न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
This determinate belief (Abhisandhi) about the attainment (of Brahma), is not with respect to Brahma-the-effect (i.e. qualified Brahma). ॥ 14 ॥
तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ — गत्युपपत्त्यादिभिरेकः, मुख्यत्वादिभिरपरः । तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् , न तु मुख्यत्वादयो गत्युपपत्त्यादीन् — इति आद्य एव सिद्धान्तो व्याख्यातः, द्वितीयस्तु पूर्वपक्षः । न ह्यसत्यपि सम्भवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते । परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते —
‘विष्वङ्ङन्या उत्क्रमणे भवन्ति’ (छा. उ. ८ । ६ । ६)
इतिवत् ।
‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छा. उ. ८ । १४ । १)
इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसन्धिर्न विरुध्यते । सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसङ्कीर्तनम् ‘सर्वकर्मा सर्वकामः’ इत्यादिवत् अवकल्पते । तस्मादपरविषया एव गतिश्रुतयः ॥
जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् , न, विशेषनिराकरणश्रुतीनामनन्यार्थत्वात् । उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् , न, तासामेकत्वप्रतिपादनपरत्वात् । मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति ॥
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेः । यद्येवम् , ततः किं स्यात् ? उच्यते — यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते । एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात् । न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् ।
अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति । व्यापित्वे गमनानुपपत्तिः । मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः । अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः । प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७)
इत्यादिशास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः । विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , न, मुख्यैकत्वानुपपत्तेः । सर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च ॥
यत्तु कैश्चिज्जल्प्यते — नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्ते — इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति — तदसत् , प्रमाणाभावात् । न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् — मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम् — यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति ।
न च एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते । तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते — इत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ ‘ततः शेषेण’ इत्यादिश्रुतिस्मृतिभ्यः ।
स्यादेतत् — नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति — तत् न, विरोधाभावात् । सति हि विरोधे क्षेप्यक्षेपकभावो भवति । न च जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात् । दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् । न तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात् । न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात् । स्मरति हि आपस्तम्बः —
‘तद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३)
इति ।
न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । संशयितव्यं तु भवति । तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात् । स्यादेतत् — कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, न तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति — तच्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् ।
अथापि स्यात् — न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि नापराध्यतीति — तच्च न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , न कथञ्चन मोक्षं प्रति आशा अस्ति । श्रुतिश्च —
‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८)
इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥
‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १)
इत्यादिषु तु, सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते —
‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६)
इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ? तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः । न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते । तस्मादपरब्रह्मविषया गतिः ।