती ॥ ४९२ ॥ nidrā yathā puruṣamapramattaṁsamāvṛṇotīyamapi pratīcam । tathāvṛṇotyāvṛtiśaktiranta - rvikṣepaśaktiṁ parijṛmbhayantī ॥ 492 ॥
  498. निद्रागाढतमोवृतः किल जनः स्वप्ने भुजङ्गादिनाग्रस्तं स्वं समवेक्ष्य यत्प्रलपति त्रासाद्धतोऽस्मीत्यलम् । आप्तेन प्रतिबोधितः करतलेनाताड्य पृष्टः स्वयंकिञ्चिन्नेति वदत्यमुष्य वचनं स्यात्तत्किमर्थं वद ॥ २६७ ॥ nidrāgāḍhatamovṛtaḥ kila janaḥ svapne bhujaṅgādināgrastaṁ svaṁ samavekṣya yatpralapati trāsāddhato'smītyalam । āptena pratibodhitaḥ karatalenātāḍya pṛṣṭaḥ svayaṁkiñcinneti vadatyamuṣya vacanaṁ syāttatkimarthaṁ vada ॥ 267 ॥
  499. निद्रासूतशरीरधर्मसुखदुःखादिप्रपञ्चोऽपि वाजीवेशादिभिदापि वा न च ऋतं कर्तुं क्वचिच्छक्यते । मायाकल्पितदेशकालजगदीशादिभ्रमस्तादृशःको भेदोऽस्त्यनयोर्द्वयोस्तु कतमः सत्योऽन्यतः को भवेत् ॥ ७६४ ॥ nidrāsūtaśarīradharmasukhaduḥkhādiprapañco'pi vājīveśādibhidāpi vā na ca ṛtaṁ kartuṁ kvacicchakyate । māyākalpitadeśakālajagadīśādibhramastādṛśaḥko bhedo'styanayordvayostu katamaḥ satyo'nyataḥ ko bhavet ॥ 764 ॥
  500. निमित्तमप्युपादानं स्वयमेव भवन्प्रभुः । चराचरात्मकं विश्वं सृजत्यवति लुम्पति ॥ ३३२ ॥ nimittamapyupādānaṁ svayameva bhavanprabhuḥ । carācarātmakaṁ viśvaṁ sṛjatyavati lumpati ॥ 332 ॥
  501. निमेषोन्मेषयोर्वापि तथैव ज्ञानकर्मणोः । प्रतीचीं पश्यतः पुंसां कुतः प्राचीविलोकनम् । प्रत्यक्प्रवणचित्तस्य कुतः कर्मणि योग्यता ॥ ८५६ ॥ nimeṣonmeṣayorvāpi tathaiva jñānakarmaṇoḥ । pratīcīṁ paśyataḥ puṁsāṁ kutaḥ prācīvilokanam । pratyakpravaṇacittasya kutaḥ karmaṇi yogyatā ॥ 856 ॥
  502. नियमो हि परानन्दो नियमात्क्रियते बुधैः । सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् ॥ ९१३ ॥ niyamo hi parānando niyamātkriyate budhaiḥ । sukhenaiva bhavedyasminnajasraṁ brahmacintanam ॥ 913 ॥
  503. निरुपाधिभ्रमेष्वस्मिन्नैवापेक्षा प्रदृश्यते । सोपाधिष्वेव तद्दृष्टं रज्जुसर्पभ्रमादिषु ॥ ४८० ॥ nirupādhibhrameṣvasminnaivāpekṣā pradṛśyate । sopādhiṣveva taddṛṣṭaṁ rajjusarpabhramādiṣu ॥ 480 ॥
  504. निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते । निषेधनं प्रपञ्चस्य रेचकाख्यः समीरणः ॥ ९१५ ॥ nirodhaḥ sarvavṛttīnāṁ prāṇāyāmaḥ sa ucyate । niṣedhanaṁ prapañcasya recakākhyaḥ samīraṇaḥ ॥ 915 ॥
  505. निर्गुणस्य गुणाधानमपि नैवोपपद्यते । केवलो निर्गुणश्चेति नैर्गुण्यं श्रूयते यतः ॥ १६० ॥ nirguṇasya guṇādhānamapi naivopapadyate । kevalo nirguṇaśceti nairguṇyaṁ śrūyate yataḥ ॥ 160 ॥
  506. निर्णीतमतजातानि खण्डितान्येव पण्डितैः । श्रुतिभिश्चाप्यनुभवैर्बाधकैः प्रतिवादिनाम् ॥ ५७८ ॥ nirṇītamatajātāni khaṇḍitānyeva paṇḍitaiḥ । śrutibhiścāpyanubhavairbādhakaiḥ prativādinām ॥ 578 ॥
  507. निर्ममत्वं स्मृतं येन कैवल्यं लभते बुधः । गुरुवेदान्तवचनैर्निश्चितार्थे दृढस्थितिः ॥ ११९ ॥ nirmamatvaṁ smṛtaṁ yena kaivalyaṁ labhate budhaḥ । guruvedāntavacanairniścitārthe dṛḍhasthitiḥ ॥ 119 ॥
  508. निर्विकल्पं परं ब्रह्म यत्तस्मिन्नेव निष्ठिताः । एते धन्या एव मुक्ता जीवन्तोऽपि बहिर्दृशाम् ॥ ८७७ ॥ nirvikalpaṁ paraṁ brahma yattasminneva niṣṭhitāḥ । ete dhanyā eva muktā jīvanto'pi bahirdṛśām ॥ 877 ॥
  509. निर्विकल्पकसमाधिनिष्ठयातिष्ठतो भवति नित्यता ध्रुवम् । उद्भवाद्यपगतिर्निरर्गलानित्यनिश्चलनिरस्तनिर्वृतिः ॥ ८७५ ॥ nirvikalpakasamādhiniṣṭhayātiṣṭhato bhavati nityatā dhruvam । udbhavādyapagatirnirargalānityaniścalanirastanirvṛtiḥ ॥ 875 ॥
  510. निर्विकल्पसमाधिर्यो वृत्तिर्नैश्चल्यलक्षणा । तमेव योग इत्याहुर्योगशास्त्रार्थकोविदाः ॥ ९०९ ॥ nirvikalpasamādhiryo vṛttirnaiścalyalakṣaṇā । tameva yoga ityāhuryogaśāstrārthakovidāḥ ॥ 909 ॥
  511. निर्विकारं निराकारं निरञ्जनमनामयम् । आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥ ८९३ ॥ nirvikāraṁ nirākāraṁ nirañjanamanāmayam । ādyantarahitaṁ pūrṇaṁ brahmaivāhaṁ na saṁśayaḥ ॥ 893 ॥
  512. निर्विशेषं निराभासं नित्यमुक्तमविक्रियम् । प्रज्ञानैकरसं सत्यं ब्रह्मैवास्मीति भावयेत् ॥ ८९५ ॥ nirviśeṣaṁ nirābhāsaṁ nityamuktamavikriyam । prajñānaikarasaṁ satyaṁ brahmaivāsmīti bhāvayet ॥ 895 ॥
  513. निर्विशेषं निराभासमतादृशमनीदृशम् । अनिर्देश्यमनाद्यन्तमनन्तं शान्तमच्युतम् । अप्रतर्क्यमविज्ञेयं निर्गुणं ब्रह्म शिष्यते ॥ ७६१ ॥ nirviśeṣaṁ nirābhāsamatādṛśamanīdṛśam । anirdeśyamanādyantamanantaṁ śāntamacyutam । apratarkyamavijñeyaṁ nirguṇaṁ brahma śiṣyate ॥ 761 ॥
  514. निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । इत्येव वस्तुनस्तत्त्वं श्रुतियुक्तिव्यवस्थितम् ॥ १६२ ॥ niṣkalaṁ niṣkriyaṁ śāntaṁ niravadyaṁ nirañjanam । ityeva vastunastattvaṁ śrutiyuktivyavasthitam ॥ 162 ॥
  515. निष्कलङ्कं निरातङ्कं त्रिविधच्छेदवर्जितम् । आनन्दमक्षरं मुक्तं ब्रह्मैवास्मीति भावयेत् ॥ ८९४ ॥ niṣkalaṅkaṁ nirātaṅkaṁ trividhacchedavarjitam । ānandamakṣaraṁ muktaṁ brahmaivāsmīti bhāvayet ॥ 894 ॥
  516. निष्टप्तमग्निना पात्रमुद्वास्य त्वरया यथा । जहाति गेहं तद्वच्च तीव्रमोक्षेच्छया द्विजः ॥ २३५ ॥ niṣṭaptamagninā pātramudvāsya tvarayā yathā । jahāti gehaṁ tadvacca tīvramokṣecchayā dvijaḥ ॥ 235 ॥
  517. नृजन्म जन्तोरतिदुर्लभं विदु - स्ततोऽपि पुंस्त्वं च ततो विवेकः । लब्ध्वा तदेतत्त्रितयं महात्मायतेत मुक्त्यै सहसा विरक्तः ॥ २३८ ॥ nṛjanma jantoratidurlabhaṁ vidu - stato'pi puṁstvaṁ ca tato vivekaḥ । labdhvā tadetattritayaṁ mahātmāyateta muktyai sahasā viraktaḥ ॥ 238 ॥
  518. नेति नेतीत्यरूपत्वादशरीरो भवत्ययम् । विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयम् ॥ ९९० ॥ neti netītyarūpatvādaśarīro bhavatyayam । viśvaśca taijasaścaiva prājñaśceti ca te trayam ॥ 990 ॥
  519. नेष्यते तत्प्रकारं ते वक्ष्यामि शृणु सादरम् । अहेर्गुणविवर्तस्य गुणमात्रस्य वस्तुतः ॥ ६७९ ॥ neṣyate tatprakāraṁ te vakṣyāmi śṛṇu sādaram । aherguṇavivartasya guṇamātrasya vastutaḥ ॥ 679 ॥
  520. नैकधीविषयत्वेन लिङ्गं व्यष्टिर्भवत्यथ । यदेतद्व्यष्ट्युपहितं चिदाभाससमन्वितम् ॥ ३९० ॥ naikadhīviṣayatvena liṅgaṁ vyaṣṭirbhavatyatha । yadetadvyaṣṭyupahitaṁ cidābhāsasamanvitam ॥ 390 ॥
  521. नैतदन्यतरं ब्रह्म कदा भवितुमर्हति । स्वतःसिद्धं सर्वदाप्तं शुद्धं निर्मलमक्रियम् ॥ १५५ ॥ naitadanyataraṁ brahma kadā bhavitumarhati । svataḥsiddhaṁ sarvadāptaṁ śuddhaṁ nirmalamakriyam ॥ 155 ॥
  522. नैतस्मात्कर्मणः कार्यमन्यदस्ति विलक्षणम् । अज्ञानकार्यं तत्कर्म यतोऽज्ञानेन वर्धते ॥ ५१२ ॥ naitasmātkarmaṇaḥ kāryamanyadasti vilakṣaṇam । ajñānakāryaṁ tatkarma yato'jñānena vardhate ॥ 512 ॥
  523. नैव प्रत्यग्जायते वर्धते नोकिञ्चिन्नापक्षीयते नैव नाशम् । आत्मा नित्यः शाश्वतोऽयं पुराणोनासौ हन्यो हन्यमाने शरीरे ॥ ४५९ ॥ naiva pratyagjāyate vardhate nokiñcinnāpakṣīyate naiva nāśam । ātmā nityaḥ śāśvato'yaṁ purāṇonāsau hanyo hanyamāne śarīre ॥ 459 ॥
  524. नैवान्यसाधनापेक्षा शुश्रूषोस्तु गुरुं विना । उपर्युपर्यहङ्कारो वर्धते कर्मणा भृशम् ॥ १८१ ॥ naivānyasādhanāpekṣā śuśrūṣostu guruṁ vinā । uparyuparyahaṅkāro vardhate karmaṇā bhṛśam ॥ 181 ॥
  525. नैवास्ति काचन भिदा न गुणप्रतीति - र्नो वाक्प्रवृत्तिरपि वा न मनःप्रवृत्तिः । यत्केवलं परमशान्तमनन्तमाद्य - मानन्दमात्रमवभाति सदद्वितीयम् ॥ ७७१ ॥ naivāsti kācana bhidā na guṇapratīti - rno vākpravṛttirapi vā na manaḥpravṛttiḥ । yatkevalaṁ paramaśāntamanantamādya - mānandamātramavabhāti sadadvitīyam ॥ 771 ॥
  526. नोदेति नास्तमायाति सुखदुःखे मनः प्रभा । यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते ॥ ९६८ ॥ nodeti nāstamāyāti sukhaduḥkhe manaḥ prabhā । yathāprāptasthitiryasya sa jīvanmukta ucyate ॥ 968 ॥
  527. पञ्चानामेव भूतानां रजोंशेभ्योऽभवन् क्रमात् । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्यनु ॥ ३७५ ॥ pañcānāmeva bhūtānāṁ rajoṁśebhyo'bhavan kramāt । vākpāṇipādapāyūpasthāni karmendriyāṇyanu ॥ 375 ॥
  528. पञ्चीकृतेभ्यः खादिभ्यो भूतेभ्यस्त्वीक्षयेशितुः । समुत्पन्नमिदं स्थूलं ब्रह्माण्डं सचराचरम् ॥ ४३१ ॥ pañcīkṛtebhyaḥ khādibhyo bhūtebhyastvīkṣayeśituḥ । samutpannamidaṁ sthūlaṁ brahmāṇḍaṁ sacarācaram ॥ 431 ॥
  529. पदान्तरेण सिद्धायां पदार्थप्रमितौ स्वतः । तदर्थप्रत्ययापेक्षा पुनर्लक्षणया कुतः ॥ ७५१ ॥ padāntareṇa siddhāyāṁ padārthapramitau svataḥ । tadarthapratyayāpekṣā punarlakṣaṇayā kutaḥ ॥ 751 ॥
  530. परत्र पूर्वदृष्टस्यावभासः स्मृतिलक्षणः । अध्यासः स कथं स्वामिन् भवेदात्मन्यगोचरे ॥ ५६८ ॥ paratra pūrvadṛṣṭasyāvabhāsaḥ smṛtilakṣaṇaḥ । adhyāsaḥ sa kathaṁ svāmin bhavedātmanyagocare ॥ 568 ॥
  531. परद्रव्यपरद्रोहपरनिन्दापरस्त्रियः । नालम्बते मनो यस्य तस्य चित्तं प्रसीदति ॥ ३६५ ॥ paradravyaparadrohaparanindāparastriyaḥ । nālambate mano yasya tasya cittaṁ prasīdati ॥ 365 ॥
  532. परप्रयुक्तेन चिरप्रयत्नेनावबोधनम् । पदार्थाभावना नाम षष्ठी भवति भूमिका ॥ ९४७ ॥ paraprayuktena ciraprayatnenāvabodhanam । padārthābhāvanā nāma ṣaṣṭhī bhavati bhūmikā ॥ 947 ॥
  533. परब्रह्मवदाभाति निर्विकारैकरूपिणी । सर्वावस्थासु धारैका तुर्याख्या परिकीर्तिता ॥ ९५८ ॥ parabrahmavadābhāti nirvikāraikarūpiṇī । sarvāvasthāsu dhāraikā turyākhyā parikīrtitā ॥ 958 ॥
  534. परस्परविरुद्धत्वात्तयोर्भिन्नस्वभावयोः । कर्तृत्वभावनापूर्वं कर्म ज्ञानं विलक्षणम् ॥ ८५३ ॥ parasparaviruddhatvāttayorbhinnasvabhāvayoḥ । kartṛtvabhāvanāpūrvaṁ karma jñānaṁ vilakṣaṇam ॥ 853 ॥
  535. परित्यज्य विरुद्धांशं शुद्धचैतन्यलक्षणम् । वस्तु केवलसन्मात्रं निर्विकल्पं निरञ्जनम् ॥ ७५९ ॥ parityajya viruddhāṁśaṁ śuddhacaitanyalakṣaṇam । vastu kevalasanmātraṁ nirvikalpaṁ nirañjanam ॥ 759 ॥
  536. परिपूर्णचिदाकाशे मयि बोधात्मतां विना । न किञ्चिदन्यदस्तीति जाग्रत्सुप्तिः समीर्यते ॥ ९५१ ॥ paripūrṇacidākāśe mayi bodhātmatāṁ vinā । na kiñcidanyadastīti jāgratsuptiḥ samīryate ॥ 951 ॥
  537. परिश्रान्ततया गाढनिद्रालुरिव लक्ष्यते । कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः ॥ ९६३ ॥ pariśrāntatayā gāḍhanidrāluriva lakṣyate । kurvannabhyāsametasyāṁ bhūmyāṁ samyagvivāsanaḥ ॥ 963 ॥
  538. परे ब्रह्मणि तात्पर्यनिश्चयं श्रवणं विदुः । श्रुतस्यैवाद्वितीयस्य वस्तुनः प्रत्यगात्मनः ॥ ८१२ ॥ pare brahmaṇi tātparyaniścayaṁ śravaṇaṁ viduḥ । śrutasyaivādvitīyasya vastunaḥ pratyagātmanaḥ ॥ 812 ॥
  539. परोक्षत्वापरोक्षत्वसर्वज्ञत्वादिलक्षणम् । बुद्ध्यादिस्थूलपर्यन्तमाविद्यकमनात्मकम् ॥ ७५८ ॥ parokṣatvāparokṣatvasarvajñatvādilakṣaṇam । buddhyādisthūlaparyantamāvidyakamanātmakam ॥ 758 ॥
  540. परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः । एकत्वरूपवाक्यार्थविरुद्धांशमुपस्थितम् ॥ ७५७ ॥ parokṣatvāparokṣatvādiviśiṣṭacitordvayoḥ । ekatvarūpavākyārthaviruddhāṁśamupasthitam ॥ 757 ॥
  541. पश्यतस्त्वहमेवेदं सर्वमित्यात्मनाखिलम् । भयं स्याद्विदुषः कस्मात्स्वस्मान्न भयमिष्यते ॥ ७८३ ॥ paśyatastvahamevedaṁ sarvamityātmanākhilam । bhayaṁ syādviduṣaḥ kasmātsvasmānna bhayamiṣyate ॥ 783 ॥
  542. पश्यन्ति स्वप्नवल्लोकं तुर्यभूमिसुयोगतः । पञ्चमीं भूमिमारुह्य सुषुप्तिपदनामिकाम् ॥ ९६१ ॥ paśyanti svapnavallokaṁ turyabhūmisuyogataḥ । pañcamīṁ bhūmimāruhya suṣuptipadanāmikām ॥ 961 ॥
  543. पायोर्मृत्युरुपस्थस्य त्वधिदैवं प्रजापतिः । मनसो दैवतं चन्द्रो बुद्धेर्दैवं बृहस्पतिः ॥ ४१८ ॥ pāyormṛtyurupasthasya tvadhidaivaṁ prajāpatiḥ । manaso daivataṁ candro buddherdaivaṁ bṛhaspatiḥ ॥ 418 ॥
  544. पित्तज्वरार्शःक्षयगुल्मशूल - श्लेष्मादिरोगोदिततीव्रदुःखम् । दुर्गन्धमस्वास्थ्यमनूनचिन्तां विचार्य को वा विरतिं न याति ॥ ३२ ॥ pittajvarārśaḥkṣayagulmaśūla - śleṣmādirogoditatīvraduḥkham । durgandhamasvāsthyamanūnacintāṁ vicārya ko vā viratiṁ na yāti ॥ 32 ॥
  545. पुंसः प्रधानसिद्ध्यर्थमङ्गस्याश्रयणं ध्रुवम् । कर्तव्यमङ्गहीनं चेत्प्रधानं नैव सिध्यति ॥ २०७ ॥ puṁsaḥ pradhānasiddhyarthamaṅgasyāśrayaṇaṁ dhruvam । kartavyamaṅgahīnaṁ cetpradhānaṁ naiva sidhyati ॥ 207 ॥
  546. पुंसस्तथानाचरणमदम्भित्वं विदुर्बुधाः । यत्स्वेन दृष्टं सम्यक्च श्रुतं तस्यैव भाषणम् ॥ ११७ ॥ puṁsastathānācaraṇamadambhitvaṁ vidurbudhāḥ । yatsvena dṛṣṭaṁ samyakca śrutaṁ tasyaiva bhāṣaṇam ॥ 117 ॥
  547. पुण्यक्षये पुण्यकृतो नभःस्थै - र्निपात्यमानान्शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्ता - न्विचार्य को वा विरतिं न याति ॥ ३५ ॥ puṇyakṣaye puṇyakṛto nabhaḥsthai - rnipātyamānānśithilīkṛtāṅgān । nakṣatrarūpeṇa divaścyutāṁstā - nvicārya ko vā viratiṁ na yāti ॥ 35 ॥
  548. पुत्रमित्रकलत्रादिसुखं जन्मनि जन्मनि । मर्त्यत्वं पुरुषत्वं च विवेकश्च न लभ्यते ॥ २३९ ॥ putramitrakalatrādisukhaṁ janmani janmani । martyatvaṁ puruṣatvaṁ ca vivekaśca na labhyate ॥ 239 ॥
  549. पुत्राद्विशिष्टा देहेऽस्मिन्प्राणिनां प्रीतिरिष्यते । प्रदीप्ते भवने पुत्रं त्यक्त्वा जन्तुः पलायते ॥ ५२८ ॥ putrādviśiṣṭā dehe'sminprāṇināṁ prītiriṣyate । pradīpte bhavane putraṁ tyaktvā jantuḥ palāyate ॥ 528 ॥
  550. पुमानजातनिर्वेदो देहबन्धं जिहासितुम् । न हि शक्नोति निर्वेदो बन्धभेदो महानसौ ॥ ९२ ॥ pumānajātanirvedo dehabandhaṁ jihāsitum । na hi śaknoti nirvedo bandhabhedo mahānasau ॥ 92 ॥
  551. पुरस्थ एव विषये वस्तुन्यध्यस्यतामिति । नियमो न कृतः सद्भिर्भ्रान्तिरेवात्र कारणम् ॥ ४७७ ॥ purastha eva viṣaye vastunyadhyasyatāmiti । niyamo na kṛtaḥ sadbhirbhrāntirevātra kāraṇam ॥ 477 ॥
  552. पुरानुभूतो नो चेत्तु स्मृतेरनुदयो भवेत् । इत्यादितर्कयुक्तिश्च सद्भावे मानमात्मनः ॥ ६०६ ॥ purānubhūto no cettu smṛteranudayo bhavet । ityāditarkayuktiśca sadbhāve mānamātmanaḥ ॥ 606 ॥
  553. पुरुषत्वं वदत्यस्य स्वात्मा हि पुरुषस्ततः । आत्मायं देह एवेति चार्वाकेण विनिश्चितम् ॥ ५३५ ॥ puruṣatvaṁ vadatyasya svātmā hi puruṣastataḥ । ātmāyaṁ deha eveti cārvākeṇa viniścitam ॥ 535 ॥
  554. पुरो दृष्टे हि विषयेऽध्यस्यन्ति विषयान्तरम् । तद्दृष्टं शुक्तिरज्ज्वादौ सादृश्याद्यनुबन्धतः ॥ ४६७ ॥ puro dṛṣṭe hi viṣaye'dhyasyanti viṣayāntaram । taddṛṣṭaṁ śuktirajjvādau sādṛśyādyanubandhataḥ ॥ 467 ॥
  555. पूर्ण एव सदाकाशो घटे सत्यप्यसत्यपि । नित्यपूर्णस्य नभसो विच्छेदः केन सिध्यति ॥ ६९५ ॥ pūrṇa eva sadākāśo ghaṭe satyapyasatyapi । nityapūrṇasya nabhaso vicchedaḥ kena sidhyati ॥ 695 ॥
  556. प्रकाशकत्वादेतेषां सात्त्विकांशत्वमिष्यते । प्रकाशकत्वं सत्त्वस्य स्वच्छत्वेन यतस्ततः ॥ ३४३ ॥ prakāśakatvādeteṣāṁ sāttvikāṁśatvamiṣyate । prakāśakatvaṁ sattvasya svacchatvena yatastataḥ ॥ 343 ॥
  557. प्रचण्डातपमध्यस्थदीपवन्नष्टदीधितिः । तत्तेजसाभिभूतं सल्लीनोपाधितया ततः ॥ ८०३ ॥ pracaṇḍātapamadhyasthadīpavannaṣṭadīdhitiḥ । tattejasābhibhūtaṁ sallīnopādhitayā tataḥ ॥ 803 ॥
  558. प्रतिपदमहमादयो विभिन्नाःक्षणपरिणामितया विकारिणस्ते । न परिणतिरमुष्य निष्कलत्वा - दयमविकार्यत एव नित्य आत्मा ॥ ६१५ ॥ pratipadamahamādayo vibhinnāḥkṣaṇapariṇāmitayā vikāriṇaste । na pariṇatiramuṣya niṣkalatvā - dayamavikāryata eva nitya ātmā ॥ 615 ॥
  559. प्रत्यक्प्रत्ययसन्तानप्रवाहकरणं धियः । यदेषा मध्यमा शान्तिः शुद्धसत्त्वैकलक्षणा ॥ ९८ ॥ pratyakpratyayasantānapravāhakaraṇaṁ dhiyaḥ । yadeṣā madhyamā śāntiḥ śuddhasattvaikalakṣaṇā ॥ 98 ॥
  560. प्रत्यक्षः सर्वजन्तूनां देहोऽहमिति निश्चयः । एष पुरुषोऽन्नरसमय इत्यपि च श्रुतिः ॥ ५३४ ॥ pratyakṣaḥ sarvajantūnāṁ deho'hamiti niścayaḥ । eṣa puruṣo'nnarasamaya ityapi ca śrutiḥ ॥ 534 ॥
  561. प्रत्यक्षादिविरोधः स्यादित्यैक्ये तयोः परित्यक्ते । श्रुतिवचनविरोधो भवति महान्स्मृतिवचनविरोधश्च ॥ ७२५ ॥ pratyakṣādivirodhaḥ syādityaikye tayoḥ parityakte । śrutivacanavirodho bhavati mahānsmṛtivacanavirodhaśca ॥ 725 ॥
  562. प्रत्यक्षेणानुभूतार्थः कथं मिथ्यात्वमर्हति । चक्षुषो विषयं कुम्भं कथं मिथ्या करोम्यहम् ॥ २७२ ॥ pratyakṣeṇānubhūtārthaḥ kathaṁ mithyātvamarhati । cakṣuṣo viṣayaṁ kumbhaṁ kathaṁ mithyā karomyaham ॥ 272 ॥
  563. प्रत्यगभिन्नमखण्डं सत्यज्ञानादिलक्षणं शुद्धम् । श्रुत्यवगम्यं तथ्यं ब्रह्मैवाहं परं ज्योतिः ॥ ८७० ॥ pratyagabhinnamakhaṇḍaṁ satyajñānādilakṣaṇaṁ śuddham । śrutyavagamyaṁ tathyaṁ brahmaivāhaṁ paraṁ jyotiḥ ॥ 870 ॥
  564. प्रत्यग्ब्रह्मविचारपूर्वमुभयोरेकत्वबोधाद्विनाकैवल्यं पुरुषस्य सिध्यति परब्रह्मात्मतालक्षणम् । न स्नानैरपि कीर्तनैरपि जपैर्नो कृच्छ्रचान्द्रायणै - र्नो वाप्यध्वरयज्ञदाननिगमैर्नो मन्त्रतन्त्रैरपि ॥ १६९ ॥ pratyagbrahmavicārapūrvamubhayorekatvabodhādvinākaivalyaṁ puruṣasya sidhyati parabrahmātmatālakṣaṇam । na snānairapi kīrtanairapi japairno kṛcchracāndrāyaṇai - rno vāpyadhvarayajñadānanigamairno mantratantrairapi ॥ 169 ॥
  565. प्रत्यभिज्ञायते सर्वैरेष सुप्तोत्थितैर्जनैः । सुखमात्रतया नात्र संशयं कर्तुमर्हसि ॥ ६६१ ॥ pratyabhijñāyate sarvaireṣa suptotthitairjanaiḥ । sukhamātratayā nātra saṁśayaṁ kartumarhasi ॥ 661 ॥
  566. प्रत्यभिज्ञायमानत्वाल्लिङ्गमात्रानुमापकम् । स्मर्यमाणस्य सद्भावः सुखमस्वाप्समित्ययम् ॥ ६०५ ॥ pratyabhijñāyamānatvālliṅgamātrānumāpakam । smaryamāṇasya sadbhāvaḥ sukhamasvāpsamityayam ॥ 605 ॥
  567. प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुमुक्षुभिः । यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् ॥ ९१८ ॥ pratyāhāraḥ sa vijñeyo'bhyasanīyo mumukṣubhiḥ । yatra yatra mano yāti brahmaṇastatra darśanāt ॥ 918 ॥
  568. प्रदृश्यते वस्तुनि यत्र दोषो न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः । अन्तर्महारोगवतीं विजान - न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥ pradṛśyate vastuni yatra doṣo na tatra puṁso'sti punaḥ pravṛttiḥ । antarmahārogavatīṁ vijāna - nko nāma veśyāmapi rūpiṇīṁ vrajet ॥ 25 ॥
  569. प्रब्रवीत्युभयात्मत्वमात्मनः स्वयमेव सा । आत्मातश्चिज्जडतनुः खद्योत इव सम्मतः ॥ ५६७ ॥ prabravītyubhayātmatvamātmanaḥ svayameva sā । ātmātaścijjaḍatanuḥ khadyota iva sammataḥ ॥ 567 ॥
  570. प्रभवति न हि कुम्भोऽविद्यमानो मृदश्चे - त्प्रभवतु सिकताया वाथवा वारिणो वा । न हि भवति च ताभ्यां सर्वथा क्वापि तस्मा - द्यत उदयति योऽर्थोऽस्त्यत्र तस्य स्वभावः ॥ ५९१ ॥ prabhavati na hi kumbho'vidyamāno mṛdaśce - tprabhavatu sikatāyā vāthavā vāriṇo vā । na hi bhavati ca tābhyāṁ sarvathā kvāpi tasmā - dyata udayati yo'rtho'styatra tasya svabhāvaḥ ॥ 591 ॥
  571. प्रमाणपूर्वकं धीमान्सगद्गदमुवाच ह । नमो नमस्ते गुरवे नित्यानन्दस्वरूपिणे ॥ ९२६ ॥ pramāṇapūrvakaṁ dhīmānsagadgadamuvāca ha । namo namaste gurave nityānandasvarūpiṇe ॥ 926 ॥
  572. प्रमाणसंशयो यावत्स्वबुद्धेर्न निवर्तते । प्रमेयसंशयो यावत्तावत्तु श्रुतियुक्तिभिः ॥ ८१६ ॥ pramāṇasaṁśayo yāvatsvabuddherna nivartate । prameyasaṁśayo yāvattāvattu śrutiyuktibhiḥ ॥ 816 ॥
  573. प्रमाणासौष्ठववृतं संशयादि न वास्तवम् । श्रुतिप्रमाणसुष्ठुत्वे ज्ञानं भवति वास्तवम् ॥ १९२ ॥ pramāṇāsauṣṭhavavṛtaṁ saṁśayādi na vāstavam । śrutipramāṇasuṣṭhutve jñānaṁ bhavati vāstavam ॥ 192 ॥
  574. प्रयोजनं तितिक्षायाः साधितायाः प्रयत्नतः । प्राप्तदुःखासहिष्णुत्वे न किञ्चिदपि दृश्यते ॥ १५० ॥ prayojanaṁ titikṣāyāḥ sādhitāyāḥ prayatnataḥ । prāptaduḥkhāsahiṣṇutve na kiñcidapi dṛśyate ॥ 150 ॥
  575. प्रयोजनं सम्प्रवृत्तेः कारणं फललक्षणम् । प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ॥ ११ ॥ prayojanaṁ sampravṛtteḥ kāraṇaṁ phalalakṣaṇam । prayojanamanuddiśya na mando'pi pravartate ॥ 11 ॥
  576. प्रवृत्तिश्च निवृत्तिश्च द्वे एते श्रुतिगोचरे । प्रवृत्त्या बध्यते जन्तुर्निवृत्त्या तु विमुच्यते ॥ २०१ ॥ pravṛttiśca nivṛttiśca dve ete śrutigocare । pravṛttyā badhyate janturnivṛttyā tu vimucyate ॥ 201 ॥
  577. प्रवृत्तिश्च निवृत्तिश्च यच्च यावच्च चेष्टितम् । आत्मार्थमेव नान्यार्थं नातः प्रियतमः परः ॥ ६३० ॥ pravṛttiśca nivṛttiśca yacca yāvacca ceṣṭitam । ātmārthameva nānyārthaṁ nātaḥ priyatamaḥ paraḥ ॥ 630 ॥
  578. प्रश्नः समीचीनतरस्तवायंयदात्मतत्त्वावगमे प्रवृत्तिः । ततस्तवैतत्सकलं समूलंनिवेदयिष्यामि मुदा शृणुष्व ॥ २८३ ॥ praśnaḥ samīcīnatarastavāyaṁyadātmatattvāvagame pravṛttiḥ । tatastavaitatsakalaṁ samūlaṁnivedayiṣyāmi mudā śṛṇuṣva ॥ 283 ॥
  579. प्रसन्ने सति चित्तेऽस्य मुक्तिः सिध्यति नान्यथा । मनःप्रसादस्य निदानमेव निरोधनं यत्सकलेन्द्रियाणाम् । बाह्येन्द्रिये साधु निरुध्यमान बाह्यार्थभोगो मनसो वियुज्यते ॥ १३२ ॥ prasanne sati citte'sya muktiḥ sidhyati nānyathā । manaḥprasādasya nidānameva nirodhanaṁ yatsakalendriyāṇām । bāhyendriye sādhu nirudhyamāna bāhyārthabhogo manaso viyujyate ॥ 132 ॥
  580. प्रसिद्धिरात्मनोऽस्त्येव न कस्यापि च दृश्यते । प्रत्ययो नाहमस्मीति न ह्यस्ति प्रत्यगात्मनि ॥ ४७४ ॥ prasiddhirātmano'styeva na kasyāpi ca dṛśyate । pratyayo nāhamasmīti na hyasti pratyagātmani ॥ 474 ॥
  581. प्राच्योदीच्याङ्गसद्भावे शमः सिध्यति नान्यथा । तीव्रा विरक्तिः प्राच्याङ्गमुदीच्याङ्गं दमादयः ॥ १०० ॥ prācyodīcyāṅgasadbhāve śamaḥ sidhyati nānyathā । tīvrā viraktiḥ prācyāṅgamudīcyāṅgaṁ damādayaḥ ॥ 100 ॥
  582. प्राज्ञत्वमस्यैकाज्ञानभासकत्वेन सम्मतम् । व्यष्टेर्निकृष्टत्वेनास्य नानेकाज्ञानभासकम् ॥ ३२२ ॥ prājñatvamasyaikājñānabhāsakatvena sammatam । vyaṣṭernikṛṣṭatvenāsya nānekājñānabhāsakam ॥ 322 ॥
  583. प्राणः प्राग्गमनेन स्यादपानोऽवाग्गमनेन च । व्यानस्तु विष्वग्गमनादुत्क्रान्त्योदान इष्यते ॥ ३७७ ॥ prāṇaḥ prāggamanena syādapāno'vāggamanena ca । vyānastu viṣvaggamanādutkrāntyodāna iṣyate ॥ 377 ॥
  584. प्राणकर्मेन्द्रियैर्देहः प्रेर्यमाणः प्रवर्तते । नानाक्रियासु सर्वत्र विहिताविहितादिषु ॥ ३८४ ॥ prāṇakarmendriyairdehaḥ preryamāṇaḥ pravartate । nānākriyāsu sarvatra vihitāvihitādiṣu ॥ 384 ॥
  585. प्राणायामाद्भवति मनसो निश्चलत्वं प्रसादोयस्याप्यस्य प्रतिनियतदिग्देशकालाद्यवेक्ष्य । सम्यग्दृष्ट्या क्वचिदपि तया नो दमो हन्यते त - त्कुर्याद्धीमान्दममनलसश्चित्तशान्त्यै प्रयत्नात् ॥ १३५ ॥ prāṇāyāmādbhavati manaso niścalatvaṁ prasādoyasyāpyasya pratiniyatadigdeśakālādyavekṣya । samyagdṛṣṭyā kvacidapi tayā no damo hanyate ta - tkuryāddhīmāndamamanalasaścittaśāntyai prayatnāt ॥ 135 ॥
  586. प्रादेशमात्रः परिदृश्यतेऽर्कःशास्त्रेण सन्दर्शितलक्षयोजनः । मानान्तरेण क्वचिदेति बाधांप्रत्यक्षमप्यत्र हि न व्यवस्था ॥ २८८ ॥ prādeśamātraḥ paridṛśyate'rkaḥśāstreṇa sandarśitalakṣayojanaḥ । mānāntareṇa kvacideti bādhāṁpratyakṣamapyatra hi na vyavasthā ॥ 288 ॥
  587. प्राभाकरस्तार्किकश्च तावुभावप्यमर्षया । तन्निश्चयं दुषयतो बुद्धिरात्मा कथं न्विति ॥ ५५८ ॥ prābhākarastārkikaśca tāvubhāvapyamarṣayā । tanniścayaṁ duṣayato buddhirātmā kathaṁ nviti ॥ 558 ॥
  588. प्रियत्वेन मतं यत्तु तत्सदा नाप्रियं नृणाम् । विपत्तावपि सम्पत्तौ यथात्मा न तथापरः ॥ ६२८ ॥ priyatvena mataṁ yattu tatsadā nāpriyaṁ nṛṇām । vipattāvapi sampattau yathātmā na tathāparaḥ ॥ 628 ॥
  589. प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माप्येति सनातनम् ॥ ९९८ ॥ priyeṣu sveṣu sukṛtamapriyeṣu ca duṣkṛtam । visṛjya dhyānayogena brahmāpyeti sanātanam ॥ 998 ॥
  590. प्रीतिमात्रात्कथं पुत्र आत्मा भवितुमर्हति । अन्यत्रापीक्ष्यते प्रीतिः क्षेत्रपात्रधनादिषु ॥ ५२७ ॥ prītimātrātkathaṁ putra ātmā bhavitumarhati । anyatrāpīkṣyate prītiḥ kṣetrapātradhanādiṣu ॥ 527 ॥
  591. बद्धं प्रवृत्तितो विद्धि मुक्तं विद्धि निवृत्तितः । प्रवृत्तिरेव संसारो निवृत्तिर्मुक्तिरिष्यते ॥ ५०० ॥ baddhaṁ pravṛttito viddhi muktaṁ viddhi nivṛttitaḥ । pravṛttireva saṁsāro nivṛttirmuktiriṣyate ॥ 500 ॥
  592. बधिरोऽहं च काणोऽहं मूक इत्यनुभूतितः । इन्द्रियाणि भवन्त्यात्मा येषामस्त्यर्थवेदनम् ॥ ५३९ ॥ badhiro'haṁ ca kāṇo'haṁ mūka ityanubhūtitaḥ । indriyāṇi bhavantyātmā yeṣāmastyarthavedanam ॥ 539 ॥
  593. बन्धमुक्तं ब्रह्मनिष्ठं कृतकृत्यं भजेद्गुरुम् । यस्य प्रसादात्संसारसागरो गोष्पदायते ॥ २५७ ॥ bandhamuktaṁ brahmaniṣṭhaṁ kṛtakṛtyaṁ bhajedgurum । yasya prasādātsaṁsārasāgaro goṣpadāyate ॥ 257 ॥
  594. बन्धश्च मोक्षो मनसैव पुंसा - मर्थोऽप्यनर्थोऽप्यमुनैव सिध्यति । शुद्धेन मोक्षो मलिनेन बन्धोविवेकतोऽर्थोऽप्यविवेकतोऽन्यः ॥ ३५८ ॥ bandhaśca mokṣo manasaiva puṁsā - martho'pyanartho'pyamunaiva sidhyati । śuddhena mokṣo malinena bandhovivekato'rtho'pyavivekato'nyaḥ ॥ 358 ॥
  595. बहिरङ्गं श्रुतिः प्राह ब्रह्मचर्यादिमुक्तये । शमादिषट्कमेवैतदन्तरङ्गं विदुर्बुधाः ॥ २२३ ॥ bahiraṅgaṁ śrutiḥ prāha brahmacaryādimuktaye । śamādiṣaṭkamevaitadantaraṅgaṁ vidurbudhāḥ ॥ 223 ॥
  596. बहिरात्मा ततः स्थूलभोगायतनमुच्यते । इन्द्रियैरुपनीतानां शब्दादीनामयं स्वयम् । देहेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥ ४४७ ॥ bahirātmā tataḥ sthūlabhogāyatanamucyate । indriyairupanītānāṁ śabdādīnāmayaṁ svayam । dehendriyamanoyukto bhoktetyāhurmanīṣiṇaḥ ॥ 447 ॥
  597. बहिर्यात्यन्तरायाति भस्त्रिकावायुवन्मुहुः । न हितं वाहितं वा स्वमन्यद्वा वेद किञ्चन ॥ ५४८ ॥ bahiryātyantarāyāti bhastrikāvāyuvanmuhuḥ । na hitaṁ vāhitaṁ vā svamanyadvā veda kiñcana ॥ 548 ॥
  598. बहुकालं समाधाय स्वस्वरूपे तु मानसम् । उत्थाय परमानन्दाद्गुरुमेत्य पुनर्मुदा ॥ ९२५ ॥ bahukālaṁ samādhāya svasvarūpe tu mānasam । utthāya paramānandādgurumetya punarmudā ॥ 925 ॥
  599. बाधते तद्गताज्ञानं यदावरणलक्षणम् । अखण्डाकारया वृत्त्या त्वज्ञाने बाधिते सति ॥ ७९९ ॥ bādhate tadgatājñānaṁ yadāvaraṇalakṣaṇam । akhaṇḍākārayā vṛttyā tvajñāne bādhite sati ॥ 799 ॥
  600. बालकल्पितनैल्येन व्योम किं मलिनायते । शिष्यः -प्रत्यगात्मन्यविषयेऽनात्माध्यासः कथं प्रभो ॥ ४६६ ॥ bālakalpitanailyena vyoma kiṁ malināyate । śiṣyaḥ -pratyagātmanyaviṣaye'nātmādhyāsaḥ kathaṁ prabho ॥ 466 ॥
  601. बाल्यादिनानावस्थावाञ्शुक्लशोणितसम्भवः । अतः कदापि देहस्य नात्मत्वमुपपद्यते ॥ ५३८ ॥ bālyādinānāvasthāvāñśuklaśoṇitasambhavaḥ । ataḥ kadāpi dehasya nātmatvamupapadyate ॥ 538 ॥
  602. बाह्यमाभ्यन्तरं चेति द्विविधं शौचमुच्यते । मृज्जलाभ्यां कृतं शौचं बाह्यं शारीरकं स्मृतम् ॥ ११४ ॥ bāhyamābhyantaraṁ ceti dvividhaṁ śaucamucyate । mṛjjalābhyāṁ kṛtaṁ śaucaṁ bāhyaṁ śārīrakaṁ smṛtam ॥ 114 ॥
  603. बिम्बभूतपरब्रह्ममात्रं भवति केवलम् । यथापनीते त्वादर्शे प्रतिबिम्बमुखं स्वयम् ॥ ८०४ ॥ bimbabhūtaparabrahmamātraṁ bhavati kevalam । yathāpanīte tvādarśe pratibimbamukhaṁ svayam ॥ 804 ॥
  604. बीजान्यग्निप्रदग्धानि न रोहन्ति यथा पुनः । ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥ ८५० ॥ bījānyagnipradagdhāni na rohanti yathā punaḥ । jñānadagdhaistathā kleśairnātmā sampadyate punaḥ ॥ 850 ॥
  605. बुद्धिकल्पितमालिन्यक्षालनं स्नानमात्मनः । तेनैव शुद्धिरेतस्य न मृदा न जलेन च ॥ ८५८ ॥ buddhikalpitamālinyakṣālanaṁ snānamātmanaḥ । tenaiva śuddhiretasya na mṛdā na jalena ca ॥ 858 ॥
  606. बुद्धिस्तथैव सत्त्वात्मा साभासा भास्वरामला । सांनिध्यादात्मवद्भाति सूर्यवत्स्फटिको यथा ॥ ४८२ ॥ buddhistathaiva sattvātmā sābhāsā bhāsvarāmalā । sāṁnidhyādātmavadbhāti sūryavatsphaṭiko yathā ॥ 482 ॥
  607. बुद्धेः सूक्ष्मत्वमायाति ततो वस्तूपलभ्यते । मन्दप्रज्ञावतां तस्मात्करणीयं पुनः पुनः ॥ ८१० ॥ buddheḥ sūkṣmatvamāyāti tato vastūpalabhyate । mandaprajñāvatāṁ tasmātkaraṇīyaṁ punaḥ punaḥ ॥ 810 ॥
  608. बुद्धेरज्ञानकार्यत्वाद्विनाशित्वात्प्रतिक्षणम् । बुद्ध्यादीनां च सर्वेषामज्ञाने लयदर्शनात् ॥ ५५९ ॥ buddherajñānakāryatvādvināśitvātpratikṣaṇam । buddhyādīnāṁ ca sarveṣāmajñāne layadarśanāt ॥ 559 ॥
  609. बुद्ध्यादि सकलं सुप्तावनुलीनं स्वकारणे । अव्यक्ते वटवद्बीजे तिष्ठत्यविकृतात्मना ॥ ५८६ ॥ buddhyādi sakalaṁ suptāvanulīnaṁ svakāraṇe । avyakte vaṭavadbīje tiṣṭhatyavikṛtātmanā ॥ 586 ॥
  610. बुद्ध्यादिवेद्यविलयादयमेक एवसुप्तौ न पश्यति शृणोति न वेत्ति किञ्चित् । सौषुप्तिकस्य तमसः स्वयमेव साक्षीभूत्वात्र तिष्ठति सुखेन च निर्विकल्पः ॥ ६०३ ॥ buddhyādivedyavilayādayameka evasuptau na paśyati śṛṇoti na vetti kiñcit । sauṣuptikasya tamasaḥ svayameva sākṣībhūtvātra tiṣṭhati sukhena ca nirvikalpaḥ ॥ 603 ॥
  611. ब्रह्मचर्यमहिंसा च दया भूतेष्ववक्रता । विषयेष्वतिवैतृष्ण्यं शौचं दम्भविवर्जनम् ॥ १०५ ॥ brahmacaryamahiṁsā ca dayā bhūteṣvavakratā । viṣayeṣvativaitṛṣṇyaṁ śaucaṁ dambhavivarjanam ॥ 105 ॥
  612. ब्रह्मचर्यमहिंसा च साधूनामप्यगर्हणम् । पराक्षेपादिसहनं तितिक्षोरेव सिध्यति ॥ १४१ ॥ brahmacaryamahiṁsā ca sādhūnāmapyagarhaṇam । parākṣepādisahanaṁ titikṣoreva sidhyati ॥ 141 ॥
  613. ब्रह्मचर्यादिभिर्धर्मैर्बुद्धेर्दोषनिवृत्तये । दण्डनं दम इत्याहुर्दमशब्दार्थकोविदाः ॥ १२८ ॥ brahmacaryādibhirdharmairbuddherdoṣanivṛttaye । daṇḍanaṁ dama ityāhurdamaśabdārthakovidāḥ ॥ 128 ॥
  614. ब्रह्मात्मनोस्तत्त्वमसीत्यद्वयत्वोपपत्तये । प्रत्यक्षादिविरोधेन वाच्ययोर्नोपयुज्यते । तत्त्वम्पदार्थयोरैक्यं लक्ष्ययोरेव सिध्यति ॥ ६९९ ॥ brahmātmanostattvamasītyadvayatvopapattaye । pratyakṣādivirodhena vācyayornopayujyate । tattvampadārthayoraikyaṁ lakṣyayoreva sidhyati ॥ 699 ॥
  615. ब्रह्मात्मैकत्वविज्ञानं सन्तः प्राहुः प्रयोजनम् । येन निःशेषसंसारबन्धात्सद्यः प्रमुच्यते ॥ १० ॥ brahmātmaikatvavijñānaṁ santaḥ prāhuḥ prayojanam । yena niḥśeṣasaṁsārabandhātsadyaḥ pramucyate ॥ 10 ॥
  616. ब्रह्मात्मैकत्वविज्ञानाद्यद्विद्वान्मोक्तुमिच्छति । संसारपाशबन्धं तन्मुमुक्षुत्वं निगद्यते ॥ २२६ ॥ brahmātmaikatvavijñānādyadvidvānmoktumicchati । saṁsārapāśabandhaṁ tanmumukṣutvaṁ nigadyate ॥ 226 ॥
  617. ब्रह्मादिस्थावरान्तेषु वैराग्यं विषयेष्वनु । यथैव काकविष्ठायां वैराग्यं तद्धि निर्मलम् ॥ ११३ ॥ brahmādisthāvarānteṣu vairāgyaṁ viṣayeṣvanu । yathaiva kākaviṣṭhāyāṁ vairāgyaṁ taddhi nirmalam ॥ 113 ॥
  618. ब्रह्मानन्दरसावेशादेकीभूय तदात्मना । वृत्तेर्या निश्चलावस्था स समाधिरकल्पकः ॥ ८९९ ॥ brahmānandarasāveśādekībhūya tadātmanā । vṛtteryā niścalāvasthā sa samādhirakalpakaḥ ॥ 899 ॥
  619. ब्रह्मानन्दरसास्वादतत्परेणैव चेतसा । समाधिनिष्ठितो भूत्वा तिष्ठ विद्वन्सदा मुने ॥ ७९२ ॥ brahmānandarasāsvādatatpareṇaiva cetasā । samādhiniṣṭhito bhūtvā tiṣṭha vidvansadā mune ॥ 792 ॥
  620. ब्रह्मैव नित्यमन्यत्तु ह्यनित्यमिति वेदनम् । सोऽयं नित्यानित्यवस्तुविवेक इति कथ्यते ॥ १६ ॥ brahmaiva nityamanyattu hyanityamiti vedanam । so'yaṁ nityānityavastuviveka iti kathyate ॥ 16 ॥
  621. ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरीरितः । ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः ॥ ९१६ ॥ brahmaivāsmīti yā vṛttiḥ pūrako vāyurīritaḥ । tatastadvṛttinaiścalyaṁ kumbhakaḥ prāṇasaṁyamaḥ ॥ 916 ॥
  622. ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते । चिन्मात्रेणेव यस्तिष्ठेद्विदेहो मुक्त एव सः ॥ ९८३ ॥ brahmaivāhaṁ cidevāhamevaṁ vāpi na cintyate । cinmātreṇeva yastiṣṭhedvideho mukta eva saḥ ॥ 983 ॥
  623. ब्रह्मैवाहमहं ब्रह्म निर्गुणं निर्विकल्पकम् । इत्येवाखण्डया वृत्त्या तिष्ठ ब्रह्मणि निष्क्रिये ॥ ७९० ॥ brahmaivāhamahaṁ brahma nirguṇaṁ nirvikalpakam । ityevākhaṇḍayā vṛttyā tiṣṭha brahmaṇi niṣkriye ॥ 790 ॥
  624. भगवन्करुणासिन्धो भवसिन्धोर्भवांस्तरिः । यमाश्रित्याश्रमेणैव परं पारं गता बुधाः ॥ २५९ ॥ bhagavankaruṇāsindho bhavasindhorbhavāṁstariḥ । yamāśrityāśrameṇaiva paraṁ pāraṁ gatā budhāḥ ॥ 259 ॥
  625. भवाननात्मनो धर्मानात्मन्यारोप्य शोचति । तदज्ञानकृतं सर्वं भयं त्यक्त्वा सुखी भव ॥ २७० ॥ bhavānanātmano dharmānātmanyāropya śocati । tadajñānakṛtaṁ sarvaṁ bhayaṁ tyaktvā sukhī bhava ॥ 270 ॥
  626. भागं विरुद्धं सन्त्यज्याविरोधो लक्ष्यते यदा । सा भागलक्षणेत्याहुर्लक्षणज्ञा विचक्षणाः ॥ ७५३ ॥ bhāgaṁ viruddhaṁ santyajyāvirodho lakṣyate yadā । sā bhāgalakṣaṇetyāhurlakṣaṇajñā vicakṣaṇāḥ ॥ 753 ॥
  627. भागलक्षणया सम्यग्लक्षयत्यनया यथा । तथा तत्त्वमसीत्यत्र वाक्यं वाक्यार्थ एव वा ॥ ७५६ ॥ bhāgalakṣaṇayā samyaglakṣayatyanayā yathā । tathā tattvamasītyatra vākyaṁ vākyārtha eva vā ॥ 756 ॥
  628. भूमिकात्रितयाभ्यासाच्चित्तेऽर्थविरतेर्वशात् । सत्त्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता ॥ ९४४ ॥ bhūmikātritayābhyāsāccitte'rthaviratervaśāt । sattvātmani sthite śuddhe sattvāpattirudāhṛtā ॥ 944 ॥
  629. भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् ॥ ९४६ ॥ bhūmikāpañcakābhyāsātsvātmārāmatayā bhṛśam । ābhyantarāṇāṁ bāhyānāṁ padārthānāmabhāvanāt ॥ 946 ॥
  630. भूम्यंशकतया पायुः कठिनं मलमुत्सृजेत् । श्रोत्रस्य दैवतं दिक्स्यात्त्वचो वायुर्दृशो रविः ॥ ४१६ ॥ bhūmyaṁśakatayā pāyuḥ kaṭhinaṁ malamutsṛjet । śrotrasya daivataṁ diksyāttvaco vāyurdṛśo raviḥ ॥ 416 ॥
  631. भूयो जन्माद्यप्रसक्तिर्विमुक्तिःक्लेशक्षत्यां भाति जन्माद्यभावः । क्लेशक्षत्या हेतुरात्मैकनिष्ठातस्मात्कार्या ह्यात्मनिष्ठा मुमुक्षोः ॥ ८४८ ॥ bhūyo janmādyaprasaktirvimuktiḥkleśakṣatyāṁ bhāti janmādyabhāvaḥ । kleśakṣatyā heturātmaikaniṣṭhātasmātkāryā hyātmaniṣṭhā mumukṣoḥ ॥ 848 ॥
  632. भेदो न विद्यते वस्तुन्यद्वितीये परात्मनि । प्रपञ्चस्यापवादेन विजातीयकृता भिदा ॥ ६७८ ॥ bhedo na vidyate vastunyadvitīye parātmani । prapañcasyāpavādena vijātīyakṛtā bhidā ॥ 678 ॥
  633. भोगकाले भवेन्नॄणां ब्रह्मादिपदभागिनाम् । राजस्थानप्रविष्टानां तारतम्यं मतं यथा ॥ ६५३ ॥ bhogakāle bhavennṝṇāṁ brahmādipadabhāginām । rājasthānapraviṣṭānāṁ tāratamyaṁ mataṁ yathā ॥ 653 ॥
  634. भोगकालेऽपि भोगान्ते दुःखमेव प्रयच्छति । सुखमुच्चावचत्वेन क्षयिष्णुत्वभयेन च ॥ ६५२ ॥ bhogakāle'pi bhogānte duḥkhameva prayacchati । sukhamuccāvacatvena kṣayiṣṇutvabhayena ca ॥ 652 ॥
  635. भोगेन मत्तता जन्तोर्दानेन पुनरुद्भवः । वृथैवोभयथा वित्तं नास्त्येव गतिरन्यथा ॥ ७५ ॥ bhogena mattatā jantordānena punarudbhavaḥ । vṛthaivobhayathā vittaṁ nāstyeva gatiranyathā ॥ 75 ॥
  636. भोग्ये नरः कामजयेच्छुरेतां सुखत्वबुद्धिं विषये निहन्यात् । यावत्सुखत्वभ्रमधीः पदार्थे तावन्न जेतुं प्रभवेद्धि कामम् ॥ ६६ ॥ bhogye naraḥ kāmajayecchuretāṁ sukhatvabuddhiṁ viṣaye nihanyāt । yāvatsukhatvabhramadhīḥ padārthe tāvanna jetuṁ prabhaveddhi kāmam ॥ 66 ॥
  637. भ्रान्त्या ब्रह्मणि भेदोऽयं सजातीयादिलक्षणः । कालत्रयेऽपि हे विद्वन् वस्तुतो नैव कश्चन ॥ ७६८ ॥ bhrāntyā brahmaṇi bhedo'yaṁ sajātīyādilakṣaṇaḥ । kālatraye'pi he vidvan vastuto naiva kaścana ॥ 768 ॥
  638. भ्रान्त्या मनुष्योऽहमहं द्विजोऽहंतज्ज्ञोऽहमज्ञोऽहमतीव पापी । भ्रष्टोऽस्मि शिष्टोऽस्मि सुखी च दुःखी - त्येवं विमुह्यात्मनि कल्पयन्ति ॥ ४६२ ॥ bhrāntyā manuṣyo'hamahaṁ dvijo'haṁtajjño'hamajño'hamatīva pāpī । bhraṣṭo'smi śiṣṭo'smi sukhī ca duḥkhī - tyevaṁ vimuhyātmani kalpayanti ॥ 462 ॥
  639. भ्रान्त्या यत्र यदध्यासस्तत्कृतेन गुणेन वा । दोषेणाप्यणुमात्रेण स न सम्बध्यते क्वचित् ॥ ४६४ ॥ bhrāntyā yatra yadadhyāsastatkṛtena guṇena vā । doṣeṇāpyaṇumātreṇa sa na sambadhyate kvacit ॥ 464 ॥
  640. भ्रान्त्योदितद्वैतमतिप्रशान्त्यासदैकमेवास्ति सदाद्वितीयम् । ततो विजातीयकृतोऽत्र भेदोन विद्यते ब्रह्मणि निर्विकल्पे ॥ ६९२ ॥ bhrāntyoditadvaitamatipraśāntyāsadaikamevāsti sadādvitīyam । tato vijātīyakṛto'tra bhedona vidyate brahmaṇi nirvikalpe ॥ 692 ॥
  641. मदोद्धतिं मान्यतिरस्कृतिं च कामातुरत्वं समयातिलङ्घनम् । तां तां युवत्योदितदुष्टचेष्टां विचार्य को वा विरतिं न याति ॥ ३० ॥ madoddhatiṁ mānyatiraskṛtiṁ ca kāmāturatvaṁ samayātilaṅghanam । tāṁ tāṁ yuvatyoditaduṣṭaceṣṭāṁ vicārya ko vā viratiṁ na yāti ॥ 30 ॥
  642. मनःप्रसादः पुरुषस्य बन्धोमनःप्रसादो भवबन्धमुक्तिः । मनःप्रसादाधिगमाय तस्मा - न्मनोनिरासं विदधीत विद्वान् ॥ ३७४ ॥ manaḥprasādaḥ puruṣasya bandhomanaḥprasādo bhavabandhamuktiḥ । manaḥprasādādhigamāya tasmā - nmanonirāsaṁ vidadhīta vidvān ॥ 374 ॥
  643. मनःप्रसादसिद्ध्यर्थं साधनं श्रूयतां बुधैः । मनःप्रसादो यत्सत्त्वे यदभावे न सिध्यति ॥ १०४ ॥ manaḥprasādasiddhyarthaṁ sādhanaṁ śrūyatāṁ budhaiḥ । manaḥprasādo yatsattve yadabhāve na sidhyati ॥ 104 ॥
  644. मनसो धारणं चैव धारणा सा परा मता । ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ॥ ९१९ ॥ manaso dhāraṇaṁ caiva dhāraṇā sā parā matā । brahmaivāsmīti sadvṛttyā nirālambatayā sthitiḥ ॥ 919 ॥
  645. मनस्तु सर्वं जानाति सर्ववेदनकारणम् । यत्तस्मान्मन एवात्मा प्राणस्तु न कदाचन ॥ ५५० ॥ manastu sarvaṁ jānāti sarvavedanakāraṇam । yattasmānmana evātmā prāṇastu na kadācana ॥ 550 ॥
  646. मनस्यपि च बुद्धौ च चित्ताहङ्कारयोः क्रमात् । अन्तर्भावोऽत्र बोद्धव्यो लिङ्गलक्षणसिद्धये ॥ ३४६ ॥ manasyapi ca buddhau ca cittāhaṅkārayoḥ kramāt । antarbhāvo'tra boddhavyo liṅgalakṣaṇasiddhaye ॥ 346 ॥
  647. मनो मनोमयः कोशो भवेज्ज्ञानेन्द्रियैः सह । प्राचुर्यं मनसो यत्र दृश्यतेऽसौ मनोमयः ॥ ३५५ ॥ mano manomayaḥ kośo bhavejjñānendriyaiḥ saha । prācuryaṁ manaso yatra dṛśyate'sau manomayaḥ ॥ 355 ॥
  648. मनो ह्यमुष्य प्रवणस्य हेतु - रन्तर्बहिश्चार्थमनेन वेत्ति । शृणोति जिघ्रत्यमुनैव चेक्षतेवक्ति स्पृशत्यत्ति करोति सर्वम् ॥ ३५७ ॥ mano hyamuṣya pravaṇasya hetu - rantarbahiścārthamanena vetti । śṛṇoti jighratyamunaiva cekṣatevakti spṛśatyatti karoti sarvam ॥ 357 ॥
  649. मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा पुनस्तिरोधत्ते ॥ ९२९ ॥ mayi sukhabodhapayodhau mahati brahmāṇḍabudbudasahasram । māyāmayena marutā bhūtvā bhūtvā punastirodhatte ॥ 929 ॥
  650. मर्त्यत्वं त्वयि कल्पितं भ्रमवशात्तेनैव जन्मादयःतत्सम्भावितमेव दुःखमपि ते नो वस्तुतस्तन्मृषा । निद्रामोहवशादुपागतसुखं दुःखं च किं नु त्वयासत्यत्वेन विलोकितं क्वचिदपि ब्रूहि प्रबोधागमे ॥ २८४ ॥ martyatvaṁ tvayi kalpitaṁ bhramavaśāttenaiva janmādayaḥtatsambhāvitameva duḥkhamapi te no vastutastanmṛṣā । nidrāmohavaśādupāgatasukhaṁ duḥkhaṁ ca kiṁ nu tvayāsatyatvena vilokitaṁ kvacidapi brūhi prabodhāgame ॥ 284 ॥
  651. मर्त्यत्वसिद्धेरपि पुंस्त्वसिद्धे - र्विप्रत्वसिद्धेश्च विवेकसिद्धेः । वदन्ति मुख्यं फलमेव मोक्षंव्यर्थं समस्तं यदि चेन्न मोक्षः ॥ २८२ ॥ martyatvasiddherapi puṁstvasiddhe - rvipratvasiddheśca vivekasiddheḥ । vadanti mukhyaṁ phalameva mokṣaṁvyarthaṁ samastaṁ yadi cenna mokṣaḥ ॥ 282 ॥
  652. मर्त्यस्य मम जन्मादिदुःखभाजोऽल्पजीविनः । ब्रह्मत्वमपि नित्यत्वं परमानन्दता कथम् ॥ २७४ ॥ martyasya mama janmādiduḥkhabhājo'lpajīvinaḥ । brahmatvamapi nityatvaṁ paramānandatā katham ॥ 274 ॥
  653. मलिनस्यैव संस्कारो दर्पणादेरिहेष्यते । व्योमवन्नित्यशुद्धस्य ब्रह्मणो नैव संस्क्रिया ॥ १५८ ॥ malinasyaiva saṁskāro darpaṇāderiheṣyate । vyomavannityaśuddhasya brahmaṇo naiva saṁskriyā ॥ 158 ॥
  654. महाप्रपञ्चावच्छिन्नं विश्वप्राज्ञादिलक्षणम् । विराडादीशपर्यन्तं चैतन्यं चैकमेव तत् ॥ ४५३ ॥ mahāprapañcāvacchinnaṁ viśvaprājñādilakṣaṇam । virāḍādīśaparyantaṁ caitanyaṁ caikameva tat ॥ 453 ॥
  655. मात्रादिलक्षणं किं नु शून्यमेवोपलभ्यते । सुषुप्तौ नान्यदस्त्येव नाहमप्यासमित्यनु ॥ ५७२ ॥ mātrādilakṣaṇaṁ kiṁ nu śūnyamevopalabhyate । suṣuptau nānyadastyeva nāhamapyāsamityanu ॥ 572 ॥
  656. मायाकार्यैस्तिरोभूतो नैष आत्मानुभूयते । मेघबृन्दैर्यथा भानुस्तथायमहमादिभिः ॥ ४७६ ॥ māyākāryaistirobhūto naiṣa ātmānubhūyate । meghabṛndairyathā bhānustathāyamahamādibhiḥ ॥ 476 ॥
  657. मायोपहितचैतन्यं साभासं सत्त्वबृंहितम् । सर्वज्ञत्वादिगुणकं सृष्टिस्थित्यन्तकारणम् ॥ ३१० ॥ māyopahitacaitanyaṁ sābhāsaṁ sattvabṛṁhitam । sarvajñatvādiguṇakaṁ sṛṣṭisthityantakāraṇam ॥ 310 ॥
  658. मार्गे प्रयातुर्मणिलाभवन्मेलभेत मोक्षो यदि तर्हि धन्यः । इत्याशया मूढधियां मतिर्यासैषातिमन्दाभिमता मुमुक्षा ॥ २३२ ॥ mārge prayāturmaṇilābhavanmelabheta mokṣo yadi tarhi dhanyaḥ । ityāśayā mūḍhadhiyāṁ matiryāsaiṣātimandābhimatā mumukṣā ॥ 232 ॥
  659. मिथ्यासम्बन्धतस्तत्र ब्रह्मण्याश्रित्य तिष्ठति । मणौ शक्तिर्यथा तद्वन्नैतदाश्रयदूषकम् ॥ ३०३ ॥ mithyāsambandhatastatra brahmaṇyāśritya tiṣṭhati । maṇau śaktiryathā tadvannaitadāśrayadūṣakam ॥ 303 ॥
  660. मुक्तसङ्गाय शान्ताय त्यक्ताहन्ताय ते नमः । दयाधाम्ने नमो भूम्ने महिम्नः पारमस्य ते । नैवास्ति यत्कटाक्षेण ब्रह्मैवाभवमद्वयम् ॥ ९२७ ॥ muktasaṅgāya śāntāya tyaktāhantāya te namaḥ । dayādhāmne namo bhūmne mahimnaḥ pāramasya te । naivāsti yatkaṭākṣeṇa brahmaivābhavamadvayam ॥ 927 ॥
  661. मुक्तस्येश्वररूपत्वाद्गुरोर्वागपि तादृशी । तस्मात्तद्वाक्ययोः श्रद्धा सतां सिध्यति धीमताम् ॥ २१७ ॥ muktasyeśvararūpatvādgurorvāgapi tādṛśī । tasmāttadvākyayoḥ śraddhā satāṁ sidhyati dhīmatām ॥ 217 ॥
  662. मुक्तिश्रीनगरस्य दुर्जयतरं द्वारं यदस्त्यादिमं तस्य द्वे अररे धनं च युवती ताभ्यां पिनद्धं दृढम् । कामाख्यार्गलदारुणा बलवता द्वारं तदेतत्त्रयं धीरो यस्तु भिनत्ति सोऽर्हति सुखं भोक्तुं विमुक्तिश्रियः ॥ ८९ ॥ muktiśrīnagarasya durjayataraṁ dvāraṁ yadastyādimaṁ tasya dve arare dhanaṁ ca yuvatī tābhyāṁ pinaddhaṁ dṛḍham । kāmākhyārgaladāruṇā balavatā dvāraṁ tadetattrayaṁ dhīro yastu bhinatti so'rhati sukhaṁ bhoktuṁ vimuktiśriyaḥ ॥ 89 ॥
  663. मुखमात्रं भवेत्तद्वदेतच्चोपाधिसङ्क्षयात् । घटाज्ञाने यथा वृत्त्या व्याप्तया बाधिते सति ॥ ८०५ ॥ mukhamātraṁ bhavettadvadetaccopādhisaṅkṣayāt । ghaṭājñāne yathā vṛttyā vyāptayā bādhite sati ॥ 805 ॥
  664. मुख्यगौणादिभेदेन विद्यन्तेऽत्राधिकारिणः । तेषां प्रज्ञानुसारेणाखण्डा वृत्तिरुदेष्यते ॥ ७९५ ॥
  665. मुमुक्षुणा परित्याज्यं ब्रह्मभावमभीप्सुना । मुमुक्षोरपि कर्मास्तु श्रवणं चापि साधनम् ॥ १७३ ॥ mumukṣuṇā parityājyaṁ brahmabhāvamabhīpsunā । mumukṣorapi karmāstu śravaṇaṁ cāpi sādhanam ॥ 173 ॥
  666. मुमुक्षोर्यत्नतः कार्यौ विपरीतनिवृत्तये । कृतेऽस्मिन्विपरीताया भावनाया निवर्तनम् ॥ ८२८ ॥ mumukṣoryatnataḥ kāryau viparītanivṛttaye । kṛte'sminviparītāyā bhāvanāyā nivartanam ॥ 828 ॥
  667. मूढा अश्रुतवेदान्ताः स्वयं पण्डितमानिनः । ईशप्रसादरहिताः सद्गुरोश्च बहिर्मुखाः ॥ ५२१ ॥ mūḍhā aśrutavedāntāḥ svayaṁ paṇḍitamāninaḥ । īśaprasādarahitāḥ sadgurośca bahirmukhāḥ ॥ 521 ॥
  668. मूढानां प्रतिबिम्बादौ बालानामिव दृश्यते । सादृश्यं विद्यते बुद्धावात्मनोऽध्यासकारणम् ॥ ४८४ ॥ mūḍhānāṁ pratibimbādau bālānāmiva dṛśyate । sādṛśyaṁ vidyate buddhāvātmano'dhyāsakāraṇam ॥ 484 ॥
  669. मूलाज्ञानविनाशेन कारणाभासचेष्टितैः । बन्धो न मेऽतिस्वल्पोऽपि स्वप्नजाग्रदितीर्यते ॥ ९५२ ॥ mūlājñānavināśena kāraṇābhāsaceṣṭitaiḥ । bandho na me'tisvalpo'pi svapnajāgraditīryate ॥ 952 ॥
  670. मृदादिकारणं नित्यं त्रिषु कालेषु दर्शनात् । घटाद्यनित्यं तत्कार्यं यतस्तन्नाश ईक्ष्यते ॥ १७ ॥ mṛdādikāraṇaṁ nityaṁ triṣu kāleṣu darśanāt । ghaṭādyanityaṁ tatkāryaṁ yatastannāśa īkṣyate ॥ 17 ॥
  671. मोक्षस्य कालोऽस्ति किमद्य मे त्वराभुक्त्वैव भोगान्कृतसर्वकार्यः । मुक्त्यै यतिष्येऽहमथेति बुद्धि - रेषैव मन्दा कथिता मुमुक्षा ॥ २३१ ॥ mokṣasya kālo'sti kimadya me tvarābhuktvaiva bhogānkṛtasarvakāryaḥ । muktyai yatiṣye'hamatheti buddhi - reṣaiva mandā kathitā mumukṣā ॥ 231 ॥
  672. मोक्षस्य साधनमिति वदन्ति ब्रह्मवादिनः । मुमुक्षोर्युज्यते त्यागः कथं विहितकर्मणः ॥ १७६ ॥ mokṣasya sādhanamiti vadanti brahmavādinaḥ । mumukṣoryujyate tyāgaḥ kathaṁ vihitakarmaṇaḥ ॥ 176 ॥
  673. मोक्षाधिकारी संन्यासी गृहस्थः किल कर्मणि । कर्मणः साधनं भार्यास्रुक्स्रुवादिपरिग्रहः ॥ १८० ॥ mokṣādhikārī saṁnyāsī gṛhasthaḥ kila karmaṇi । karmaṇaḥ sādhanaṁ bhāryāsruksruvādiparigrahaḥ ॥ 180 ॥
  674. मोक्षेच्छया यदहरेव विरज्यतेऽसौन्यासस्तदैव विहितो विदुषो मुमुक्षोः । श्रुत्या तयैव परया च ततः सुधीभिःप्रामाणिकोऽयमिति चेतसि निश्चितव्यः ॥ १९९ ॥ mokṣecchayā yadahareva virajyate'saunyāsastadaiva vihito viduṣo mumukṣoḥ । śrutyā tayaiva parayā ca tataḥ sudhībhiḥprāmāṇiko'yamiti cetasi niścitavyaḥ ॥ 199 ॥
  675. य एष देहो जनितः स एवसमेधते नश्यति कर्मयोगात् । त्वमेतदीयास्वखिलास्वववस्था - स्ववस्थितः साक्ष्यसि बोधमात्रः ॥ ७७५ ॥ ya eṣa deho janitaḥ sa evasamedhate naśyati karmayogāt । tvametadīyāsvakhilāsvavavasthā - svavasthitaḥ sākṣyasi bodhamātraḥ ॥ 775 ॥
  676. यं न प्रकाशयति किञ्चिदिनोऽपि चन्द्रःनो विद्युतः किमुत वह्निरयं मिताभः । यं भान्तमेतमनुभाति जगत्समस्तंसोऽयं स्वयं स्फुरति सर्वदशासु चात्मा ॥ ६२२ ॥ yaṁ na prakāśayati kiñcidino'pi candraḥno vidyutaḥ kimuta vahnirayaṁ mitābhaḥ । yaṁ bhāntametamanubhāti jagatsamastaṁso'yaṁ svayaṁ sphurati sarvadaśāsu cātmā ॥ 622 ॥
  677. यः समस्तार्थजालेषु व्यवहार्यपि शीतलः । परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते ॥ ९७२ ॥ yaḥ samastārthajāleṣu vyavahāryapi śītalaḥ । parārtheṣviva pūrṇātmā sa jīvanmukta ucyate ॥ 972 ॥
  678. यः स्वप्नमद्राक्षमहं सुखं यो - ऽस्वाप्सं स एवास्म्यथ जागरूकः । इत्येवमच्छिन्नतयानुभूयतेसत्तात्मनो नास्ति हि संशयोऽत्र ॥ ६१६ ॥ yaḥ svapnamadrākṣamahaṁ sukhaṁ yo - 'svāpsaṁ sa evāsmyatha jāgarūkaḥ । ityevamacchinnatayānubhūyatesattātmano nāsti hi saṁśayo'tra ॥ 616 ॥
  679. यज्जायते वस्तु तदेव वर्धतेतदेव मृत्युं समुपैति काले । जन्मैव तेनास्ति तथैव मृत्यु - र्नास्त्येव नित्यस्य विभोरजस्य ॥ ७७४ ॥ yajjāyate vastu tadeva vardhatetadeva mṛtyuṁ samupaiti kāle । janmaiva tenāsti tathaiva mṛtyu - rnāstyeva nityasya vibhorajasya ॥ 774 ॥
  680. यत एवमतो युक्ता ह्यज्ञानस्यात्मता ध्रुवम् । इति तन्निश्चयं भाट्टा दूषयन्ति स्वयुक्तिभिः ॥ ५६४ ॥ yata evamato yuktā hyajñānasyātmatā dhruvam । iti tanniścayaṁ bhāṭṭā dūṣayanti svayuktibhiḥ ॥ 564 ॥
  681. यतस्ततो ब्रह्म सदाद्वितीयंविकल्पशून्यं निरुपाधि निर्मलम् । निरन्तरानन्दघनं निरीहंनिरास्पदं केवलमेकमेव ॥ ७७० ॥ yatastato brahma sadādvitīyaṁvikalpaśūnyaṁ nirupādhi nirmalam । nirantarānandaghanaṁ nirīhaṁnirāspadaṁ kevalamekameva ॥ 770 ॥
  682. यतस्तस्मात्तु पुत्रादेः शून्यान्तस्य विशेषतः । सुसाधितमनात्मत्वं श्रुतियुक्त्यनुभूतिभिः ॥ ५७९ ॥ yatastasmāttu putrādeḥ śūnyāntasya viśeṣataḥ । susādhitamanātmatvaṁ śrutiyuktyanubhūtibhiḥ ॥ 579 ॥
  683. यतस्तस्मादिन्द्रियाणां युक्तमात्मत्वमित्यमुम् । निश्चयं दूषयत्यन्योऽसहमानः पृथग्जनः ॥ ५४१ ॥ yatastasmādindriyāṇāṁ yuktamātmatvamityamum । niścayaṁ dūṣayatyanyo'sahamānaḥ pṛthagjanaḥ ॥ 541 ॥
  684. यत्कार्यरूपेण यदीक्ष्यते त - त्तन्मात्रमेवात्र विचार्यमाणे । मृत्कार्यभूतं कलशादि सम्य - ग्विचारितं सन्न मृदो विभिद्यते ॥ ६८३ ॥ yatkāryarūpeṇa yadīkṣyate ta - ttanmātramevātra vicāryamāṇe । mṛtkāryabhūtaṁ kalaśādi samya - gvicāritaṁ sanna mṛdo vibhidyate ॥ 683 ॥
  685. यत्ततो बिम्ब आनन्दः प्रतिबिम्बेन लक्ष्यते । युक्त्यैव पण्डितजनैर्न कदाप्यनुभूयते ॥ ६५७ ॥ yattato bimba ānandaḥ pratibimbena lakṣyate । yuktyaiva paṇḍitajanairna kadāpyanubhūyate ॥ 657 ॥
  686. यत्तस्मादसतः सर्वं सदिदं समजायत । ततः सर्वात्मना शून्यस्यैवात्मत्वं समर्हति ॥ ५७६ ॥ yattasmādasataḥ sarvaṁ sadidaṁ samajāyata । tataḥ sarvātmanā śūnyasyaivātmatvaṁ samarhati ॥ 576 ॥
  687. यत्र जाता जरायुभ्यस्ते नराद्या जरायुजाः । अण्डजास्ते स्युरण्डेभ्यो जाता ये विहगादयः ॥ ४३५ ॥ yatra jātā jarāyubhyaste narādyā jarāyujāḥ । aṇḍajāste syuraṇḍebhyo jātā ye vihagādayaḥ ॥ 435 ॥
  688. यत्र नान्यत्पश्यतीति श्रुतिर्द्वैतं निषेधति । कल्पितस्य भ्रमाद्भूम्नि मिथ्यात्वावगमाय तत् ॥ ७६९ ॥ yatra nānyatpaśyatīti śrutirdvaitaṁ niṣedhati । kalpitasya bhramādbhūmni mithyātvāvagamāya tat ॥ 769 ॥
  689. यत्र नासन्न सच्चापि नाहं नाप्यनहङ्कृतिः । केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः ॥ ९६५ ॥ yatra nāsanna saccāpi nāhaṁ nāpyanahaṅkṛtiḥ । kevalaṁ kṣīṇamanana āste'dvaite'tinirbhayaḥ ॥ 965 ॥
  690. यत्र यत्र मृतो ज्ञानी परमाक्षरवित्सदा । परे ब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते ॥ १००० ॥ yatra yatra mṛto jñānī paramākṣaravitsadā । pare brahmaṇi līyeta na tasyotkrāntiriṣyate ॥ 1000 ॥
  691. यत्रात्मनोऽकामयितृत्वबुद्धिःस्वप्नानपेक्षापि च तत्सुषुप्तम् । इत्यात्मसद्भाव उदीर्यतेऽत्रश्रुत्यापि तस्माच्छ्रुतिरत्र मानम् ॥ ६०७ ॥ yatrātmano'kāmayitṛtvabuddhiḥsvapnānapekṣāpi ca tatsuṣuptam । ityātmasadbhāva udīryate'traśrutyāpi tasmācchrutiratra mānam ॥ 607 ॥
  692. यत्रास्ति लोके गतितारतम्यं उच्चावचत्वान्वितमत्र तत्कृतम् । यथेह तद्वत्खलु दुःखमस्ती - त्यालोच्य को वा विरतिं न याति ॥ ३९ ॥ yatrāsti loke gatitāratamyaṁ uccāvacatvānvitamatra tatkṛtam । yatheha tadvatkhalu duḥkhamastī - tyālocya ko vā viratiṁ na yāti ॥ 39 ॥
  693. यत्रोपभुङ्क्ते विषयान्स्थूलानेष महामतिः । अहं ममेति सैषास्यावस्था जाग्रदितीर्यते ॥ ४५० ॥ yatropabhuṅkte viṣayānsthūlāneṣa mahāmatiḥ । ahaṁ mameti saiṣāsyāvasthā jāgraditīryate ॥ 450 ॥
  694. यत्स्वप्रकाशमखिलात्मकमासुषुप्ते - रेकात्मनाहमहमित्यवभाति नित्यम् । बुद्धेः समस्तविकृतेरविकारि बोद्धृयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७६ ॥ yatsvaprakāśamakhilātmakamāsuṣupte - rekātmanāhamahamityavabhāti nityam । buddheḥ samastavikṛteravikāri boddhṛyadbrahma tattvamasi kevalabodhamātram ॥ 776 ॥
  695. यथा कुवलयोल्लासश्चन्द्रस्यैव प्रसादतः । तथानन्दोदयोऽप्येषां स्फुरणादेव वस्तुनः ॥ ६७२ ॥ yathā kuvalayollāsaścandrasyaiva prasādataḥ । tathānandodayo'pyeṣāṁ sphuraṇādeva vastunaḥ ॥ 672 ॥
  696. यथा तथा पुत्रकलत्रमित्र - स्नेहानुबन्धैर्ग्रथितो गृहस्थः । कदापि वा तान्परिमुच्य गेहा - द्गन्तुं न शक्तो म्रियते मुधैव ॥ ४५ ॥ yathā tathā putrakalatramitra - snehānubandhairgrathito gṛhasthaḥ । kadāpi vā tānparimucya gehā - dgantuṁ na śakto mriyate mudhaiva ॥ 45 ॥
  697. यथा तथैव सा वृत्तिर्ब्रह्ममात्रतया स्थिता । पृथङ् न भाति ब्रह्मैवाद्वितीयमवभासते ॥ ८२५ ॥ yathā tathaiva sā vṛttirbrahmamātratayā sthitā । pṛthaṅ na bhāti brahmaivādvitīyamavabhāsate ॥ 825 ॥
  698. यथा प्रसुप्तिप्रतिभासदेहेस्वात्मत्वधीरेष तथा ह्यनात्मनः । जन्माप्ययक्षुद्भयतृट्छ्रमादी - नारोपयत्यात्मनि तस्य धर्मान् ॥ ४९४ ॥ yathā prasuptipratibhāsadehesvātmatvadhīreṣa tathā hyanātmanaḥ । janmāpyayakṣudbhayatṛṭchramādī - nāropayatyātmani tasya dharmān ॥ 494 ॥
  699. यथा वस्तु तथा ज्ञानं प्रमाणेन विजायते । नापेक्षते च यत्किञ्चित्कर्म वा युक्तिकौशलम् ॥ १९० ॥ yathā vastu tathā jñānaṁ pramāṇena vijāyate । nāpekṣate ca yatkiñcitkarma vā yuktikauśalam ॥ 190 ॥
  700. यथा समाधित्रितयं यत्नेन क्रियते हृदि । तथैव बाह्यदेशेऽपि कार्यं द्वैतनिवृत्तये ॥ ८७८ ॥ yathā samādhitritayaṁ yatnena kriyate hṛdi । tathaiva bāhyadeśe'pi kāryaṁ dvaitanivṛttaye ॥ 878 ॥
  701. यथार्थदर्शनं वस्तुन्यनर्थस्यापि चिन्तनम् । सङ्कल्पस्यापि कामस्य तद्वधोपाय इष्यते ॥ ६९ ॥ yathārthadarśanaṁ vastunyanarthasyāpi cintanam । saṅkalpasyāpi kāmasya tadvadhopāya iṣyate ॥ 69 ॥
  702. यथार्थवादिता पुंसां श्रद्धाजननकारणम् । वेदस्येश्वरवाक्यत्वाद्यथार्थत्वे न संशयः ॥ २१६ ॥ yathārthavāditā puṁsāṁ śraddhājananakāraṇam । vedasyeśvaravākyatvādyathārthatve na saṁśayaḥ ॥ 216 ॥
  703. यथालूता निमित्तं च स्वप्रधानतया भवेत् । स्वशरीरप्रधानत्वेनोपादानं तथेश्वरः ॥ ३३४ ॥ yathālūtā nimittaṁ ca svapradhānatayā bhavet । svaśarīrapradhānatvenopādānaṁ tatheśvaraḥ ॥ 334 ॥
  704. यथावद्भेदबुद्ध्येदं जगज्जाग्रदितीर्यते । अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते ॥ ९६० ॥ yathāvadbhedabuddhyedaṁ jagajjāgraditīryate । advaite sthairyamāyāte dvaite ca praśamaṁ gate ॥ 960 ॥
  705. यथास्थितमिदं सर्वं व्यवहारवतोऽपि च । अस्तं गतं स्थितं व्योम स जीवन्मुक्त उच्यते ॥ ९६७ ॥ yathāsthitamidaṁ sarvaṁ vyavahāravato'pi ca । astaṁ gataṁ sthitaṁ vyoma sa jīvanmukta ucyate ॥ 967 ॥
  706. यदनाद्यन्तमव्यक्तं चैतन्यमजमक्षरम् । महाप्रपञ्चेन सहाविविक्तं सदयोऽग्निवत् ॥ ४५४ ॥ yadanādyantamavyaktaṁ caitanyamajamakṣaram । mahāprapañcena sahāviviktaṁ sadayo'gnivat ॥ 454 ॥
  707. यदालम्बोदरं हन्ति सतां प्रत्यूहसम्भवम् । तदालम्बे दयालम्बं लम्बोदरपदाम्बुजम् ॥ ३ ॥ yadālambodaraṁ hanti satāṁ pratyūhasambhavam । tadālambe dayālambaṁ lambodarapadāmbujam ॥ 3 ॥
  708. यदास्त्युपाधिस्तदभिन्न आत्मातदा सजातीय इवावभाति । स्वप्नार्थतस्तस्य मृषात्मकत्वा - त्तदप्रतीतौ स्वयमेष आत्मा । ब्रह्मैक्यतामेति पृथङ् न भातिततः सजातीयकृतो न भेदः ॥ ६९३ ॥ yadāstyupādhistadabhinna ātmātadā sajātīya ivāvabhāti । svapnārthatastasya mṛṣātmakatvā - ttadapratītau svayameṣa ātmā । brahmaikyatāmeti pṛthaṅ na bhātitataḥ sajātīyakṛto na bhedaḥ ॥ 693 ॥
  709. यदिदं परमं सत्यं तत्त्वं सच्चित्सुखात्मकम् । अजरामरणं नित्यं सत्यमेतद्वचो मम ॥ ७७२ ॥ yadidaṁ paramaṁ satyaṁ tattvaṁ saccitsukhātmakam । ajarāmaraṇaṁ nityaṁ satyametadvaco mama ॥ 772 ॥
  710. यद्यत्स्वाभिमतं वस्तु तत्त्यजन्मोक्षमश्नुते । असङ्कल्पेन शस्त्रेण छिन्नं चित्तमिदं यदा ॥ १००१ ॥ yadyatsvābhimataṁ vastu tattyajanmokṣamaśnute । asaṅkalpena śastreṇa chinnaṁ cittamidaṁ yadā ॥ 1001 ॥
  711. यद्यदुक्तं ज्ञानशास्त्रे श्रवणादिकमेषु यः । निरतः कर्मधीहीनः ज्ञाननिष्ठः स एव हि ॥ १२३ ॥ yadyaduktaṁ jñānaśāstre śravaṇādikameṣu yaḥ । nirataḥ karmadhīhīnaḥ jñānaniṣṭhaḥ sa eva hi ॥ 123 ॥
  712. यद्यद्दृष्टं भ्रान्तिमत्या स्वदृष्ट्यातत्तत्सम्यग्वस्तुदृष्ट्या त्वमेव । त्वत्तो नान्यद्वस्तु किञ्चित्तु लोकेकस्माद्भीतिस्ते भवेदद्वयस्य ॥ ७८२ ॥ yadyaddṛṣṭaṁ bhrāntimatyā svadṛṣṭyātattatsamyagvastudṛṣṭyā tvameva । tvatto nānyadvastu kiñcittu lokekasmādbhītiste bhavedadvayasya ॥ 782 ॥
  713. यद्यन्निष्पाद्यते कर्म पुण्यं वा पापमेव वा । वागादिभिश्च वपुषा तत्प्राणमयकर्तृकम् ॥ ३८२ ॥ yadyanniṣpādyate karma puṇyaṁ vā pāpameva vā । vāgādibhiśca vapuṣā tatprāṇamayakartṛkam ॥ 382 ॥
  714. यद्यस्ति चात्मा किमु नोपलभ्यतेसुप्तौ यथा तिष्ठति किं प्रमाणम् । किंलक्षणोऽसौ स कथं न बाध्यतेप्रबाध्यमानेष्वहमादिषु स्वयम् ॥ ५८२ ॥ yadyasti cātmā kimu nopalabhyatesuptau yathā tiṣṭhati kiṁ pramāṇam । kiṁlakṣaṇo'sau sa kathaṁ na bādhyateprabādhyamāneṣvahamādiṣu svayam ॥ 582 ॥
  715. यद्येन वर्धते तेन नाशस्तस्य न सिध्यति । येन यस्य सहावस्था निरोधाय न कल्पते ॥ ५१३ ॥ yadyena vardhate tena nāśastasya na sidhyati । yena yasya sahāvasthā nirodhāya na kalpate ॥ 513 ॥
  716. यन्न स्वबन्धोऽभिमतो मूढस्यापि क्वचित्ततः । निवृत्तिः कर्मसंन्यासः कर्तव्यो मोक्षकाङ्क्षिभिः ॥ २०२ ॥ yanna svabandho'bhimato mūḍhasyāpi kvacittataḥ । nivṛttiḥ karmasaṁnyāsaḥ kartavyo mokṣakāṅkṣibhiḥ ॥ 202 ॥
  717. यमस्य कामस्य च तारतम्यं विचार्यमाणे महदस्ति लोके । हितं करोत्यस्य यमोऽप्रियः स - न्कामस्त्वनर्थं कुरुते प्रियः सन् ॥ ५५ ॥ yamasya kāmasya ca tāratamyaṁ vicāryamāṇe mahadasti loke । hitaṁ karotyasya yamo'priyaḥ sa - nkāmastvanarthaṁ kurute priyaḥ san ॥ 55 ॥
  718. यमालये वापि गृहेऽपि नो नृणां तापत्रयक्लेशनिवृत्तिरस्ति । किञ्चित्समालोक्य तु तद्विरामं सुखात्मना पश्यति मूढलोकः ॥ ५४ ॥ yamālaye vāpi gṛhe'pi no nṛṇāṁ tāpatrayakleśanivṛttirasti । kiñcitsamālokya tu tadvirāmaṁ sukhātmanā paśyati mūḍhalokaḥ ॥ 54 ॥
  719. यमावलोकोदितभीतिकम्प - मर्मव्यथोच्छ्वासगतीश्च वेदनाम् । प्राणप्रयाणे परिदृश्यमानां विचार्य को वा विरतिं न याति ॥ ३३ ॥ yamāvalokoditabhītikampa - marmavyathocchvāsagatīśca vedanām । prāṇaprayāṇe paridṛśyamānāṁ vicārya ko vā viratiṁ na yāti ॥ 33 ॥
  720. यमेषु निरतो यस्तु नियमेषु च यत्नतः । विवेकिनस्तस्य चित्तं प्रसादमधिगच्छति ॥ ३६३ ॥ yameṣu nirato yastu niyameṣu ca yatnataḥ । vivekinastasya cittaṁ prasādamadhigacchati ॥ 363 ॥
  721. यमोऽयमिति सम्प्रोक्तोऽभ्यसनीयो मुहुर्मुहुः । सजातीयप्रवाहश्च विजातीयतिरस्कृतिः ॥ ९१२ ॥ yamo'yamiti samprokto'bhyasanīyo muhurmuhuḥ । sajātīyapravāhaśca vijātīyatiraskṛtiḥ ॥ 912 ॥
  722. यमोऽसतामेव करोत्यनर्थं सतां तु सौख्यं कुरुते हितः सन् । कामः सतामेव गतिं निरुन्ध - न्करोत्यनर्थं ह्यसतां नु का कथा ॥ ५६ ॥ yamo'satāmeva karotyanarthaṁ satāṁ tu saukhyaṁ kurute hitaḥ san । kāmaḥ satāmeva gatiṁ nirundha - nkarotyanarthaṁ hyasatāṁ nu kā kathā ॥ 56 ॥
  723. यस्य कस्यापि योगेन यत्र कुत्रापि दृश्यते । आनन्दः स परस्यैव ब्रह्मणः स्फूर्तिलक्षणः ॥ ६७१ ॥ yasya kasyāpi yogena yatra kutrāpi dṛśyate । ānandaḥ sa parasyaiva brahmaṇaḥ sphūrtilakṣaṇaḥ ॥ 671 ॥
  724. यस्य चित्तं निर्विषयं हृदयं यस्य शीतलम् । तस्य मित्रं जगत्सर्वं तस्य मुक्तिः करस्थिता ॥ ३७१ ॥ yasya cittaṁ nirviṣayaṁ hṛdayaṁ yasya śītalam । tasya mitraṁ jagatsarvaṁ tasya muktiḥ karasthitā ॥ 371 ॥
  725. यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः । परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ९७७ ॥ yasya dehādikaṁ nāsti yasya brahmeti niścayaḥ । paramānandapūrṇo yaḥ sa jīvanmukta ucyate ॥ 977 ॥
  726. यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते ॥ ९७१ ॥ yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate । kurvato'kurvato vāpi sa jīvanmukta ucyate ॥ 971 ॥
  727. यस्य प्रपञ्चभानं न ब्रह्माकारमपीह न । अतीतातीतभावो यो विदेहो मुक्त एव सः ॥ ९८४ ॥ yasya prapañcabhānaṁ na brahmākāramapīha na । atītātītabhāvo yo videho mukta eva saḥ ॥ 984 ॥
  728. यस्य प्रसादेन विमुक्तसङ्गाःशुकादयः संसृतिबन्धमुक्ताः । तस्य प्रसादो बहुजन्मलभ्योभक्त्यैकगम्यो भवमुक्तिहेतुः ॥ २८० ॥ yasya prasādena vimuktasaṅgāḥśukādayaḥ saṁsṛtibandhamuktāḥ । tasya prasādo bahujanmalabhyobhaktyaikagamyo bhavamuktihetuḥ ॥ 280 ॥
  729. यस्येदं सकलं विभाति महसा तस्य स्वयञ्ज्योतिषःसूर्यस्येव किमस्ति भासकमिह प्रज्ञादि सर्वं जडम् । न ह्यर्कस्य विभासकं क्षितितले दृष्टं तथैवात्मनोनान्यः कोऽप्यनुभासकोऽनुभविता नातः परः कश्चन ॥ ५९९ ॥ yasyedaṁ sakalaṁ vibhāti mahasā tasya svayañjyotiṣaḥsūryasyeva kimasti bhāsakamiha prajñādi sarvaṁ jaḍam । na hyarkasya vibhāsakaṁ kṣititale dṛṣṭaṁ tathaivātmanonānyaḥ ko'pyanubhāsako'nubhavitā nātaḥ paraḥ kaścana ॥ 599 ॥
  730. यस्यैतद्विद्यते सर्वं तस्य चित्तं प्रसीदति । न त्वेतद्धर्मशून्यस्य प्रकारान्तरकोटिभिः ॥ १०८ ॥ yasyaitadvidyate sarvaṁ tasya cittaṁ prasīdati । na tvetaddharmaśūnyasya prakārāntarakoṭibhiḥ ॥ 108 ॥
  731. यात्येष विषयानन्दो यस्तु पुण्यैकसाधनः । ये तु वैषयिकानन्दं भुञ्जते पुण्यकारिणः ॥ ६५० ॥ yātyeṣa viṣayānando yastu puṇyaikasādhanaḥ । ye tu vaiṣayikānandaṁ bhuñjate puṇyakāriṇaḥ ॥ 650 ॥
  732. यावद्यावच्च सद्बुद्धे स्वयं सन्त्यज्यतेऽखिलम् । तावत्तावत्परानन्दः परमात्मैव शिष्यते ॥ ९९९ ॥ yāvadyāvacca sadbuddhe svayaṁ santyajyate'khilam । tāvattāvatparānandaḥ paramātmaiva śiṣyate ॥ 999 ॥
  733. यावन्न तत्त्वम्पदयोरर्थः सम्यग्विचार्यते । तावदेव नृणां बन्धो मृत्युसंसारलक्षणः ॥ ७०४ ॥ yāvanna tattvampadayorarthaḥ samyagvicāryate । tāvadeva nṛṇāṁ bandho mṛtyusaṁsāralakṣaṇaḥ ॥ 704 ॥
  734. यावन्न तर्केण निरासितोऽपिदृश्यप्रपञ्चस्त्वपरोक्षबोधात् । विलीयते तावदमुष्य भिक्षो - र्ध्यानादि सम्यक्करणीयमेव ॥ ८१८ ॥ yāvanna tarkeṇa nirāsito'pidṛśyaprapañcastvaparokṣabodhāt । vilīyate tāvadamuṣya bhikṣo - rdhyānādi samyakkaraṇīyameva ॥ 818 ॥
  735. यावन्नाश्रयते रोगो यावन्नाक्रमते जरा । यावन्न धीर्विपर्येति यावन्मृत्युं न पश्यति ॥ २४२ ॥ yāvannāśrayate rogo yāvannākramate jarā । yāvanna dhīrviparyeti yāvanmṛtyuṁ na paśyati ॥ 242 ॥
  736. युक्त्यात्मानात्मनोऽस्तस्मात्करणीयं विवेचनम् । अनात्मन्यात्मताबुद्धिग्रन्थिर्येन विदीर्यते ॥ ५१९ ॥ yuktyātmānātmano'stasmātkaraṇīyaṁ vivecanam । anātmanyātmatābuddhigranthiryena vidīryate ॥ 519 ॥
  737. येन नाराधितो देवो यस्य नो गुर्वनुग्रहः । न वश्यं हृदयं यस्य तस्य शान्तिर्न सिध्यति ॥ १०३ ॥ yena nārādhito devo yasya no gurvanugrahaḥ । na vaśyaṁ hṛdayaṁ yasya tasya śāntirna sidhyati ॥ 103 ॥
  738. येनानुभूयते सर्वं जाग्रत्स्वप्नसुषुप्तिषु । विज्ञातारमिमं को नु कथं वेदितुमर्हति ॥ ६०० ॥ yenānubhūyate sarvaṁ jāgratsvapnasuṣuptiṣu । vijñātāramimaṁ ko nu kathaṁ veditumarhati ॥ 600 ॥
  739. येषामाशा निराशा स्या - द्दारापत्यधनादिषु । तेषां सिध्यति नान्येषां मोक्षाशाभिमुखी गतिः ॥ ८६ ॥ yeṣāmāśā nirāśā syā - ddārāpatyadhanādiṣu । teṣāṁ sidhyati nānyeṣāṁ mokṣāśābhimukhī gatiḥ ॥ 86 ॥
  740. यो जागर्त्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते । यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते ॥ ९६९ ॥ yo jāgartti suṣuptistho yasya jāgranna vidyate । yasya nirvāsano bodhaḥ sa jīvanmukta ucyate ॥ 969 ॥
  741. यो बिम्बभूत आनन्दः स आत्मानन्दलक्षणः । शाश्वतो निर्द्वयः पूर्णो नित्य एकोऽपि निर्भयः ॥ ६५५ ॥ yo bimbabhūta ānandaḥ sa ātmānandalakṣaṇaḥ । śāśvato nirdvayaḥ pūrṇo nitya eko'pi nirbhayaḥ ॥ 655 ॥
  742. योगं समारोहति यो मुमुक्षुःक्रियान्तरं तस्य न युक्तमीषत् । क्रियान्तरासक्तमनाः पतत्यसौतालद्रुमारोहणकर्तृवद्ध्रुवम् ॥ ८६४ ॥ yogaṁ samārohati yo mumukṣuḥkriyāntaraṁ tasya na yuktamīṣat । kriyāntarāsaktamanāḥ patatyasautāladrumārohaṇakartṛvaddhruvam ॥ 864 ॥
  743. योगमभ्यस्यतो भिक्षोर्योगाच्चलितचेतसः । प्राप्य पुण्यकृतांल्लोकानित्यादि प्राह केशवः ॥ १४६ ॥ yogamabhyasyato bhikṣoryogāccalitacetasaḥ । prāpya puṇyakṛtāṁllokānityādi prāha keśavaḥ ॥ 146 ॥
  744. योगारूढस्य सिद्धस्य कृतकृत्यस्य धीमतः । नास्त्येव हि बहिर्दृष्टिः का कथा तत्र कर्मणाम् । दृश्यानुविद्धः कथितः समाधिः सविकल्पकः ॥ ८६५ ॥ yogārūḍhasya siddhasya kṛtakṛtyasya dhīmataḥ । nāstyeva hi bahirdṛṣṭiḥ kā kathā tatra karmaṇām । dṛśyānuviddhaḥ kathitaḥ samādhiḥ savikalpakaḥ ॥ 865 ॥
  745. योऽहं ममेत्याद्यसदात्मगाहकोग्रन्थिर्लयं याति स वासनामयः । समाधिना नश्यति कर्मबन्धोब्रह्मात्मबोधोऽप्रतिबन्ध इष्यते ॥ ९०६ ॥ yo'haṁ mametyādyasadātmagāhakogranthirlayaṁ yāti sa vāsanāmayaḥ । samādhinā naśyati karmabandhobrahmātmabodho'pratibandha iṣyate ॥ 906 ॥
  746. रक्षा तितिक्षासदृशी मुमुक्षो - र्न विद्यतेऽसौ पविना न भिद्यते । यामेव धीराः कवचीव विघ्ना - न्सर्वांस्तृणीकृत्य जयन्ति मायाम् ॥ १३८ ॥ rakṣā titikṣāsadṛśī mumukṣo - rna vidyate'sau pavinā na bhidyate । yāmeva dhīrāḥ kavacīva vighnā - nsarvāṁstṛṇīkṛtya jayanti māyām ॥ 138 ॥
  747. रजसस्तमसश्चैव प्राबल्यं सत्त्वहानतः । जीवोपाधौ तथा जीवे तत्कार्यं बलवत्तरम् ॥ ५०७ ॥ rajasastamasaścaiva prābalyaṁ sattvahānataḥ । jīvopādhau tathā jīve tatkāryaṁ balavattaram ॥ 507 ॥
  748. रजस्तमोभ्यां मलिनं त्वशुद्ध - मज्ञानजं सत्त्वगुणेन रिक्तम् । मनस्तमोदोषसमन्वितत्वा - ज्जडत्वमोहालसताप्रमादैः । तिरस्कृतं सन्न तु वेत्ति वास्तवंपदार्थतत्त्वं ह्युपलभ्यमानम् ॥ ३५९ ॥ rajastamobhyāṁ malinaṁ tvaśuddha - majñānajaṁ sattvaguṇena riktam । manastamodoṣasamanvitatvā - jjaḍatvamohālasatāpramādaiḥ । tiraskṛtaṁ sanna tu vetti vāstavaṁpadārthatattvaṁ hyupalabhyamānam ॥ 359 ॥
  749. रजोदोषैर्युक्तं यदि भवति विक्षेपकगुणैःप्रतीपैः कामाद्यैरनिशमभिभूतं व्यथयति । कथञ्चित्सूक्ष्मार्थावगतिमदपि भ्राम्यति भृशंमनोदीपो यद्वत्प्रबलमरुता ध्वस्तमहिमा ॥ ३६० ॥ rajodoṣairyuktaṁ yadi bhavati vikṣepakaguṇaiḥpratīpaiḥ kāmādyairaniśamabhibhūtaṁ vyathayati । kathañcitsūkṣmārthāvagatimadapi bhrāmyati bhṛśaṁmanodīpo yadvatprabalamarutā dhvastamahimā ॥ 360 ॥
  750. रज्जोः स्वरूपाधिगमे न सर्पधीरज्ज्वां विलीना तु यथा तथैव । ब्रह्मावगत्या तु जगत्प्रतीति - स्तत्रैव लीना तु सह भ्रमेण ॥ ६९१ ॥ rajjoḥ svarūpādhigame na sarpadhīrajjvāṁ vilīnā tu yathā tathaiva । brahmāvagatyā tu jagatpratīti - statraiva līnā tu saha bhrameṇa ॥ 691 ॥
  751. रज्जोस्तु तत्त्वमनवेक्ष्य गृहीतसर्प - भावः पुमानयमहिर्वसतीति मोहात् । आक्रोशति प्रतिबिभेति च कम्पते त - न्मिथ्यैव नात्र भुजगोऽस्ति विचार्यमाणे ॥ २६८ ॥ rajjostu tattvamanavekṣya gṛhītasarpa - bhāvaḥ pumānayamahirvasatīti mohāt । ākrośati pratibibheti ca kampate ta - nmithyaiva nātra bhujago'sti vicāryamāṇe ॥ 268 ॥
  752. रत्ने यदि शिलाबुद्धिर्जायते वा भयं ततः । समीचीनत्वधीर्नैति नोपादेयत्वधीरपि ॥ ६८ ॥ ratne yadi śilābuddhirjāyate vā bhayaṁ tataḥ । samīcīnatvadhīrnaiti nopādeyatvadhīrapi ॥ 68 ॥
  753. रवेर्यथा कर्मणि साक्षिभावोवह्नेर्यथा वायसि दाहकत्वम् । रज्जोर्यथारोपितवस्तुसङ्ग - स्तथैव कूटस्थचिदात्मनो मे ॥ ९३५ ॥ raveryathā karmaṇi sākṣibhāvovahneryathā vāyasi dāhakatvam । rajjoryathāropitavastusaṅga - stathaiva kūṭasthacidātmano me ॥ 935 ॥
  754. रागद्वेषभयादीनामनुरूपं चरन्नपि । योऽन्तर्व्योमवदत्यच्छः स जीवन्मुक्त उच्यते ॥ ९७० ॥ rāgadveṣabhayādīnāmanurūpaṁ carannapi । yo'ntarvyomavadatyacchaḥ sa jīvanmukta ucyate ॥ 970 ॥
  755. राजसीं तु क्रियाशक्तिं तमःशक्तिं जडात्मिकाम् । प्रकाशरूपिणीं सत्त्वशक्तिं प्राहुर्महर्षयः ॥ ३८० ॥ rājasīṁ tu kriyāśaktiṁ tamaḥśaktiṁ jaḍātmikām । prakāśarūpiṇīṁ sattvaśaktiṁ prāhurmaharṣayaḥ ॥ 380 ॥
  756. राज्ञो भयं चोरभयं प्रमादा - द्भयं तथा ज्ञातिभयं च वस्तुतः । धनं भयग्रस्तमनर्थमूलं यतः सतां नैव सुखाय कल्पते ॥ ७१ ॥ rājño bhayaṁ corabhayaṁ pramādā - dbhayaṁ tathā jñātibhayaṁ ca vastutaḥ । dhanaṁ bhayagrastamanarthamūlaṁ yataḥ satāṁ naiva sukhāya kalpate ॥ 71 ॥
  757. रुद्रस्त्वहङ्कृतेर्दैवं क्षेत्रज्ञश्चित्तदैवतम् । दिगाद्या देवताः सर्वाः खादिसत्त्वांशसम्भवाः ॥ ४१९ ॥ rudrastvahaṅkṛterdaivaṁ kṣetrajñaścittadaivatam । digādyā devatāḥ sarvāḥ khādisattvāṁśasambhavāḥ ॥ 419 ॥
  758. रूपज्ञानं यथा सम्यग्दृष्टौ सत्यां भवेत्तथा । श्रुतिप्रमाणे सत्येव ज्ञानं भवति वास्तवम् ॥ १९४ ॥ rūpajñānaṁ yathā samyagdṛṣṭau satyāṁ bhavettathā । śrutipramāṇe satyeva jñānaṁ bhavati vāstavam ॥ 194 ॥
  759. लक्षणा ह्युपगन्तव्या ततो वाक्यार्थसिद्धये । वाच्यार्थानुपपत्त्यैव लक्षणाभ्युपगम्यते ॥ ७३३ ॥ lakṣaṇā hyupagantavyā tato vākyārthasiddhaye । vācyārthānupapattyaiva lakṣaṇābhyupagamyate ॥ 733 ॥
  760. लक्षयत्यनया सम्यग्भागलक्षणया ततः । सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ॥ ७६० ॥ lakṣayatyanayā samyagbhāgalakṣaṇayā tataḥ । sarvopādhivinirmuktaṁ saccidānandamadvayam ॥ 760 ॥
  761. लक्ष्यते प्रतिबिम्बेनाभासानन्देन बिम्बवत् । प्रतिबिम्बो बिम्बमूलो विना बिम्बं न सिध्यति ॥ ६५६ ॥ lakṣyate pratibimbenābhāsānandena bimbavat । pratibimbo bimbamūlo vinā bimbaṁ na sidhyati ॥ 656 ॥
  762. लब्ध्वा सुदुर्लभतरं नरजन्म जन्तु - स्तत्रापि पौरुषमतः सदसद्विवेकम् । सम्प्राप्य चैहिकसुखाभिरतो यदि स्या - द्धिक्तस्य जन्म कुमतेः पुरुषाधमस्य ॥ २४० ॥ labdhvā sudurlabhataraṁ narajanma jantu - statrāpi pauruṣamataḥ sadasadvivekam । samprāpya caihikasukhābhirato yadi syā - ddhiktasya janma kumateḥ puruṣādhamasya ॥ 240 ॥
  763. लिङ्गमित्युच्यते स्थूलापेक्षया सूक्ष्ममिष्यते । सर्वं लिङ्गवपुर्जातमेकधीविषयत्वतः ॥ ३८६ ॥ liṅgamityucyate sthūlāpekṣayā sūkṣmamiṣyate । sarvaṁ liṅgavapurjātamekadhīviṣayatvataḥ ॥ 386 ॥
  764. लोकान्तरे वात्र गुहान्तरे वातीर्थान्तरे कर्मपरम्परान्तरे । शास्त्रान्तरे नास्त्यनुपश्यतामिहस्वयं परं ब्रह्म विचार्यमाणे ॥ २९० ॥ lokāntare vātra guhāntare vātīrthāntare karmaparamparāntare । śāstrāntare nāstyanupaśyatāmihasvayaṁ paraṁ brahma vicāryamāṇe ॥ 290 ॥
  765. लोभः क्रोधश्च डम्भश्च मदो मत्सर एव च । वर्धते वित्तसम्प्राप्त्या कथं तच्चित्तशोधनम् ॥ ७९ ॥ lobhaḥ krodhaśca ḍambhaśca mado matsara eva ca । vardhate vittasamprāptyā kathaṁ taccittaśodhanam ॥ 79 ॥
  766. वक्ष्ये तुभ्यं ज्ञानभूमिकाया लक्षणमादितः । ज्ञाते यस्मिंस्त्वया सर्वं ज्ञातं स्यात्पृष्टमद्य यत् ॥ ९३८ ॥
  767. वदन्तमेवं तं शिष्यं दृष्ट्यैव दयया गुरुः । दद्यादभयमेतस्मै मा भैष्टेति मुहुर्मुहुः ॥ २६५ ॥ vadantamevaṁ taṁ śiṣyaṁ dṛṣṭyaiva dayayā guruḥ । dadyādabhayametasmai mā bhaiṣṭeti muhurmuhuḥ ॥ 265 ॥
  768. वनस्य व्यष्ट्यभिप्रायाद्भूरुहा इत्यनेकता । यथा तथैवाज्ञानस्य व्यष्टितः स्यादनेकता ॥ ३१७ ॥ vanasya vyaṣṭyabhiprāyādbhūruhā ityanekatā । yathā tathaivājñānasya vyaṣṭitaḥ syādanekatā ॥ 317 ॥
  769. वस्तु तावत्परं ब्रह्म नित्यं सत्यं ध्रुवं विभु । श्रुतिप्रमाणे तज्ज्ञानं स्यादेव निरपेक्षकम् ॥ १९३ ॥ vastu tāvatparaṁ brahma nityaṁ satyaṁ dhruvaṁ vibhu । śrutipramāṇe tajjñānaṁ syādeva nirapekṣakam ॥ 193 ॥
  770. वस्तु तावत्परं ब्रह्म सत्यज्ञानादिलक्षणम् । इदमारोपितं यत्र भाति खे नीलतादिवत् ॥ २९८ ॥ vastu tāvatparaṁ brahma satyajñānādilakṣaṇam । idamāropitaṁ yatra bhāti khe nīlatādivat ॥ 298 ॥
  771. वस्तुन्यवस्त्वारोपो यः सोऽध्यारोप इतीर्यते । असर्पभूते रज्ज्वादौ सर्पत्वारोपणं यथा ॥ २९७ ॥ vastunyavastvāropo yaḥ so'dhyāropa itīryate । asarpabhūte rajjvādau sarpatvāropaṇaṁ yathā ॥ 297 ॥
  772. वस्त्वन्तरस्याभावेन न व्यावृत्त्यः कदाचन । केवलो निर्गुणश्चेति निर्गुणत्वं निरुच्यते ॥ ६७५ ॥ vastvantarasyābhāvena na vyāvṛttyaḥ kadācana । kevalo nirguṇaśceti nirguṇatvaṁ nirucyate ॥ 675 ॥
  773. वाक्यार्थ एव ज्ञातव्यो मुमुक्षोर्भवमुक्तये । तस्मादवहितो भूत्वा शृणु वक्ष्ये समासतः ॥ ७०६ ॥ vākyārtha eva jñātavyo mumukṣorbhavamuktaye । tasmādavahito bhūtvā śṛṇu vakṣye samāsataḥ ॥ 706 ॥
  774. वाक्यार्थत्वे विरोधोऽस्ति प्रत्यक्षादिकृतस्ततः । सङ्गच्छते न वाक्यार्थस्तद्विरोधं च वच्मि ते ॥ ७२० ॥ vākyārthatve virodho'sti pratyakṣādikṛtastataḥ । saṅgacchate na vākyārthastadvirodhaṁ ca vacmi te ॥ 720 ॥
  775. वाक्यार्थत्वे विशिष्टस्य संसर्गस्य च वा पुनः । अयथार्थतया सोऽयं वाक्यार्थो न मतः श्रुतेः ॥ ७२७ ॥ vākyārthatve viśiṣṭasya saṁsargasya ca vā punaḥ । ayathārthatayā so'yaṁ vākyārtho na mataḥ śruteḥ ॥ 727 ॥
  776. वाक्ये तत्त्वमसीत्यत्र ब्रह्मात्मैकत्वबोधके । परोक्षत्वापरोक्षत्वादिविशिष्टचितोर्द्वयोः ॥ ७४६ ॥ vākye tattvamasītyatra brahmātmaikatvabodhake । parokṣatvāparokṣatvādiviśiṣṭacitordvayoḥ ॥ 746 ॥
  777. वाक्ये तत्त्वमसीत्यत्र विद्यते यत्पदत्रयम् । तत्रादौ विद्यमानस्य तत्पदस्य निगद्यते ॥ ७०८ ॥ vākye tattvamasītyatra vidyate yatpadatrayam । tatrādau vidyamānasya tatpadasya nigadyate ॥ 708 ॥
  778. वाचः साक्षी प्राणवृत्तेश्च साक्षीबुद्धेः साक्षी बुद्धिवृत्तेश्च साक्षी । चक्षुःश्रोत्रादीन्द्रियाणां च साक्षीसाक्षी नित्यः प्रत्यगेवाहमस्मि ॥ ८३६ ॥ vācaḥ sākṣī prāṇavṛtteśca sākṣībuddheḥ sākṣī buddhivṛtteśca sākṣī । cakṣuḥśrotrādīndriyāṇāṁ ca sākṣīsākṣī nityaḥ pratyagevāhamasmi ॥ 836 ॥
  779. वाच्यार्थस्य तु सर्वस्य त्यागे न फलमीक्ष्यते । नालिकेरफलस्येव कठिनत्वधिया नृणाम् ॥ ७३९ ॥ vācyārthasya tu sarvasya tyāge na phalamīkṣyate । nālikeraphalasyeva kaṭhinatvadhiyā nṛṇām ॥ 739 ॥
  780. वाच्यैकत्वविवक्षायां विरोधः कः प्रतीयते । लक्ष्यार्थयोरभिन्नत्वे स कथं विनिवर्तते ॥ ७०१ ॥ vācyaikatvavivakṣāyāṁ virodhaḥ kaḥ pratīyate । lakṣyārthayorabhinnatve sa kathaṁ vinivartate ॥ 701 ॥
  781. वायुनोच्चालितो वृक्षो नानारूपेण चेष्टते । तस्मिन्विनिश्चले सोऽपि निश्चलः स्याद्यथा तथा ॥ ३८३ ॥ vāyunoccālito vṛkṣo nānārūpeṇa ceṣṭate । tasminviniścale so'pi niścalaḥ syādyathā tathā ॥ 383 ॥
  782. वायोरग्निस्तथैवाग्नेरापोऽद्भ्यः पृथिवी क्रमात् । शक्तेस्तमःप्रधानत्वं तत्कार्ये जाड्यदर्शनात् ॥ ३३६ ॥ vāyoragnistathaivāgnerāpo'dbhyaḥ pṛthivī kramāt । śaktestamaḥpradhānatvaṁ tatkārye jāḍyadarśanāt ॥ 336 ॥
  783. वाय्वर्कवह्नीन्द्रमुखान्सुरेन्द्रा - नीशोग्रभीत्या ग्रथितान्तरङ्गान् । विपक्षलोकैः परिदूयमाना - न्विचार्य को वा विरतिं न याति ॥ ३६ ॥ vāyvarkavahnīndramukhānsurendrā - nīśograbhītyā grathitāntaraṅgān । vipakṣalokaiḥ paridūyamānā - nvicārya ko vā viratiṁ na yāti ॥ 36 ॥
  784. विक्षेपनाम्नी रजसस्तु शक्तिःप्रवृत्तिहेतुः पुरुषस्य नित्यम् । स्थूलादिलिङ्गान्तमशेषमेत - द्यया सदात्मन्यसदेव सूयते ॥ ४९१ ॥ vikṣepanāmnī rajasastu śaktiḥpravṛttihetuḥ puruṣasya nityam । sthūlādiliṅgāntamaśeṣameta - dyayā sadātmanyasadeva sūyate ॥ 491 ॥
  785. विक्षेपशक्त्या परिचोद्यमानःकरोति कर्माण्युभयात्मकानि । भुञ्जान एतत्फलमप्युपात्तंपरिभ्रमत्येव भवाम्बुराशौ ॥ ४९५ ॥ vikṣepaśaktyā paricodyamānaḥkaroti karmāṇyubhayātmakāni । bhuñjāna etatphalamapyupāttaṁparibhramatyeva bhavāmburāśau ॥ 495 ॥
  786. विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता । यत्र सा तनुतामेति प्रोच्यते तनुमानसी ॥ ९४३ ॥ vicāraṇāśubhecchābhyāmindriyārtheṣu raktatā । yatra sā tanutāmeti procyate tanumānasī ॥ 943 ॥
  787. विजातीयशरीरादिप्रत्ययत्यागपूर्वकम् । सजातीयात्मवृत्तीनां प्रवाहकरणं यथा ॥ ८१४ ॥ vijātīyaśarīrādipratyayatyāgapūrvakam । sajātīyātmavṛttīnāṁ pravāhakaraṇaṁ yathā ॥ 814 ॥
  788. विज्ञातपरमार्थानां शुद्धसत्त्वात्मनां सताम् । यतीनां किमनुष्ठानं स्वानुसन्धिं विनापरम् ॥ ८६१ ॥ vijñātaparamārthānāṁ śuddhasattvātmanāṁ satām । yatīnāṁ kimanuṣṭhānaṁ svānusandhiṁ vināparam ॥ 861 ॥
  789. विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च । इत्यस्य कर्तृता श्रुत्या मुखतः प्रतिपाद्यते । तस्माद्युक्तात्मता बुद्धेरिति बौद्धेन निश्चितम् ॥ ५५७ ॥ vijñānaṁ yajñaṁ tanute karmāṇi tanute'pi ca । ityasya kartṛtā śrutyā mukhataḥ pratipādyate । tasmādyuktātmatā buddheriti bauddhena niścitam ॥ 557 ॥
  790. विज्ञानं विज्ञानविदां मलानां च मलात्मकम् । पुरुषः साङ्ख्यदृष्टीनामीश्वरो योगवादिनाम् ॥ ९८१ ॥ vijñānaṁ vijñānavidāṁ malānāṁ ca malātmakam । puruṣaḥ sāṅkhyadṛṣṭīnāmīśvaro yogavādinām ॥ 981 ॥
  791. विज्ञानमयकोशः स्यात् बुद्धिर्ज्ञानेन्द्रियैः सह । विज्ञानप्रचुरत्वेनाप्याच्छादकतयात्मनः ॥ ३५० ॥ vijñānamayakośaḥ syāt buddhirjñānendriyaiḥ saha । vijñānapracuratvenāpyācchādakatayātmanaḥ ॥ 350 ॥
  792. विज्ञानमयकोशोऽयमिति विद्वद्भिरुच्यते । अयं महानहङ्कारवृत्तिमान्कर्तृलक्षणः ॥ ३५१ ॥ vijñānamayakośo'yamiti vidvadbhirucyate । ayaṁ mahānahaṅkāravṛttimānkartṛlakṣaṇaḥ ॥ 351 ॥
  793. विज्ञानमयादन्यं त्वानन्दमयं परं तथात्मानम् । अन्योऽन्तर आत्मानन्दमय इति वदति वेदोऽपि ॥ ५६१ ॥ vijñānamayādanyaṁ tvānandamayaṁ paraṁ tathātmānam । anyo'ntara ātmānandamaya iti vadati vedo'pi ॥ 561 ॥
  794. विदिताविदितान्योऽहं मायातत्कार्यलेशशून्योऽहम् । केवलदृगात्मकोऽहं संविन्मात्रः सकृद्विभातोऽहम् ॥ ८६८ ॥ viditāviditānyo'haṁ māyātatkāryaleśaśūnyo'ham । kevaladṛgātmako'haṁ saṁvinmātraḥ sakṛdvibhāto'ham ॥ 868 ॥
  795. विदित्वा सच्चिदानन्दे मयि दृश्यपरम्पराम् । नामरूपपरित्यागो जाग्रत्स्वप्नः समीर्यते ॥ ९५० ॥ viditvā saccidānande mayi dṛśyaparamparām । nāmarūpaparityāgo jāgratsvapnaḥ samīryate ॥ 950 ॥
  796. विद्यमानस्य मिथ्यात्वं कथं नु घटते प्रभो । प्रत्यक्षं खलु सर्वेषां प्रमाणं प्रस्फुटार्थकम् ॥ २७३ ॥ vidyamānasya mithyātvaṁ kathaṁ nu ghaṭate prabho । pratyakṣaṁ khalu sarveṣāṁ pramāṇaṁ prasphuṭārthakam ॥ 273 ॥
  797. विद्यां चाविद्यां चेति सहोक्तिरियमुपकृता सद्भिः । सत्कर्मोपासनयोर्न त्वात्मज्ञानकर्मणोः क्वापि ॥ १९७ ॥ vidyāṁ cāvidyāṁ ceti sahoktiriyamupakṛtā sadbhiḥ । satkarmopāsanayorna tvātmajñānakarmaṇoḥ kvāpi ॥ 197 ॥
  798. विद्वन्मृत्युभयं जहीहि भवतो नास्त्येव मृत्युः क्वचि - न्नित्यस्य द्वयवर्जितस्य परमानन्दात्मनो ब्रह्मणः । भ्रान्त्या किञ्चिदवेक्ष्य भीतमनसा मिथ्या त्वया कथ्यतेमां त्राहीति हि सुप्तवत्प्रलपनं शून्यात्मकं ते मृषा ॥ २६६ ॥ vidvanmṛtyubhayaṁ jahīhi bhavato nāstyeva mṛtyuḥ kvaci - nnityasya dvayavarjitasya paramānandātmano brahmaṇaḥ । bhrāntyā kiñcidavekṣya bhītamanasā mithyā tvayā kathyatemāṁ trāhīti hi suptavatpralapanaṁ śūnyātmakaṁ te mṛṣā ॥ 266 ॥
  799. विद्वानहमिदमिति वा किञ्चिद्बाह्याभ्यन्तरवेदनशून्यः । स्वानन्दामृतसिन्धुनिमग्न - स्तूष्णीमास्ते कश्चिदनन्यः ॥ ८७६ ॥ vidvānahamidamiti vā kiñcidbāhyābhyantaravedanaśūnyaḥ । svānandāmṛtasindhunimagna - stūṣṇīmāste kaścidananyaḥ ॥ 876 ॥
  800. विनिषिध्याखिलं दृश्यं स्वस्वरूपेण या स्थितिः । सा सन्ध्या तदनुष्ठानं तद्दानं तद्धि भोजनम् ॥ ८६० ॥ viniṣidhyākhilaṁ dṛśyaṁ svasvarūpeṇa yā sthitiḥ । sā sandhyā tadanuṣṭhānaṁ taddānaṁ taddhi bhojanam ॥ 860 ॥
  801. विपरीतात्मतास्फूर्तिरेव मुक्तिरितीर्यते । सदा समाहितस्यैव सैषा सिध्यति नान्यथा ॥ ८४४ ॥ viparītātmatāsphūrtireva muktiritīryate । sadā samāhitasyaiva saiṣā sidhyati nānyathā ॥ 844 ॥
  802. विपरीतार्थधीर्यावन्न निःशेषं निवर्तते । स्वरूपस्फुरणं यावन्न प्रसिध्यत्यनर्गलम् । तावत्समाधिषट्केन नयेत्कालं निरन्तरम् ॥ ९०१ ॥ viparītārthadhīryāvanna niḥśeṣaṁ nivartate । svarūpasphuraṇaṁ yāvanna prasidhyatyanargalam । tāvatsamādhiṣaṭkena nayetkālaṁ nirantaram ॥ 901 ॥
  803. विराड् हिरण्यगर्भश्च ईश्वरश्चेति ते त्रयम् । ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् ॥ ९९१ ॥ virāḍ hiraṇyagarbhaśca īśvaraśceti te trayam । brahmāṇḍaṁ caiva piṇḍāṇḍaṁ lokā bhūrādayaḥ kramāt ॥ 991 ॥
  804. विरुद्धधर्माक्रान्ततत्वात्परस्परविलक्षणौ । जीवेशौ वह्नितुहिनाविव शब्दार्थतोऽपि च ॥ ७२४ ॥ viruddhadharmākrāntatatvātparasparavilakṣaṇau । jīveśau vahnituhināviva śabdārthato'pi ca ॥ 724 ॥
  805. विरुद्धांशपरित्यागात्प्रत्यक्षादिर्न बाधते । अविरुद्धांशग्रहणान्न श्रुत्यापि विरुध्यते ॥ ७३२ ॥ viruddhāṁśaparityāgātpratyakṣādirna bādhate । aviruddhāṁśagrahaṇānna śrutyāpi virudhyate ॥ 732 ॥
  806. विरुध्यते भागमात्रो न तु सर्वो विरुध्यते । तस्माज्जहल्लक्षणायाः प्रवृत्तिर्नात्र युज्यते ॥ ७३८ ॥ virudhyate bhāgamātro na tu sarvo virudhyate । tasmājjahallakṣaṇāyāḥ pravṛttirnātra yujyate ॥ 738 ॥
  807. विरूपतां सर्वजनादवज्ञां सर्वत्र दैन्यं निजबुद्धिहैन्यम् । वृद्धत्वसम्भावितदुर्दशां तां विचार्य को वा विरतिं न याति ॥ ३१ ॥ virūpatāṁ sarvajanādavajñāṁ sarvatra dainyaṁ nijabuddhihainyam । vṛddhatvasambhāvitadurdaśāṁ tāṁ vicārya ko vā viratiṁ na yāti ॥ 31 ॥
  808. विवदन्ति प्रकारं तं शृणु वक्ष्यामि सादरम् । अत्यन्तपामरः कश्चित्पुत्र आत्मेति मन्यते ॥ ५२२ ॥ vivadanti prakāraṁ taṁ śṛṇu vakṣyāmi sādaram । atyantapāmaraḥ kaścitputra ātmeti manyate ॥ 522 ॥
  809. विवर्तस्यास्य जगतः सन्मात्रत्वेन दर्शनम् । अपवाद इति प्राहुरद्वैतब्रह्मदर्शिनः ॥ ६८० ॥ vivartasyāsya jagataḥ sanmātratvena darśanam । apavāda iti prāhuradvaitabrahmadarśinaḥ ॥ 680 ॥
  810. विवेकजां तीव्रविरक्तिमेव मुक्तेर्निदानं निगदन्ति सन्तः । तस्माद्विवेकी विरतिं मुमुक्षुः सम्पादयेत्तां प्रथमं प्रयत्नात् ॥ ९१ ॥ vivekajāṁ tīvraviraktimeva mukternidānaṁ nigadanti santaḥ । tasmādvivekī viratiṁ mumukṣuḥ sampādayettāṁ prathamaṁ prayatnāt ॥ 91 ॥
  811. विवेकवानप्यतियौक्तिकोऽपिश्रुतात्मतत्त्वोऽपि च पण्डितोऽपि । शक्त्या यया संवृतबोधदृष्टि - रात्मानमात्मस्थमिमं न वेद ॥ ४९० ॥ vivekavānapyatiyauktiko'piśrutātmatattvo'pi ca paṇḍito'pi । śaktyā yayā saṁvṛtabodhadṛṣṭi - rātmānamātmasthamimaṁ na veda ॥ 490 ॥
  812. विवेकिनो विरक्तस्य ब्रह्मनित्यत्ववेदिनः । तद्भावेच्छोरनित्यार्थे तत्सामग्र्ये कुतोऽरतिः ॥ १७१ ॥ vivekino viraktasya brahmanityatvavedinaḥ । tadbhāvecchoranityārthe tatsāmagrye kuto'ratiḥ ॥ 171 ॥
  813. विवेको जन्तूनां प्रभवति जनिष्वेव बहुषुप्रसादादेवैशाद्बहुसुकृतपाकोदयवशात् । यतस्तस्मादेव त्वमपि परमार्थावगमनेकृतारम्भः पुंसामिदमिह विवेकस्य तु फलं ॥ २८१ ॥ viveko jantūnāṁ prabhavati janiṣveva bahuṣuprasādādevaiśādbahusukṛtapākodayavaśāt । yatastasmādeva tvamapi paramārthāvagamanekṛtārambhaḥ puṁsāmidamiha vivekasya tu phalaṁ ॥ 281 ॥
  814. विशेषणं तु व्यावृत्त्यै भवेद्द्रव्यान्तरे सति । परमात्माद्वितीयोऽयं प्रपञ्चस्य मृषात्वतः ॥ ६७४ ॥ viśeṣaṇaṁ tu vyāvṛttyai bhaveddravyāntare sati । paramātmādvitīyo'yaṁ prapañcasya mṛṣātvataḥ ॥ 674 ॥
  815. विशेषणविशेष्यत्वसंसर्गस्येतरस्य वा । वाक्यार्थत्वे प्रमाणान्तरविरोधो न विद्यते ॥ ७१६ ॥ viśeṣaṇaviśeṣyatvasaṁsargasyetarasya vā । vākyārthatve pramāṇāntaravirodho na vidyate ॥ 716 ॥
  816. विश्वस्य वृद्धिं स्वयमेव काङ्क्ष - न्प्रवर्तकं कामिजनं ससर्ज । तेनैव लोकः परिमुह्यमानः प्रवर्धते चन्द्रमसेव चाब्धिः ॥ ५७ ॥ viśvasya vṛddhiṁ svayameva kāṅkṣa - npravartakaṁ kāmijanaṁ sasarja । tenaiva lokaḥ parimuhyamānaḥ pravardhate candramaseva cābdhiḥ ॥ 57 ॥
  817. विश्वोऽस्मिन्स्थूलदेहेऽत्र स्वाभिमानेन तिष्ठति । यतस्ततो विश्व इति नाम्ना सार्थो भवत्ययम् ॥ ४४२ ॥ viśvo'sminsthūladehe'tra svābhimānena tiṣṭhati । yatastato viśva iti nāmnā sārtho bhavatyayam ॥ 442 ॥
  818. विषयः शुद्धचैतन्यं जीवब्रह्मैक्यलक्षणम् । यत्रैव दृश्यते सर्ववेदान्तानां समन्वयः ॥ ८ ॥ viṣayaḥ śuddhacaitanyaṁ jīvabrahmaikyalakṣaṇam । yatraiva dṛśyate sarvavedāntānāṁ samanvayaḥ ॥ 8 ॥
  819. विषयव्यापृतिं त्यक्त्वा श्रवणैकमनस्थितिः । मनसश्चेतरा शान्तिर्मिश्रसत्त्वैकलक्षणा ॥ ९९ ॥ viṣayavyāpṛtiṁ tyaktvā śravaṇaikamanasthitiḥ । manasaścetarā śāntirmiśrasattvaikalakṣaṇā ॥ 99 ॥
  820. विस्मृत्य वस्तुनस्तत्त्वमध्यारोप्य च वस्तुनि । अवस्तुतां च तद्धर्मान्मुधा शोचति नान्यथा ॥ २९३ ॥ vismṛtya vastunastattvamadhyāropya ca vastuni । avastutāṁ ca taddharmānmudhā śocati nānyathā ॥ 293 ॥
  821. वृत्तिविस्मरणं सम्यक्समाधिर्ध्यानसंज्ञिकः । समाधौ क्रियमाणे तु विघ्ना ह्यायान्ति वै बलात् ॥ ९२१ ॥ vṛttivismaraṇaṁ samyaksamādhirdhyānasaṁjñikaḥ । samādhau kriyamāṇe tu vighnā hyāyānti vai balāt ॥ 921 ॥
  822. वृत्तेर्दृश्यपरित्यागो मुख्यार्थ इति कथ्यते । गौणार्थः कर्मसंन्यासः श्रुतेरङ्गतया मतः ॥ २०६ ॥ vṛtterdṛśyaparityāgo mukhyārtha iti kathyate । gauṇārthaḥ karmasaṁnyāsaḥ śruteraṅgatayā mataḥ ॥ 206 ॥
  823. वृत्तौ चिरानुभूतान्तरानन्दानुभवस्थितौ । समात्मतां यो यात्येष सुप्तिस्वप्न इतीर्यते ॥ ९५६ ॥ vṛttau cirānubhūtāntarānandānubhavasthitau । samātmatāṁ yo yātyeṣa suptisvapna itīryate ॥ 956 ॥
  824. वेदान्तवाक्यानुगुणयुक्तिभिस्त्वनुचिन्तनम् । मननं तच्छ्रुतार्थस्य साक्षात्करणकारणम् ॥ ८१३ ॥ vedāntavākyānuguṇayuktibhistvanucintanam । mananaṁ tacchrutārthasya sākṣātkaraṇakāraṇam ॥ 813 ॥
  825. वेदान्तशास्त्रसिद्धान्तसारसङ्ग्रह उच्यते । प्रेक्षावतां मुमुक्षूणां सुखबोधोपपत्तये ॥ ४ ॥ vedāntaśāstrasiddhāntasārasaṅgraha ucyate । prekṣāvatāṁ mumukṣūṇāṁ sukhabodhopapattaye ॥ 4 ॥
  826. वेदेनाप्यसदेवेदमग्र आसीदिति स्फुटम् । निरुच्यते यतस्तस्माच्छून्यस्यैवात्मता मता ॥ ५७४ ॥ vedenāpyasadevedamagra āsīditi sphuṭam । nirucyate yatastasmācchūnyasyaivātmatā matā ॥ 574 ॥
  827. वैराग्यरहिता एव यमालय इवालये । क्लिश्नन्ति त्रिविधैस्तापैर्मोहिता अपि पण्डिताः ॥ ९३ ॥ vairāgyarahitā eva yamālaya ivālaye । kliśnanti trividhaistāpairmohitā api paṇḍitāḥ ॥ 93 ॥
  828. वैलक्षण्यं च सामग्र्योश्चोभयत्राधिकारिणोः । कामी कर्मण्यधिकृतो निष्कामी श्रवणे मतः ॥ १७८ ॥ vailakṣaṇyaṁ ca sāmagryoścobhayatrādhikāriṇoḥ । kāmī karmaṇyadhikṛto niṣkāmī śravaṇe mataḥ ॥ 178 ॥
  829. वैश्वानरो विश्वनरेष्वात्मत्वेनाभिमानतः । विराट् स्याद्विविधत्वेन स्वयमेव विराजनात् ॥ ४३९ ॥ vaiśvānaro viśvanareṣvātmatvenābhimānataḥ । virāṭ syādvividhatvena svayameva virājanāt ॥ 439 ॥
  830. व्यष्टिरेषास्य विश्वस्य भवति स्थूलविग्रहः । उच्यतेऽन्नविकारित्वात्कोशोऽन्नमय इत्ययम् ॥ ४४३ ॥ vyaṣṭireṣāsya viśvasya bhavati sthūlavigrahaḥ । ucyate'nnavikāritvātkośo'nnamaya ityayam ॥ 443 ॥
  831. व्यष्टिर्मलिनसत्वैषा रजसा तमसा युता । ततो निकृष्टा भवति योपाधिः प्रत्यगात्मनः ॥ ३१८ ॥ vyaṣṭirmalinasatvaiṣā rajasā tamasā yutā । tato nikṛṣṭā bhavati yopādhiḥ pratyagātmanaḥ ॥ 318 ॥
  832. व्युत्क्रमेण तदुत्पत्तेर्द्रष्टव्यं सूक्ष्मबुद्धिभिः । प्रतीतस्यास्य जगतः सन्मात्रत्वं सुयुक्तिभिः ॥ ६८१ ॥ vyutkrameṇa tadutpatterdraṣṭavyaṁ sūkṣmabuddhibhiḥ । pratītasyāsya jagataḥ sanmātratvaṁ suyuktibhiḥ ॥ 681 ॥
  833. व्रीह्याद्योषधयः सर्वा वायुतेजोम्बुभूमयः । सर्वेषामप्यभूदन्नं चतुर्विधशरीरिणाम् ॥ ४३२ ॥ vrīhyādyoṣadhayaḥ sarvā vāyutejombubhūmayaḥ । sarveṣāmapyabhūdannaṁ caturvidhaśarīriṇām ॥ 432 ॥
  834. शक्त्या महत्यावरणाभिधानयासमावृते सत्यमलस्वरूपे । पुमाननात्मन्यहमेष एवे - त्यात्मत्वबुद्धिं विदधाति मोहात् ॥ ४९३ ॥ śaktyā mahatyāvaraṇābhidhānayāsamāvṛte satyamalasvarūpe । pumānanātmanyahameṣa eve - tyātmatvabuddhiṁ vidadhāti mohāt ॥ 493 ॥
  835. शब्दादिविषयेभ्यो यो विषवन्न निवर्तते । तीव्रमोक्षेच्छया भिक्षोस्तस्य शान्तिर्न सिध्यति ॥ १०२ ॥ śabdādiviṣayebhyo yo viṣavanna nivartate । tīvramokṣecchayā bhikṣostasya śāntirna sidhyati ॥ 102 ॥
  836. शमादिषट्कसम्पत्तिस्तृतीयं साधनम् मतम् । तुरीयं तु मुमुक्षुत्वं साधनं शास्त्रसम्मतम् ॥ १५ ॥ śamādiṣaṭkasampattistṛtīyaṁ sādhanam matam । turīyaṁ tu mumukṣutvaṁ sādhanaṁ śāstrasammatam ॥ 15 ॥
  837. शमो दमस्तितिक्षोपरतिः श्रद्धा ततः परम् । समाधानमिति प्रोक्तं षडेवैते शमादयः ॥ ९४ ॥ śamo damastitikṣoparatiḥ śraddhā tataḥ param । samādhānamiti proktaṁ ṣaḍevaite śamādayaḥ ॥ 94 ॥
  838. शरीरकरणग्रामा प्राणाहमधिदेवताः । पञ्चैते हेतवः प्रोक्ता निष्पत्तौ सर्वकर्मणाम् ॥ ४२१ ॥ śarīrakaraṇagrāmā prāṇāhamadhidevatāḥ । pañcaite hetavaḥ proktā niṣpattau sarvakarmaṇām ॥ 421 ॥
  839. शरीरतद्योगतदीयधर्मा - द्यारोपणं भ्रान्तिवशात्त्वयीदम् । न वस्तुतः किञ्चिदतस्त्वजस्त्वंमृत्योर्भयं क्वास्ति तवासि पूर्णः ॥ ७८१ ॥ śarīratadyogatadīyadharmā - dyāropaṇaṁ bhrāntivaśāttvayīdam । na vastutaḥ kiñcidatastvajastvaṁmṛtyorbhayaṁ kvāsti tavāsi pūrṇaḥ ॥ 781 ॥
  840. शान्ताशेषविशेषांशस्तिष्ठेदद्वैतमात्रके । अन्तर्मुखतया नित्यं षष्ठीं भूमिमुपाश्रितः ॥ ९६२ ॥ śāntāśeṣaviśeṣāṁśastiṣṭhedadvaitamātrake । antarmukhatayā nityaṁ ṣaṣṭhīṁ bhūmimupāśritaḥ ॥ 962 ॥
  841. शास्त्रविद्गुणदोषज्ञो भोग्यमात्रे विनिस्पृहः । नित्यानित्यपदार्थज्ञो मुक्तिकामो दृढव्रतः ॥ २३४ ॥ śāstravidguṇadoṣajño bhogyamātre vinispṛhaḥ । nityānityapadārthajño muktikāmo dṛḍhavrataḥ ॥ 234 ॥
  842. शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा ॥ ९४२ ॥ śāstrasajjanasamparkavairāgyābhyāsapūrvakam । sadācārapravṛttiryā procyate sā vicāraṇā ॥ 942 ॥
  843. शास्त्रार्थकोविदैरर्थो वाच्यो लक्ष्य इति द्विधा । वाच्यार्थं ते प्रवक्ष्यामि पण्डितैर्य उदीरितः ॥ ७०९ ॥ śāstrārthakovidairartho vācyo lakṣya iti dvidhā । vācyārthaṁ te pravakṣyāmi paṇḍitairya udīritaḥ ॥ 709 ॥
  844. शिरो विवेकस्त्वत्यन्तं वैराग्यं वपुरुच्यते । शमादयः षडङ्गानि मोक्षेच्छा प्राण इष्यते ॥ २४९ ॥ śiro vivekastvatyantaṁ vairāgyaṁ vapurucyate । śamādayaḥ ṣaḍaṅgāni mokṣecchā prāṇa iṣyate ॥ 249 ॥
  845. शिव एव गुरुः साक्षात् गुरुरेव शिवः स्वयम् । उभयोरन्तरं किञ्चिन्न द्रष्टव्यं मुमुक्षुभिः ॥ २५६ ॥ śiva eva guruḥ sākṣāt gurureva śivaḥ svayam । ubhayorantaraṁ kiñcinna draṣṭavyaṁ mumukṣubhiḥ ॥ 256 ॥
  846. शिवः शैवागमस्थानां कालः कालैकवादिनाम् । यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् । यत्सर्वं सर्वगं वस्तु तत्तत्त्वं तदसौ स्थितः ॥ ९८२ ॥ śivaḥ śaivāgamasthānāṁ kālaḥ kālaikavādinām । yatsarvaśāstrasiddhāntaṁ yatsarvahṛdayānugam । yatsarvaṁ sarvagaṁ vastu tattattvaṁ tadasau sthitaḥ ॥ 982 ॥
  847. शिवप्रसादेन विना न सिद्धिःशिवप्रसादेन विना न बुद्धिः । शिवप्रसादेन विना न युक्तिःशिवप्रसादेन विना न मुक्तिः ॥ २७९ ॥ śivaprasādena vinā na siddhiḥśivaprasādena vinā na buddhiḥ । śivaprasādena vinā na yuktiḥśivaprasādena vinā na muktiḥ ॥ 279 ॥
  848. शिष्टान्नमीशार्चनमार्यसेवांतीर्थाटनं स्वाश्रमधर्मनिष्ठाम् । यमानुषक्तिं नियमानुवृत्तिंचित्तप्रसादाय वदन्ति तज्ज्ञाः ॥ ३६८ ॥ śiṣṭānnamīśārcanamāryasevāṁtīrthāṭanaṁ svāśramadharmaniṣṭhām । yamānuṣaktiṁ niyamānuvṛttiṁcittaprasādāya vadanti tajjñāḥ ॥ 368 ॥
  849. शुक्तेर्बाधा न खल्वस्ति रजतस्य यथा तथा । अवस्तुसंज्ञितं यत्तज्जगदध्यासकारणम् ॥ ३०१ ॥ śukterbādhā na khalvasti rajatasya yathā tathā । avastusaṁjñitaṁ yattajjagadadhyāsakāraṇam ॥ 301 ॥
  850. शुद्धं बुद्धं तत्त्वसिद्धं परं प्रत्यगखण्डितम् । स्वप्रकाशं पराकाशं ब्रह्मैवास्मीति भावयेत् ॥ ८९६ ॥ śuddhaṁ buddhaṁ tattvasiddhaṁ paraṁ pratyagakhaṇḍitam । svaprakāśaṁ parākāśaṁ brahmaivāsmīti bhāvayet ॥ 896 ॥
  851. शुद्धचैतन्यरूपत्वं चित्त्वं ज्ञानस्वरूपतः । अखण्डसुखरूपत्वादानन्दत्वमितीर्यते ॥ ६११ ॥ śuddhacaitanyarūpatvaṁ cittvaṁ jñānasvarūpataḥ । akhaṇḍasukharūpatvādānandatvamitīryate ॥ 611 ॥
  852. शुद्धोऽहं बुद्धोऽहं प्रत्यग्रूपेण नित्यसिद्धोऽहम् । शान्तोऽहमनन्तोऽहं सततपरानन्दसिन्धुरेवाहम् ॥ ८६६ ॥ śuddho'haṁ buddho'haṁ pratyagrūpeṇa nityasiddho'ham । śānto'hamananto'haṁ satataparānandasindhurevāham ॥ 866 ॥
  853. शुश्रूषया सदा भक्त्या प्रणामैर्विनयोक्तिभिः । प्रसन्नं गुरुमासाद्य प्रष्टव्यं ज्ञेयमात्मनः ॥ २५८ ॥ śuśrūṣayā sadā bhaktyā praṇāmairvinayoktibhiḥ । prasannaṁ gurumāsādya praṣṭavyaṁ jñeyamātmanaḥ ॥ 258 ॥
  854. शृणु वक्ष्यामि सकलं यद्यत्पृष्टं त्वयाधुना । रहस्यं परमं सूक्ष्मं ज्ञातव्यं च मुमुक्षुभिः ॥ ५८५ ॥ śṛṇu vakṣyāmi sakalaṁ yadyatpṛṣṭaṁ tvayādhunā । rahasyaṁ paramaṁ sūkṣmaṁ jñātavyaṁ ca mumukṣubhiḥ ॥ 585 ॥
  855. शृणुष्वावहितो विद्वन् अद्य ते फलितं तपः । वाक्यार्थश्रुतिमात्रेण सम्यग्ज्ञानं भविष्यति ॥ ७०३ ॥
  856. शौक्ल्याद्व्यावर्तते नीलेनोत्पलं तु विशेषितम् । इत्थमन्योन्यभेदस्य व्यावर्तकतया तयोः ॥ ७१५ ॥ śauklyādvyāvartate nīlenotpalaṁ tu viśeṣitam । itthamanyonyabhedasya vyāvartakatayā tayoḥ ॥ 715 ॥
  857. श्रद्धाभक्तिपुरःसरेण विहितेनैवेश्वरं कर्मणासन्तोष्यार्जिततत्प्रसादमहिमा जन्मान्तरेष्वेव यः । नित्यानित्यविवेकतीव्रविरतिन्यासादिभिः साधनै - र्युक्तः सः श्रवणे सतामभिमतो मुख्याधिकारी द्विजः ॥ ७९६ ॥ śraddhābhaktipuraḥsareṇa vihitenaiveśvaraṁ karmaṇāsantoṣyārjitatatprasādamahimā janmāntareṣveva yaḥ । nityānityavivekatīvraviratinyāsādibhiḥ sādhanai - ryuktaḥ saḥ śravaṇe satāmabhimato mukhyādhikārī dvijaḥ ॥ 796 ॥
  858. श्रद्धाभक्तिमतीं सतीं गुणवतीं पुत्राञ्श्रुतान्सम्मता - नक्षय्यं वसुधानुभोगविभवैः श्रीसुन्दरं मन्दिरम् । सर्वं नश्वरमित्यवेत्य कवयः श्रुत्युक्तिभिर्युक्तिभिः संन्यस्यन्त्यपरे तु तत्सुखमिति भ्राम्यन्ति दुःखार्णवे ॥ ८४ ॥ śraddhābhaktimatīṁ satīṁ guṇavatīṁ putrāñśrutānsammatā - nakṣayyaṁ vasudhānubhogavibhavaiḥ śrīsundaraṁ mandiram । sarvaṁ naśvaramityavetya kavayaḥ śrutyuktibhiryuktibhiḥ saṁnyasyantyapare tu tatsukhamiti bhrāmyanti duḥkhārṇave ॥ 84 ॥
  859. श्रद्धावतामेव सतां पुमर्थःसमीरितः सिध्यति नेतरेषाम् । उक्तं सुसूक्ष्मं परमार्थतत्त्वंश्रद्धत्स्व सोम्येति च वक्ति वेदः ॥ २११ ॥ śraddhāvatāmeva satāṁ pumarthaḥsamīritaḥ sidhyati netareṣām । uktaṁ susūkṣmaṁ paramārthatattvaṁśraddhatsva somyeti ca vakti vedaḥ ॥ 211 ॥
  860. श्रद्धाविहीनस्य तु न प्रवृत्तिःप्रवृत्तिशून्यस्य न साध्यसिद्धिः । अश्रद्धयैवाभिहताश्च सर्वेमज्जन्ति संसारमहासमुद्रे ॥ २१२ ॥ śraddhāvihīnasya tu na pravṛttiḥpravṛttiśūnyasya na sādhyasiddhiḥ । aśraddhayaivābhihatāśca sarvemajjanti saṁsāramahāsamudre ॥ 212 ॥
  861. श्रवणं मननं ध्यानं सम्यग्वस्तूपलब्धये । सर्ववेदान्तवाक्यानां षड्भिर्लिङ्गैः सदद्वये ॥ ८११ ॥ śravaṇaṁ mananaṁ dhyānaṁ samyagvastūpalabdhaye । sarvavedāntavākyānāṁ ṣaḍbhirliṅgaiḥ sadadvaye ॥ 811 ॥
  862. श्रीमद्भिरुक्तं सकलं मृषेतिदृष्टान्त एव ह्युपपद्यते तत् । दार्ष्टान्तिके नैव भवादिदुःखंप्रत्यक्षतः सर्वजनप्रसिद्धम् ॥ २७१ ॥
  863. श्रुते दृष्टेऽपि वा भोग्ये यस्मिन्कस्मिंश्च वस्तुनि । समीचीनत्वधीत्यागात्कामो नोदेति कर्हिचित् ॥ ६३ ॥ śrute dṛṣṭe'pi vā bhogye yasminkasmiṁśca vastuni । samīcīnatvadhītyāgātkāmo nodeti karhicit ॥ 63 ॥
  864. श्रुत्या निरुक्तं सुखतारतम्यं ब्रह्मान्तमारभ्य महीमहेशम् । औपाधिकं तत्तु न वास्तवं चे - दालोच्य को वा विरतिं न याति ॥ ३७ ॥ śrutyā niruktaṁ sukhatāratamyaṁ brahmāntamārabhya mahīmaheśam । aupādhikaṁ tattu na vāstavaṁ ce - dālocya ko vā viratiṁ na yāti ॥ 37 ॥
  865. श्रुत्या सत्त्वपुराणानां सेवया सत्त्ववस्तुनः । अनुवृत्त्या च साधूनां सत्त्ववृत्तिः प्रजायते ॥ ३७० ॥ śrutyā sattvapurāṇānāṁ sevayā sattvavastunaḥ । anuvṛttyā ca sādhūnāṁ sattvavṛttiḥ prajāyate ॥ 370 ॥
  866. श्रुत्याधिदेवतामेवेन्द्रियेषूपचर्यते । न तु साक्षादिन्द्रियाणां चेतनत्वमुदीर्यते ॥ ५४३ ॥ śrutyādhidevatāmevendriyeṣūpacaryate । na tu sākṣādindriyāṇāṁ cetanatvamudīryate ॥ 543 ॥
  867. श्रुत्यान्योऽन्तर आत्मा प्राणमय इतीर्यते यस्मात् । तस्मात्प्राणस्यात्मत्वं युक्तं नो करणसंज्ञानां क्वापि ॥ ५४६ ॥ śrutyānyo'ntara ātmā prāṇamaya itīryate yasmāt । tasmātprāṇasyātmatvaṁ yuktaṁ no karaṇasaṁjñānāṁ kvāpi ॥ 546 ॥
  868. श्रुत्याप्येकत्वमनयोस्तात्पर्येण निगद्यते । मुहुस्तत्त्वमसीत्यस्मादङ्गीकार्यं श्रुतेर्वचः ॥ ७२६ ॥ śrutyāpyekatvamanayostātparyeṇa nigadyate । muhustattvamasītyasmādaṅgīkāryaṁ śrutervacaḥ ॥ 726 ॥
  869. श्रुत्युक्तमव्ययमनन्तमनादिमध्य - मव्यक्तमक्षरमनाश्रयमप्रमेयम् । आनन्दसद्घनमनामयमद्वितीयंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७८० ॥ śrutyuktamavyayamanantamanādimadhya - mavyaktamakṣaramanāśrayamaprameyam । ānandasadghanamanāmayamadvitīyaṁyadbrahma tattvamasi kevalabodhamātram ॥ 780 ॥
  870. श्रुत्युक्ताः षोडशकलाश्चिदाभासस्य नात्मनः । निष्कलत्वान्नास्य लयस्तस्मान्नित्यत्वमात्मनः ॥ ६१७ ॥ śrutyuktāḥ ṣoḍaśakalāścidābhāsasya nātmanaḥ । niṣkalatvānnāsya layastasmānnityatvamātmanaḥ ॥ 617 ॥
  871. श्रुत्युक्तार्थावगाहाय विदुषा ज्ञेयवस्तुनि । चित्तस्य सम्यगाधानं समाधानमितीर्यते ॥ २१८ ॥ śrutyuktārthāvagāhāya viduṣā jñeyavastuni । cittasya samyagādhānaṁ samādhānamitīryate ॥ 218 ॥
  872. श्रुत्यैव न ततस्तेषां गुणत्वमुपपद्यते । उष्णत्वं च प्रकाशश्च यथा वह्नेस्तथात्मनः ॥ ६७६ ॥ śrutyaiva na tatasteṣāṁ guṇatvamupapadyate । uṣṇatvaṁ ca prakāśaśca yathā vahnestathātmanaḥ ॥ 676 ॥
  873. श्रुत्योदितं ततो ब्रह्म ज्ञेयं बुद्ध्यैव सूक्ष्मया । प्रज्ञामान्द्यं भवेद्येषां तेषां न श्रुतिमात्रतः ॥ ८०८ ॥ śrutyoditaṁ tato brahma jñeyaṁ buddhyaiva sūkṣmayā । prajñāmāndyaṁ bhavedyeṣāṁ teṣāṁ na śrutimātrataḥ ॥ 808 ॥
  874. श्रेष्ठं पूज्यं विदित्वा मां मानयन्तु जना भुवि । इत्यासक्त्या विहीनत्वं मानानासक्तिरुच्यते ॥ १२५ ॥ śreṣṭhaṁ pūjyaṁ viditvā māṁ mānayantu janā bhuvi । ityāsaktyā vihīnatvaṁ mānānāsaktirucyate ॥ 125 ॥
  875. श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च जातानि । आकाशादीनां सत्त्वांशेभ्यो धीन्द्रियाण्यनुक्रमतः ॥ ३४१ ॥ śrotratvakcakṣurjihvāghrāṇāni pañca jātāni । ākāśādīnāṁ sattvāṁśebhyo dhīndriyāṇyanukramataḥ ॥ 341 ॥
  876. श्रोत्रादिपञ्चकं चैव वागादीनां च पञ्चकम् । प्राणादिपञ्चकं बुद्धिमनसी लिङ्गमुच्यते ॥ ३४० ॥ śrotrādipañcakaṁ caiva vāgādīnāṁ ca pañcakam । prāṇādipañcakaṁ buddhimanasī liṅgamucyate ॥ 340 ॥
  877. श्रोत्रियो ब्रह्मनिष्ठो यः प्रशान्तः समदर्शनः । निर्ममो निरहङ्कारो निर्द्वन्द्वो निष्परिग्रहः ॥ २५२ ॥ śrotriyo brahmaniṣṭho yaḥ praśāntaḥ samadarśanaḥ । nirmamo nirahaṅkāro nirdvandvo niṣparigrahaḥ ॥ 252 ॥
  878. श्लेष्मोद्गारि मुखं स्रवन्मलवती नासाश्रुमल्लोचनं स्वेदस्रावि मलाभिपूर्णमभितो दुर्गन्धदुष्टं वपुः । अन्यद्वक्तुमशक्यमेव मनसा मन्तुं क्वचिन्नार्हति स्त्रीरूपं कथमीदृशं सुमनसां पात्रीभवेन्नेत्रयोः ॥ ५० ॥ śleṣmodgāri mukhaṁ sravanmalavatī nāsāśrumallocanaṁ svedasrāvi malābhipūrṇamabhito durgandhaduṣṭaṁ vapuḥ । anyadvaktumaśakyameva manasā mantuṁ kvacinnārhati strīrūpaṁ kathamīdṛśaṁ sumanasāṁ pātrībhavennetrayoḥ ॥ 50 ॥
  879. षड्भूमिकाचिराभ्यासाद्भेदस्यानुपलम्भनात् । यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः ॥ ९४८ ॥ ṣaḍbhūmikācirābhyāsādbhedasyānupalambhanāt । yatsvabhāvaikaniṣṭhatvaṁ sā jñeyā turyagā gatiḥ ॥ 948 ॥
  880. स एव सद्यस्तरति संसृतिं गुर्वनुग्रहात् । यस्तु तीव्रमुमुक्षुः स्यात्स जीवन्नेव मुच्यते ॥ २३६ ॥ sa eva sadyastarati saṁsṛtiṁ gurvanugrahāt । yastu tīvramumukṣuḥ syātsa jīvanneva mucyate ॥ 236 ॥
  881. स वस्तुधर्मो नो यस्मान्मनस्येवोपलभ्यते । वस्तुधर्मस्य मनसि कथं स्यादुपलम्भनम् ॥ ६४१ ॥ sa vastudharmo no yasmānmanasyevopalabhyate । vastudharmasya manasi kathaṁ syādupalambhanam ॥ 641 ॥
  882. संन्यसेत्सुविरक्तः सन्निहामुत्रार्थतः सुखात् । अविरक्तस्य संन्यासो निष्फलोऽयाज्ययागवत् ॥ २०८ ॥ saṁnyasetsuviraktaḥ sannihāmutrārthataḥ sukhāt । aviraktasya saṁnyāso niṣphalo'yājyayāgavat ॥ 208 ॥
  883. संन्यस्य तु यतिः कुर्यान्न पूर्वविषयस्मृतिम् । तां तां तत्स्मरणे तस्य जुगुप्सा जायते यतः ॥ २०९ ॥ saṁnyasya tu yatiḥ kuryānna pūrvaviṣayasmṛtim । tāṁ tāṁ tatsmaraṇe tasya jugupsā jāyate yataḥ ॥ 209 ॥
  884. संमिता इन्द्रियस्थानेष्विन्द्रियाणां समन्ततः । निगृह्णन्त्यनुगृह्णन्ति प्राणिकर्मानुरूपतः ॥ ४२० ॥ saṁmitā indriyasthāneṣvindriyāṇāṁ samantataḥ । nigṛhṇantyanugṛhṇanti prāṇikarmānurūpataḥ ॥ 420 ॥
  885. संयोज्य स्थूलतां यान्ति व्योमादीनि यथाक्रमम् । अमुष्य पञ्चीकरणस्याप्रामाण्यं न शङ्क्यताम् ॥ ४०१ ॥ saṁyojya sthūlatāṁ yānti vyomādīni yathākramam । amuṣya pañcīkaraṇasyāprāmāṇyaṁ na śaṅkyatām ॥ 401 ॥
  886. संसारबन्धनिर्मुक्तिः कदा झटिति मे भवेत् । इति या सुदृढा बुद्धिरीरिता सा मुमुक्षुता ॥ १२७ ॥ saṁsārabandhanirmuktiḥ kadā jhaṭiti me bhavet । iti yā sudṛḍhā buddhirīritā sā mumukṣutā ॥ 127 ॥
  887. संसारमृत्योर्बलिनः प्रवेष्टुं द्वाराणि तु त्रीणि महान्ति लोके । कान्ता च जिह्वा कनकं च तानि रुणद्धि यस्तस्य भयं न मृत्योः ॥ ८८ ॥ saṁsāramṛtyorbalinaḥ praveṣṭuṁ dvārāṇi tu trīṇi mahānti loke । kāntā ca jihvā kanakaṁ ca tāni ruṇaddhi yastasya bhayaṁ na mṛtyoḥ ॥ 88 ॥
  888. सङ्कल्पवानहं चिन्तावानहं च विकल्पवान् । इत्याद्यनुभवादन्योऽन्तर आत्मा मनोमयः ॥ ५५१ ॥ saṅkalpavānahaṁ cintāvānahaṁ ca vikalpavān । ityādyanubhavādanyo'ntara ātmā manomayaḥ ॥ 551 ॥
  889. सङ्कल्पानुदये हेतुर्यथाभूतार्थदर्शनम् । अनर्थचिन्तनं चाभ्यां नावकाशोऽस्य विद्यते ॥ ६७ ॥ saṅkalpānudaye heturyathābhūtārthadarśanam । anarthacintanaṁ cābhyāṁ nāvakāśo'sya vidyate ॥ 67 ॥
  890. सङ्कल्पान्मन इत्याहुर्बुद्धिरर्थस्य निश्चयात् । अभिमानादहङ्कारश्चित्तमर्थस्य चिन्तनात् ॥ ३४५ ॥ saṅkalpānmana ityāhurbuddhirarthasya niścayāt । abhimānādahaṅkāraścittamarthasya cintanāt ॥ 345 ॥
  891. सच्चिन्तनस्य सम्बाधो विघ्नोऽयं निर्जने ततः । स्थेयमित्येक एवास्ति चेत्सैवैकान्तशीलता ॥ १२६ ॥ saccintanasya sambādho vighno'yaṁ nirjane tataḥ । stheyamityeka evāsti cetsaivaikāntaśīlatā ॥ 126 ॥
  892. सञ्जाताहङ्कृतित्यागस्त्वभिमानविसर्जनम् । त्रिभिश्च करणैः सम्यग्हित्वा वैषयिकीं क्रियाम् ॥ १२१ ॥ sañjātāhaṅkṛtityāgastvabhimānavisarjanam । tribhiśca karaṇaiḥ samyaghitvā vaiṣayikīṁ kriyām ॥ 121 ॥
  893. सतामपि पदार्थस्य लाभाल्लोभः प्रवर्धते । विवेको लुप्यते लोभात्तस्मिंल्लुप्ते विनश्यति ॥ ७३ ॥ satāmapi padārthasya lābhāllobhaḥ pravardhate । viveko lupyate lobhāttasmiṁllupte vinaśyati ॥ 73 ॥
  894. सति प्रपञ्चे जीवे वाद्वैतत्वं ब्रह्मणः कुतः । अतस्तयोरखण्डत्वमेकत्वं श्रुतिसम्मतम् ॥ ७३१ ॥ sati prapañce jīve vādvaitatvaṁ brahmaṇaḥ kutaḥ । atastayorakhaṇḍatvamekatvaṁ śrutisammatam ॥ 731 ॥
  895. सतो भिन्नमभिन्नं वा न दीपस्य प्रभा यथा । न सावयवमन्यद्वा बीजस्याङ्कुरवत्क्वचित् ॥ ३०६ ॥ sato bhinnamabhinnaṁ vā na dīpasya prabhā yathā । na sāvayavamanyadvā bījasyāṅkuravatkvacit ॥ 306 ॥
  896. सत्कर्मक्षयपाप्मनां श्रुतिमतां सिद्धात्मनां धीमतां नित्यानित्यपदार्थशोधनमिदं युक्त्या मुहुः कुर्वताम् । तस्मादुत्थमहाविरक्त्यसिमतां मोक्षैककाङ्क्षावतां धन्यानां सुलभं स्त्रियादिविषयेष्वाशालताच्छेदनम् ॥ ८७ ॥ satkarmakṣayapāpmanāṁ śrutimatāṁ siddhātmanāṁ dhīmatāṁ nityānityapadārthaśodhanamidaṁ yuktyā muhuḥ kurvatām । tasmādutthamahāviraktyasimatāṁ mokṣaikakāṅkṣāvatāṁ dhanyānāṁ sulabhaṁ striyādiviṣayeṣvāśālatācchedanam ॥ 87 ॥
  897. सत्त्वं चित्त्वं तथानन्दस्वरूपं परमात्मनः । निर्गुणस्य गुणायोगाद्गुणास्तु न भवन्ति ते ॥ ६७३ ॥ sattvaṁ cittvaṁ tathānandasvarūpaṁ paramātmanaḥ । nirguṇasya guṇāyogādguṇāstu na bhavanti te ॥ 673 ॥
  898. सत्त्वचित्त्वानन्दतादि स्वरूपमिति निश्चितम् । अत एव सजातीयविजातीयादिलक्षणः ॥ ६७७ ॥ sattvacittvānandatādi svarūpamiti niścitam । ata eva sajātīyavijātīyādilakṣaṇaḥ ॥ 677 ॥
  899. सत्त्वचित्त्वानन्दतादिलक्षणं प्रत्यगात्मनः । कालत्रयेऽप्यबाध्यत्वं सत्यं नित्यस्वरूपतः ॥ ६१० ॥ sattvacittvānandatādilakṣaṇaṁ pratyagātmanaḥ । kālatraye'pyabādhyatvaṁ satyaṁ nityasvarūpataḥ ॥ 610 ॥
  900. सत्त्वप्रधाने चित्तेऽस्मिंस्त्वात्मैव प्रतिबिम्बति । आनन्दलक्षणः स्वच्छे पयसीव सुधाकरः ॥ ६४७ ॥ sattvapradhāne citte'smiṁstvātmaiva pratibimbati । ānandalakṣaṇaḥ svacche payasīva sudhākaraḥ ॥ 647 ॥
  901. सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका । पदार्थाभावना षष्ठी सप्तमी तुर्यगा स्मृता ॥ ९४० ॥ sattvāpattiścaturthī syāttato'saṁsaktināmikā । padārthābhāvanā ṣaṣṭhī saptamī turyagā smṛtā ॥ 940 ॥
  902. सत्यं निर्ममता स्थैर्यमभिमानविसर्जनम् । ईश्वरध्यानपरता ब्रह्मविद्भिः सहस्थितिः ॥ १०६ ॥ satyaṁ nirmamatā sthairyamabhimānavisarjanam । īśvaradhyānaparatā brahmavidbhiḥ sahasthitiḥ ॥ 106 ॥
  903. सत्यमित्युच्यते ब्रह्म सत्यमित्यभिभाषणम् । देहादिषु स्वकीयत्वदृढबुद्धिविसर्जनम् ॥ ११८ ॥ satyamityucyate brahma satyamityabhibhāṣaṇam । dehādiṣu svakīyatvadṛḍhabuddhivisarjanam ॥ 118 ॥
  904. सत्यर्थेऽपि च नोदेति ह्यानन्दस्तूक्तलक्षणः । सत्यपि व्यञ्जके व्यङ्ग्यानुदयो नैव सम्मतः ॥ ६४४ ॥ satyarthe'pi ca nodeti hyānandastūktalakṣaṇaḥ । satyapi vyañjake vyaṅgyānudayo naiva sammataḥ ॥ 644 ॥
  905. सत्युपाध्योरभिन्नत्वे क्व भेदस्तद्विशिष्टयोः । एकीभावे तरङ्गाब्ध्योः को भेदः प्रतिबिम्बयोः ॥ ३२७ ॥ satyupādhyorabhinnatve kva bhedastadviśiṣṭayoḥ । ekībhāve taraṅgābdhyoḥ ko bhedaḥ pratibimbayoḥ ॥ 327 ॥
  906. सदयं ह्येष एवेति प्रस्तुत्य वदति श्रुतिः । सद्घनोऽयं चिद्घनोऽयमानन्दघन इत्यपि ॥ ६६५ ॥ sadayaṁ hyeṣa eveti prastutya vadati śrutiḥ । sadghano'yaṁ cidghano'yamānandaghana ityapi ॥ 665 ॥
  907. सदसद्भ्यामनिर्वाच्यमज्ञानं त्रिगुणात्मकम् । वस्तु तत्त्वावबोधैकबाध्यं तद्भावलक्षणम् ॥ ३०२ ॥ sadasadbhyāmanirvācyamajñānaṁ triguṇātmakam । vastu tattvāvabodhaikabādhyaṁ tadbhāvalakṣaṇam ॥ 302 ॥
  908. सद्भावे लिङ्गमेतस्य कार्यमेतच्चराचरम् । मानं श्रुतिः स्मृतिश्चाज्ञोऽहमित्यनुभवोऽपि च ॥ ३०४ ॥ sadbhāve liṅgametasya kāryametaccarācaram । mānaṁ śrutiḥ smṛtiścājño'hamityanubhavo'pi ca ॥ 304 ॥
  909. सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥ ८२१ ॥ sadbhiḥ sa eva vijñeyaḥ samādhiḥ savikalpakaḥ । mṛda evāvabhāne'pi mṛṇmayadvipabhānavat ॥ 821 ॥
  910. सन्मात्रवस्तुभानेऽपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ८२२ ॥ sanmātravastubhāne'pi tripuṭī bhāti sanmayī । samādhirata evāyaṁ savikalpa itīryate ॥ 822 ॥
  911. समष्टिः स्यात्तरुगणः सामान्येन वनं यथा । एतत्समष्ट्युपहितं चैतन्यं सफलं जगुः ॥ ३८७ ॥ samaṣṭiḥ syāttarugaṇaḥ sāmānyena vanaṁ yathā । etatsamaṣṭyupahitaṁ caitanyaṁ saphalaṁ jaguḥ ॥ 387 ॥
  912. समष्टिरूपमज्ञानं साभासं सत्त्वबृंहितम् । वियदादिविराडन्तं स्वकार्येण समन्वितम् ॥ ७१० ॥ samaṣṭirūpamajñānaṁ sābhāsaṁ sattvabṛṁhitam । viyadādivirāḍantaṁ svakāryeṇa samanvitam ॥ 710 ॥
  913. समष्टेरपि च व्यष्टेः सामान्येनैव पूर्ववत् । अभेद एव ज्ञातव्यो जात्येकत्वे कुतो भिदा ॥ ३९४ ॥ samaṣṭerapi ca vyaṣṭeḥ sāmānyenaiva pūrvavat । abheda eva jñātavyo jātyekatve kuto bhidā ॥ 394 ॥
  914. समस्तेभ्यो रजोंशेभ्यो व्योमादीनां क्रियात्मकाः । प्राणादयः समुत्पन्नाः पञ्चाप्यान्तरवायवः ॥ ३७६ ॥ samastebhyo rajoṁśebhyo vyomādīnāṁ kriyātmakāḥ । prāṇādayaḥ samutpannāḥ pañcāpyāntaravāyavaḥ ॥ 376 ॥
  915. समाधिः कः कतिविधस्तत्सिद्धेः किमु साधनम् । समाधेरन्तरायाः के सर्वमेतन्निरूप्यताम् ॥ ७९४ ॥ samādhiḥ kaḥ katividhastatsiddheḥ kimu sādhanam । samādherantarāyāḥ ke sarvametannirūpyatām ॥ 794 ॥
  916. समाधिसुप्त्योर्ज्ञानं चाज्ञानं सुप्त्यात्र नेष्यते । सविकल्पो निर्विकल्पः समाधी द्वाविमौ हृदि ॥ ८२७ ॥ samādhisuptyorjñānaṁ cājñānaṁ suptyātra neṣyate । savikalpo nirvikalpaḥ samādhī dvāvimau hṛdi ॥ 827 ॥
  917. सम्पन्नोऽन्धवदेव किञ्चिदपरं नो वीक्षते चक्षुषा सद्भिर्वर्जितमार्ग एव चरति प्रोत्सारितो बालिशैः । तस्मिन्नेव मुहुः स्खलन्प्रतिपदं गत्वान्धकूपे पत - त्यस्यान्धत्वनिवर्तकौषधमिदं दारिद्र्यमेवाञ्जनम् ॥ ७८ ॥ sampanno'ndhavadeva kiñcidaparaṁ no vīkṣate cakṣuṣā sadbhirvarjitamārga eva carati protsārito bāliśaiḥ । tasminneva muhuḥ skhalanpratipadaṁ gatvāndhakūpe pata - tyasyāndhatvanivartakauṣadhamidaṁ dāridryamevāñjanam ॥ 78 ॥
  918. सम्प्रीतिमक्ष्णोर्वदनप्रसाद - मानन्दमन्तःकरणस्य सद्यः । विलोकनं ब्रह्मविदस्तनोतिछिनत्ति मोहं सुगतिं व्यनक्ति ॥ २६१ ॥ samprītimakṣṇorvadanaprasāda - mānandamantaḥkaraṇasya sadyaḥ । vilokanaṁ brahmavidastanotichinatti mohaṁ sugatiṁ vyanakti ॥ 261 ॥
  919. सम्बन्धानुपपत्त्या च लक्षणेति जगुर्बुधाः । गङ्गायां घोष इत्यादौ या जहल्लक्षणा मता ॥ ७३४ ॥ sambandhānupapattyā ca lakṣaṇeti jagurbudhāḥ । gaṅgāyāṁ ghoṣa ityādau yā jahallakṣaṇā matā ॥ 734 ॥
  920. सम्यक्प्राबोधयत्तत्त्वं शास्त्रदृष्टेन वर्त्मना । सर्वेषामुपकाराय तत्प्रकारोऽत्र दर्श्यते ॥ २९६ ॥ samyakprābodhayattattvaṁ śāstradṛṣṭena vartmanā । sarveṣāmupakārāya tatprakāro'tra darśyate ॥ 296 ॥
  921. सम्यक्समाधिनिरतैर्विमलान्तरङ्गेसाक्षादवेक्ष्य निजतत्त्वमपारसौख्यम् । सन्तुष्यते परमहंसकुलैरजस्रंयद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७८ ॥ samyaksamādhiniratairvimalāntaraṅgesākṣādavekṣya nijatattvamapārasaukhyam । santuṣyate paramahaṁsakulairajasraṁyadbrahma tattvamasi kevalabodhamātram ॥ 778 ॥
  922. सर्गं वक्त्यस्य तस्माद्वा एतस्मादित्यपि श्रुतिः । सकाशाद्ब्रह्मणस्तस्मादनित्यत्वे न संशयः ॥ १९ ॥ sargaṁ vaktyasya tasmādvā etasmādityapi śrutiḥ । sakāśādbrahmaṇastasmādanityatve na saṁśayaḥ ॥ 19 ॥
  923. सर्वं सर्वगतं शान्तं ब्रह्म सम्पद्यते तदा । इति श्रुत्वा गुरोर्वाक्यं शिष्यस्तु छिन्नसंशयः ॥ १००२ ॥ sarvaṁ sarvagataṁ śāntaṁ brahma sampadyate tadā । iti śrutvā gurorvākyaṁ śiṣyastu chinnasaṁśayaḥ ॥ 1002 ॥
  924. सर्वज्ञत्वेश्वरत्वादिकारणत्वान्मनीषिणः । कारणं वपुरित्याहुः समष्टिं सत्त्वबृंहितम् ॥ ३१३ ॥ sarvajñatveśvaratvādikāraṇatvānmanīṣiṇaḥ । kāraṇaṁ vapurityāhuḥ samaṣṭiṁ sattvabṛṁhitam ॥ 313 ॥
  925. सर्वज्ञोऽप्रतिबद्धबोधविभवस्तेनैव देवः स्वयंमायां स्वामवलम्ब्य निश्चलतया स्वच्छन्दवृत्तिः प्रभुः । सृष्टिस्थित्यदनप्रवेशयमनव्यापारमात्रेच्छयाकुर्वन्क्रीडति तद्रजस्तम उभे संस्तभ्य शक्त्या स्वया ॥ ५०४ ॥ sarvajño'pratibaddhabodhavibhavastenaiva devaḥ svayaṁmāyāṁ svāmavalambya niścalatayā svacchandavṛttiḥ prabhuḥ । sṛṣṭisthityadanapraveśayamanavyāpāramātrecchayākurvankrīḍati tadrajastama ubhe saṁstabhya śaktyā svayā ॥ 504 ॥
  926. सर्वदाप्यासमित्येवाभिन्नप्रत्यय ईक्ष्यते । कदापि नासमित्यस्मादात्मनो नित्यता मता ॥ ६१३ ॥ sarvadāpyāsamityevābhinnapratyaya īkṣyate । kadāpi nāsamityasmādātmano nityatā matā ॥ 613 ॥
  927. सर्वमेतद्यथापूर्वं करामलकवत्स्फुटम् । प्रतिपादय मे स्वामिन् श्रीगुरो करुणानिधे ॥ २७७ ॥ sarvametadyathāpūrvaṁ karāmalakavatsphuṭam । pratipādaya me svāmin śrīguro karuṇānidhe ॥ 277 ॥
  928. सर्ववेदान्तसिद्धान्तसारसङ्ग्रहनामकः । ग्रन्थोऽयं हृदयग्रन्थिविच्छित्त्यै रचितः सताम् ॥ १००६ ॥ sarvavedāntasiddhāntasārasaṅgrahanāmakaḥ । grantho'yaṁ hṛdayagranthivicchittyai racitaḥ satām ॥ 1006 ॥
  929. सर्वस्य दाहको वह्निर्वह्नेर्नान्योऽस्ति दाहकः । यथा तथात्मनो ज्ञातुर्ज्ञाता कोऽपि न दृश्यते ॥ ६०१ ॥ sarvasya dāhako vahnirvahnernānyo'sti dāhakaḥ । yathā tathātmano jñāturjñātā ko'pi na dṛśyate ॥ 601 ॥
  930. सर्वस्यानित्यत्वे सावयवत्वेन सर्वतः सिद्धे । वैकुण्ठादिषु नित्यत्वमतिर्भ्रम एव मूढबुद्धीनाम् ॥ २० ॥ sarvasyānityatve sāvayavatvena sarvataḥ siddhe । vaikuṇṭhādiṣu nityatvamatirbhrama eva mūḍhabuddhīnām ॥ 20 ॥
  931. सर्वाकारं सर्वमसर्वं सर्वनिषेधावधिभूतं यत् । सत्यं शाश्वतमेकमनन्तं शुद्धं बुद्धं तत्त्वमसि त्वम् ॥ ७८७ ॥ sarvākāraṁ sarvamasarvaṁ sarvaniṣedhāvadhibhūtaṁ yat । satyaṁ śāśvatamekamanantaṁ śuddhaṁ buddhaṁ tattvamasi tvam ॥ 787 ॥
  932. सर्वात्मभावो विदुषो ब्रह्मविद्याफलं विदुः । जीवन्मुक्तस्य तस्यैव स्वानन्दानुभवः फलम् ॥ ९०५ ॥ sarvātmabhāvo viduṣo brahmavidyāphalaṁ viduḥ । jīvanmuktasya tasyaiva svānandānubhavaḥ phalam ॥ 905 ॥
  933. सर्वानर्थस्य तद्बीजं योऽन्यथाग्रह आत्मनः । ततः संसारसम्पातः सन्ततक्लेशलक्षणः ॥ ४९८ ॥ sarvānarthasya tadbījaṁ yo'nyathāgraha ātmanaḥ । tataḥ saṁsārasampātaḥ santatakleśalakṣaṇaḥ ॥ 498 ॥
  934. सर्वेन्द्रियाणां गतिनिग्रहेणभोग्येषु दोषाद्यवमर्शनेन । ईशप्रसादाच्च गुरोः प्रसादा - च्छान्तिं समायात्यचिरेण चित्तम् ॥ १३६ ॥ sarvendriyāṇāṁ gatinigraheṇabhogyeṣu doṣādyavamarśanena । īśaprasādācca guroḥ prasādā - cchāntiṁ samāyātyacireṇa cittam ॥ 136 ॥
  935. सर्वेशत्वस्वतन्त्रत्वसर्वज्ञत्वादिभिर्गुणैः । सर्वोत्तमः सत्यकामः सत्यसङ्कल्प ईश्वरः ॥ ७२१ ॥ sarveśatvasvatantratvasarvajñatvādibhirguṇaiḥ । sarvottamaḥ satyakāmaḥ satyasaṅkalpa īśvaraḥ ॥ 721 ॥
  936. सर्वो विरुद्धवाक्यार्थस्तत्र प्रत्यक्षतस्ततः । गङ्गासम्बन्धवत्तीरे लक्षणा सम्प्रवर्तते ॥ ७३६ ॥ sarvo viruddhavākyārthastatra pratyakṣatastataḥ । gaṅgāsambandhavattīre lakṣaṇā sampravartate ॥ 736 ॥
  937. सर्वोपरमहेतुत्वात्सुषुप्तिस्थानमिष्यते । प्राकृतः प्रलयो यत्र श्राव्यते श्रुतिभिर्मुहुः ॥ ३१५ ॥ sarvoparamahetutvātsuṣuptisthānamiṣyate । prākṛtaḥ pralayo yatra śrāvyate śrutibhirmuhuḥ ॥ 315 ॥
  938. सविकल्पसमाधिं यो दीर्घकालं निरन्तरम् । संस्कारपूर्वकं कुर्यान्निर्विकल्पोऽस्य सिध्यति ॥ ८७४ ॥ savikalpasamādhiṁ yo dīrghakālaṁ nirantaram । saṁskārapūrvakaṁ kuryānnirvikalpo'sya sidhyati ॥ 874 ॥
  939. सविकल्पस्तयोर्यत्तल्लक्षणं वच्मि तच्छृणु । कामादिप्रत्ययैर्दृश्यैः संसर्गो यत्र दृश्यते ॥ ८३० ॥ savikalpastayoryattallakṣaṇaṁ vacmi tacchṛṇu । kāmādipratyayairdṛśyaiḥ saṁsargo yatra dṛśyate ॥ 830 ॥
  940. सविकल्पो निर्विकल्प इति द्वेधा निगद्यते । समाधिः सविकल्पस्य लक्षणं वच्मि तच्छृणु ॥ ८१९ ॥ savikalpo nirvikalpa iti dvedhā nigadyate । samādhiḥ savikalpasya lakṣaṇaṁ vacmi tacchṛṇu ॥ 819 ॥
  941. सहयोगो न घटते तथैव ज्ञानकर्मणोः । किमूपकुर्याज्ज्ञानस्य कर्मस्वप्रतियोगिनः । यस्य संनिधिमात्रेण स्वयं न स्फूर्तिमृच्छति ॥ १८६ ॥ sahayogo na ghaṭate tathaiva jñānakarmaṇoḥ । kimūpakuryājjñānasya karmasvapratiyoginaḥ । yasya saṁnidhimātreṇa svayaṁ na sphūrtimṛcchati ॥ 186 ॥
  942. सहवासश्च संसर्गोऽष्टधा मैथुनं विदुः । एतद्विलक्षणं ब्रह्मचर्यं चित्तप्रसादकम् ॥ ११० ॥ sahavāsaśca saṁsargo'ṣṭadhā maithunaṁ viduḥ । etadvilakṣaṇaṁ brahmacaryaṁ cittaprasādakam ॥ 110 ॥
  943. साक्षिणं स्वं विजानीयाद्यस्ताः पश्यति निष्क्रियः । कामादीनामहं साक्षी दृश्यन्ते ते मया ततः ॥ ८३३ ॥ sākṣiṇaṁ svaṁ vijānīyādyastāḥ paśyati niṣkriyaḥ । kāmādīnāmahaṁ sākṣī dṛśyante te mayā tataḥ ॥ 833 ॥
  944. साधनचतुष्टयसम्पत्तिर्यस्यास्ति धीमतः पुंसः । तस्यैवैतत्फलसिद्धिर्नान्यस्य किञ्चिदूनस्य ॥ १२ ॥ sādhanacatuṣṭayasampattiryasyāsti dhīmataḥ puṁsaḥ । tasyaivaitatphalasiddhirnānyasya kiñcidūnasya ॥ 12 ॥
  945. साधनत्वेन दृष्टानां सर्वेषामपि कर्मणाम् । विधिना यः परित्यागः स संन्यासः सतां मतः ॥ १५१ ॥ sādhanatvena dṛṣṭānāṁ sarveṣāmapi karmaṇām । vidhinā yaḥ parityāgaḥ sa saṁnyāsaḥ satāṁ mataḥ ॥ 151 ॥
  946. साधनानां तु सर्वेषां मुमुक्षा मूलकारणम् । अनिच्छोरप्रवृत्तस्य क्व श्रुतिः क्व नु तत्फलम् ॥ २२७ ॥ sādhanānāṁ tu sarveṣāṁ mumukṣā mūlakāraṇam । anicchorapravṛttasya kva śrutiḥ kva nu tatphalam ॥ 227 ॥
  947. साधनेष्वपि सर्वेषु तितिक्षोत्तमसाधनम् । यत्र विघ्नाः पलायन्ते दैविका अपि भौतिकाः ॥ १४२ ॥ sādhaneṣvapi sarveṣu titikṣottamasādhanam । yatra vighnāḥ palāyante daivikā api bhautikāḥ ॥ 142 ॥
  948. साभासं व्यष्ट्युपहितं तत्तादात्म्यमुपागतम् । चैतन्यं विश्व इत्याहुर्वेदान्तनयकोविदाः ॥ ४४१ ॥ sābhāsaṁ vyaṣṭyupahitaṁ tattādātmyamupāgatam । caitanyaṁ viśva ityāhurvedāntanayakovidāḥ ॥ 441 ॥
  949. सामग्र्योश्चोभयोस्तद्वदुभयत्राधिकारिणोः । ऊर्ध्वं नयति विज्ञानमधः प्रापयति क्रिया ॥ १८४ ॥ sāmagryoścobhayostadvadubhayatrādhikāriṇoḥ । ūrdhvaṁ nayati vijñānamadhaḥ prāpayati kriyā ॥ 184 ॥
  950. सामानाधिकरण्यं वा संयोगो वा समाश्रयः । तमःप्रकाशवज्ज्ञानाज्ञानयोर्न हि सिध्यति ॥ ५७० ॥ sāmānādhikaraṇyaṁ vā saṁyogo vā samāśrayaḥ । tamaḥprakāśavajjñānājñānayorna hi sidhyati ॥ 570 ॥
  951. सार्वभौमादिब्रह्मान्तं श्रुत्या यः प्रतिपादितः । स क्षयिष्णुः सातिशयः प्रक्षीणे कारणे लयम् ॥ ६४९ ॥ sārvabhaumādibrahmāntaṁ śrutyā yaḥ pratipāditaḥ । sa kṣayiṣṇuḥ sātiśayaḥ prakṣīṇe kāraṇe layam ॥ 649 ॥
  952. सालोक्यसामीप्यसरूपतादि - भेदस्तु सत्कर्मविशेषसिद्धः । न कर्मसिद्धस्य तु नित्यतेति विचार्य को वा विरतिं न याति ॥ ३८ ॥ sālokyasāmīpyasarūpatādi - bhedastu satkarmaviśeṣasiddhaḥ । na karmasiddhasya tu nityateti vicārya ko vā viratiṁ na yāti ॥ 38 ॥
  953. सावयवस्य क्षीरादेर्वस्तुनः परिणामिनः । येन केन विकारित्वं स्यान्नो निष्कर्मवस्तुनः ॥ १६१ ॥ sāvayavasya kṣīrādervastunaḥ pariṇāminaḥ । yena kena vikāritvaṁ syānno niṣkarmavastunaḥ ॥ 161 ॥
  954. सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि । नाविद्यास्तीह नो माया शान्तं ब्रह्मैव तद्विना ॥ ९९७ ॥ siddhānto'dhyātmaśāstrāṇāṁ sarvāpahnava eva hi । nāvidyāstīha no māyā śāntaṁ brahmaiva tadvinā ॥ 997 ॥
  955. सिद्धेश्चित्तसमाधानमसाधारणकारणम् । यतस्ततो मुमुक्षूणां भवितव्यं सदामुना ॥ २२१ ॥ siddheścittasamādhānamasādhāraṇakāraṇam । yatastato mumukṣūṇāṁ bhavitavyaṁ sadāmunā ॥ 221 ॥
  956. सुखं किमस्त्यत्र विचार्यमाणे गृहेऽपि वा योषिति वा पदार्थे । मायातमोऽन्धीकृतचक्षुषो ये त एव मुह्यन्ति विवेकशून्याः ॥ ४१ ॥ sukhaṁ kimastyatra vicāryamāṇe gṛhe'pi vā yoṣiti vā padārthe । māyātamo'ndhīkṛtacakṣuṣo ye ta eva muhyanti vivekaśūnyāḥ ॥ 41 ॥
  957. सुखमिति मलराशौ ये रमन्तेऽत्र गेहे क्रिमय इव कलत्रक्षेत्रपुत्रानुषक्त्या । सुरपद इव तेषां नैव मोक्षप्रसङ्ग - स्त्वपि तु निरयगर्भावासदुःखप्रवाहः ॥ ८५ ॥ sukhamiti malarāśau ye ramante'tra gehe krimaya iva kalatrakṣetraputrānuṣaktyā । surapada iva teṣāṁ naiva mokṣaprasaṅga - stvapi tu nirayagarbhāvāsaduḥkhapravāhaḥ ॥ 85 ॥
  958. सुखयति धनमेवेत्यन्तराशापिशाच्या दृढतरमुपगूढो मूढलोको जडात्मा । निवसति तदुपान्ते सन्ततं प्रेक्षमाणो व्रजति तदपि पश्चात्प्राणमेतस्य हृत्वा ॥ ७७ ॥ sukhayati dhanamevetyantarāśāpiśācyā dṛḍhataramupagūḍho mūḍhaloko jaḍātmā । nivasati tadupānte santataṁ prekṣamāṇo vrajati tadapi paścātprāṇametasya hṛtvā ॥ 77 ॥
  959. सुखहेतुषु सर्वेषां प्रीतिः सावधिरीक्ष्यते । कदापि नावधिः प्रीतेः स्वात्मनि प्राणिनां क्वचित् ॥ ६२४ ॥ sukhahetuṣu sarveṣāṁ prītiḥ sāvadhirīkṣyate । kadāpi nāvadhiḥ prīteḥ svātmani prāṇināṁ kvacit ॥ 624 ॥
  960. सुप्तिमूर्छोत्थितेष्वेव दृष्टः संसारलक्षणः । अनादिरेषाविद्यातः संस्कारोऽपि च तादृशः ॥ ४८६ ॥ suptimūrchotthiteṣveva dṛṣṭaḥ saṁsāralakṣaṇaḥ । anādireṣāvidyātaḥ saṁskāro'pi ca tādṛśaḥ ॥ 486 ॥
  961. सुप्तोत्थितजनैः सर्वैः शून्यमेवानुस्मर्यते । यत्ततः शून्यमेवात्मा न ज्ञानाज्ञानलक्षणः ॥ ५७३ ॥ suptotthitajanaiḥ sarvaiḥ śūnyamevānusmaryate । yattataḥ śūnyamevātmā na jñānājñānalakṣaṇaḥ ॥ 573 ॥
  962. सुषुप्तावात्मसद्भावे प्रमाणं पण्डितोत्तमाः । विदुः स्वप्रत्यभिज्ञानमाबालवृद्धसम्मतम् ॥ ६०४ ॥ suṣuptāvātmasadbhāve pramāṇaṁ paṇḍitottamāḥ । viduḥ svapratyabhijñānamābālavṛddhasammatam ॥ 604 ॥
  963. सुषुप्तिकाले सकले विलीनेशून्यं विना नान्यदिहोपलभ्यते । शून्यं त्वनात्मा न ततः परः को - ऽप्यात्माभिधानस्त्वनुभूयतेऽर्थः ॥ ५८१ ॥
  964. सुषुप्तौ शून्यमेवेति केन पुंसा तवेरितम् । हेतुनानुमितं केन कथं ज्ञातं त्वयोच्यताम् ॥ ५९५ ॥ suṣuptau śūnyameveti kena puṁsā taveritam । hetunānumitaṁ kena kathaṁ jñātaṁ tvayocyatām ॥ 595 ॥
  965. सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् । केवलं परमाद्वैतं ब्रह्मैवास्मीति भावयेत् ॥ ८९७ ॥ susūkṣmamastitāmātraṁ nirvikalpaṁ mahattamam । kevalaṁ paramādvaitaṁ brahmaivāsmīti bhāvayet ॥ 897 ॥
  966. सोऽयं दृश्यानुविद्धः स्यात्समाधिः सविकल्पकः । अहंममेदमित्यादिकामक्रोधादिवृत्तयः ॥ ८३१ ॥ so'yaṁ dṛśyānuviddhaḥ syātsamādhiḥ savikalpakaḥ । ahaṁmamedamityādikāmakrodhādivṛttayaḥ ॥ 831 ॥
  967. सोऽयं देवदत्त इति वाक्यं वाक्यार्थ एव वा । देवदत्तैक्यरूपस्ववाक्यार्थानवबोधकम् ॥ ७५४ ॥ so'yaṁ devadatta iti vākyaṁ vākyārtha eva vā । devadattaikyarūpasvavākyārthānavabodhakam ॥ 754 ॥
  968. सोऽयमाभास आनन्दश्चित्ते यः प्रतिबिम्बितः । पुण्योत्कर्षापकर्षाभ्यां भवत्युच्चावचः स्वयम् ॥ ६४८ ॥ so'yamābhāsa ānandaścitte yaḥ pratibimbitaḥ । puṇyotkarṣāpakarṣābhyāṁ bhavatyuccāvacaḥ svayam ॥ 648 ॥
  969. स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः । वैराग्यपूर्वमिच्छेति शुभेच्छा चोच्यते बुधैः ॥ ९४१ ॥ sthitaḥ kiṁ mūḍha evāsmi prekṣyo'haṁ śāstrasajjanaiḥ । vairāgyapūrvamiccheti śubhecchā cocyate budhaiḥ ॥ 941 ॥
  970. स्थूलं च सूक्ष्मं च वपुः स्वभावतोदुःखात्मकं स्वात्मतया गृहीत्वा । विस्मृत्य च स्वं सुखरूपमात्मनोदुःखप्रदेभ्यः सुखमज्ञ इच्छति ॥ ६३७ ॥ sthūlaṁ ca sūkṣmaṁ ca vapuḥ svabhāvatoduḥkhātmakaṁ svātmatayā gṛhītvā । vismṛtya ca svaṁ sukharūpamātmanoduḥkhapradebhyaḥ sukhamajña icchati ॥ 637 ॥
  971. स्थूलसूक्ष्मकारणाख्याः प्रपञ्चा ये निरूपिताः । ते सर्वेऽपि मिलित्वैकः प्रपञ्चोऽपि महान्भवेत् ॥ ४५२ ॥ sthūlasūkṣmakāraṇākhyāḥ prapañcā ye nirūpitāḥ । te sarve'pi militvaikaḥ prapañco'pi mahānbhavet ॥ 452 ॥
  972. स्थूलस्यापि च सूक्ष्मस्य दुःखरूपस्य वर्ष्मणः । लये सुषुप्तौ स्फुरति प्रत्यगानन्दलक्षणः ॥ ६५९ ॥ sthūlasyāpi ca sūkṣmasya duḥkharūpasya varṣmaṇaḥ । laye suṣuptau sphurati pratyagānandalakṣaṇaḥ ॥ 659 ॥
  973. स्थूलात्सूक्ष्मतया व्यष्टिरस्य सूक्ष्मवपुर्मतम् । अस्य जागरसंस्कारमयत्वाद्वपुरुच्यते ॥ ३९२ ॥ sthūlātsūkṣmatayā vyaṣṭirasya sūkṣmavapurmatam । asya jāgarasaṁskāramayatvādvapurucyate ॥ 392 ॥
  974. स्थूलाद्यज्ञानपर्यन्तं कार्यकारणलक्षणम् । दृश्यं सर्वमनात्मेति विजानीहि विचक्षण ॥ ४५६ ॥ sthūlādyajñānaparyantaṁ kāryakāraṇalakṣaṇam । dṛśyaṁ sarvamanātmeti vijānīhi vicakṣaṇa ॥ 456 ॥
  975. स्मरणं दर्शनं स्त्रीणां गुणकर्मानुकीर्तनम् । समीचीनत्वधीस्तासु प्रीतिः सम्भाषणं मिथः ॥ १०९ ॥ smaraṇaṁ darśanaṁ strīṇāṁ guṇakarmānukīrtanam । samīcīnatvadhīstāsu prītiḥ sambhāṣaṇaṁ mithaḥ ॥ 109 ॥
  976. स्यात्तत्त्वम्पदयोः स्वामिन्नर्थः कतिविधो मतः । पदयोः को नु वाच्यार्थो लक्ष्यार्थ उभयोश्च कः ॥ ७०० ॥
  977. स्यादखण्डाकारवृत्तिर्विना तु मननादिना । श्रवणान्मननाद्ध्यानात्तात्पर्येण निरन्तरम् ॥ ८०९ ॥ syādakhaṇḍākāravṛttirvinā tu mananādinā । śravaṇānmananāddhyānāttātparyeṇa nirantaram ॥ 809 ॥
  978. स्वकीयविण्मूत्रविसर्जनं त - च्चोत्तानगत्या शयनं तदा यत् । बालग्रहाद्याहतिभाक्च शैशवं विचार्य को वा विरतिं न याति ॥ २८ ॥ svakīyaviṇmūtravisarjanaṁ ta - ccottānagatyā śayanaṁ tadā yat । bālagrahādyāhatibhākca śaiśavaṁ vicārya ko vā viratiṁ na yāti ॥ 28 ॥
  979. स्वतन्त्रः सत्यसङ्कल्पः सत्यकामः स ईश्वरः । तस्यैतस्य महाविष्णोर्महाशक्तेर्महीयसः ॥ ३१२ ॥ svatantraḥ satyasaṅkalpaḥ satyakāmaḥ sa īśvaraḥ । tasyaitasya mahāviṣṇormahāśaktermahīyasaḥ ॥ 312 ॥
  980. स्वप्ने जागरकालीनवासनापरिकल्पितान् । तैजसो विषयान्भुङ्क्ते सूक्ष्मार्थान्सूक्ष्मवृत्तिभिः ॥ ३९३ ॥ svapne jāgarakālīnavāsanāparikalpitān । taijaso viṣayānbhuṅkte sūkṣmārthānsūkṣmavṛttibhiḥ ॥ 393 ॥
  981. स्वप्राधान्येन जगतो निमित्तमपि कारणम् । उपादानं ततोपाधिप्राधान्येन भवत्ययम् ॥ ३३३ ॥ svaprādhānyena jagato nimittamapi kāraṇam । upādānaṁ tatopādhiprādhānyena bhavatyayam ॥ 333 ॥
  982. स्वभासने वान्यपदार्थभासनेनार्कः प्रकाशान्तरमीषदिच्छति । स्वबोधने वाप्यहमादिबोधनेतथैव चिद्धातुरयं परात्मा ॥ ६२० ॥ svabhāsane vānyapadārthabhāsanenārkaḥ prakāśāntaramīṣadicchati । svabodhane vāpyahamādibodhanetathaiva ciddhāturayaṁ parātmā ॥ 620 ॥
  983. स्वमात्मानं परं मत्वा परमात्मानमन्यथा । विमृग्यते पुनः स्वात्मा बहिः कोशेषु पण्डितैः ॥ २९२ ॥ svamātmānaṁ paraṁ matvā paramātmānamanyathā । vimṛgyate punaḥ svātmā bahiḥ kośeṣu paṇḍitaiḥ ॥ 292 ॥
  984. स्वरूपतस्तत्कलशादिनाम्नामृदेव मूढैरभिधीयते ततः । नाम्नो हि भेदो न तु वस्तुभेदः । प्रदृश्यते तत्र विचार्यमाणे ॥ ६८५ ॥ svarūpatastatkalaśādināmnāmṛdeva mūḍhairabhidhīyate tataḥ । nāmno hi bhedo na tu vastubhedaḥ । pradṛśyate tatra vicāryamāṇe ॥ 685 ॥
  985. स्वरूपमात्रग्रहणं समाधिर्बाह्य आदिमः । सच्चिदानन्दरूपस्य सकाशाद्ब्रह्मणो यतिः ॥ ८८४ ॥ svarūpamātragrahaṇaṁ samādhirbāhya ādimaḥ । saccidānandarūpasya sakāśādbrahmaṇo yatiḥ ॥ 884 ॥
  986. स्वरूपाच्छादकत्वेनाप्यानन्दप्रचुरत्वतः । कारणं वपुरानन्दमयः कोश इतीर्यते ॥ ३२३ ॥ svarūpācchādakatvenāpyānandapracuratvataḥ । kāraṇaṁ vapurānandamayaḥ kośa itīryate ॥ 323 ॥
  987. स्ववासनाप्रेरित एव नित्यंकरोति कर्मोभयलक्षणं च । भुङ्क्ते तदुत्पन्नफलं विशिष्टंसुखं च दुःखं च परत्र चात्र ॥ ३५३ ॥ svavāsanāprerita eva nityaṁkaroti karmobhayalakṣaṇaṁ ca । bhuṅkte tadutpannaphalaṁ viśiṣṭaṁsukhaṁ ca duḥkhaṁ ca paratra cātra ॥ 353 ॥
  988. स्वविकारं परित्यज्य वस्तुमात्रतया स्थितिः । मनसः सोत्तमा शान्तिर्ब्रह्मनिर्वाणलक्षणा ॥ ९७ ॥ svavikāraṁ parityajya vastumātratayā sthitiḥ । manasaḥ sottamā śāntirbrahmanirvāṇalakṣaṇā ॥ 97 ॥
  989. स्वस्वरूपे मनःस्थानमनुष्ठानं तदिष्यते । करणत्रयसाध्यं यत्तन्मृषा तदसत्यतः ॥ ८५९ ॥ svasvarūpe manaḥsthānamanuṣṭhānaṁ tadiṣyate । karaṇatrayasādhyaṁ yattanmṛṣā tadasatyataḥ ॥ 859 ॥
  990. स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि । तूष्णीमेव ततस्तूष्णीं तूष्णीं सत्यं न किञ्चन ॥ ९९२ ॥ svasvopādhilayādeva līyante pratyagātmani । tūṣṇīmeva tatastūṣṇīṁ tūṣṇīṁ satyaṁ na kiñcana ॥ 992 ॥
  991. स्वस्वोपाध्यनुरूपेण ब्रह्माद्याः सर्वजन्तवः । उपजीवन्त्यमुष्येव मात्रामानन्दलक्षणाम् ॥ ६६८ ॥ svasvopādhyanurūpeṇa brahmādyāḥ sarvajantavaḥ । upajīvantyamuṣyeva mātrāmānandalakṣaṇām ॥ 668 ॥
  992. स्वात्मतत्त्वं समालम्ब्य कुर्यात्प्रकृतिनाशनम् । तेनैव मुक्तो भवति नान्यथा कर्मकोटिभिः ॥ ८४६ ॥ svātmatattvaṁ samālambya kuryātprakṛtināśanam । tenaiva mukto bhavati nānyathā karmakoṭibhiḥ ॥ 846 ॥
  993. स्वात्मन्यनस्तमयसंविदि कल्पितस्यव्योमादिसर्वजगतः प्रददाति सत्ताम् । स्फूर्तिं स्वकीयमहसा वितनोति साक्षा - द्यद्ब्रह्म तत्त्वमसि केवलबोधमात्रम् ॥ ७७७ ॥ svātmanyanastamayasaṁvidi kalpitasyavyomādisarvajagataḥ pradadāti sattām । sphūrtiṁ svakīyamahasā vitanoti sākṣā - dyadbrahma tattvamasi kevalabodhamātram ॥ 777 ॥
  994. स्वात्मैकचिन्तनं यत्तदीश्वरध्यानमीरितम् । छायेव सर्वदा वासो ब्रह्मविद्भिः सह स्थितिः ॥ १२२ ॥ svātmaikacintanaṁ yattadīśvaradhyānamīritam । chāyeva sarvadā vāso brahmavidbhiḥ saha sthitiḥ ॥ 122 ॥
  995. स्वादीनां भूतमेकैकं सममेव द्विधा द्विधा । विभज्य भागं तत्राद्यं त्यक्त्वा भागं द्वितीयकम् ॥ ३९८ ॥ svādīnāṁ bhūtamekaikaṁ samameva dvidhā dvidhā । vibhajya bhāgaṁ tatrādyaṁ tyaktvā bhāgaṁ dvitīyakam ॥ 398 ॥
  996. स्वानुभूतिं परित्यज्य न तिष्ठन्ति क्षणं बुधाः । स्वानुभूतौ प्रमादो यः स मृत्युर्न यमः सताम् ॥ ९०३ ॥ svānubhūtiṁ parityajya na tiṣṭhanti kṣaṇaṁ budhāḥ । svānubhūtau pramādo yaḥ sa mṛtyurna yamaḥ satām ॥ 903 ॥
  997. स्वापरोक्षस्य वेदादेः साधनत्वं निषेधति । नाहं वेदैर्न तपसेत्यादिना भगवानपि ॥ २०० ॥ svāparokṣasya vedādeḥ sādhanatvaṁ niṣedhati । nāhaṁ vedairna tapasetyādinā bhagavānapi ॥ 200 ॥
  998. स्वामित्वद्योतनायास्मिन्नात्मत्वमुपचर्यते । श्रुत्या तु मुख्यया वृत्त्या पुत्र आत्मेति नोच्यते ॥ ५३२ ॥ svāmitvadyotanāyāsminnātmatvamupacaryate । śrutyā tu mukhyayā vṛttyā putra ātmeti nocyate ॥ 532 ॥
  999. स्वीयैः परैस्ताडनमज्ञभाव - मत्यन्तचापल्यमसत्क्रियां च । कुमारभावे प्रतिषिद्धवृत्तिं विचार्य को वा विरतिं न याति ॥ २९ ॥ svīyaiḥ paraistāḍanamajñabhāva - matyantacāpalyamasatkriyāṁ ca । kumārabhāve pratiṣiddhavṛttiṁ vicārya ko vā viratiṁ na yāti ॥ 29 ॥
  1000. स्वेदाज्जाताः स्वेदजास्ते यूका लूक्षादयोऽपि च । भूमिमुद्भिद्य ये जाता उद्भिज्जास्ते द्रुमादयः ॥ ४३६ ॥ svedājjātāḥ svedajāste yūkā lūkṣādayo'pi ca । bhūmimudbhidya ye jātā udbhijjāste drumādayaḥ ॥ 436 ॥
  1001. स्वेनानुभूतं स्वयमेव वक्तिस्वसुप्तिकाले स्थितशून्यभावम् । तत्र स्वसत्तामनवेक्ष्य मूढःस्वस्यापि शून्यत्वमयं ब्रवीति ॥ ५९७ ॥ svenānubhūtaṁ svayameva vaktisvasuptikāle sthitaśūnyabhāvam । tatra svasattāmanavekṣya mūḍhaḥsvasyāpi śūnyatvamayaṁ bravīti ॥ 597 ॥
  1002. हस्तवद्द्वयमेतस्य स्वकार्यं साधयिष्यति । यथा विजृम्भते दीपो ऋजूकरणकर्मणा ॥ १७४ ॥ hastavaddvayametasya svakāryaṁ sādhayiṣyati । yathā vijṛmbhate dīpo ṛjūkaraṇakarmaṇā ॥ 174 ॥
  1003. हितपरिमितभोजी नित्यमेकान्तसेवीसकृदुचितहितोक्तिः स्वल्पनिद्राविहारः । अनुनियमनशीलो यो भजत्युक्तकालेस लभत इति शीघ्रं साधु चित्तप्रसादम् ॥ ३७२ ॥ hitaparimitabhojī nityamekāntasevīsakṛducitahitoktiḥ svalpanidrāvihāraḥ । anuniyamanaśīlo yo bhajatyuktakālesa labhata iti śīghraṁ sādhu cittaprasādam ॥ 372 ॥
  1004. हिरण्यगर्भ इत्यस्य व्यपदेशस्ततो मतः । समस्तलिङ्गदेहेषु सूत्रवन्मणिपङ्क्तिषु । व्याप्य स्थितत्वात्सूत्रात्मा प्राणनात्प्राण उच्यते ॥ ३८९ ॥ hiraṇyagarbha ityasya vyapadeśastato mataḥ । samastaliṅgadeheṣu sūtravanmaṇipaṅktiṣu । vyāpya sthitatvātsūtrātmā prāṇanātprāṇa ucyate ॥ 389 ॥
  1005. हिरण्यगर्भः सूत्रात्मा प्राण इत्यपि पण्डिताः । हिरण्मये बुद्धिगर्भे प्रचकास्ति हिरण्यवत् ॥ ३८८ ॥ hiraṇyagarbhaḥ sūtrātmā prāṇa ityapi paṇḍitāḥ । hiraṇmaye buddhigarbhe pracakāsti hiraṇyavat ॥ 388 ॥
  1006. हुताशनानां शशिनामिनाना - मप्यर्बुदं वापि न यन्निहन्तुम् । शक्नोति यद्ध्वान्तमनन्तमान्तरंहन्त्यात्मवेत्ता सकृदीक्षणेन ॥ २६२ ॥ hutāśanānāṁ śaśināminānā - mapyarbudaṁ vāpi na yannihantum । śaknoti yaddhvāntamanantamāntaraṁhantyātmavettā sakṛdīkṣaṇena ॥ 262 ॥