द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुतिविप्रतिषेधश्च परिहृतः । तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते; प्रसङ्गागतं च किमप्यन्यत् । तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्माज्जुगुप्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् —
‘अथैनमेते प्राणा अभिसमायन्ति’ (बृ. उ. ४ । ४ । १)
इत्येवमादेः
‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’ (बृ. उ. ४ । ४ । ४)
इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् , धर्माधर्मफलोपभोगसम्भवाच्च । स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति, आहोस्वित्सम्परिष्वक्तः — इति चिन्त्यते ॥
किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् —
‘स एतास्तेजोमात्राः समभ्याददानः’ (बृ. उ. ४ । ४ । १)
इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् । नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति । ततश्च तासां नयनं निष्प्रयोजनम् । तस्मादसम्परिष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —
तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॥ १ ॥
During the attainment of another body (the Jiva-Self) sallies forth (from the body) enveloped (by the subtle elements, as indicated) by the question and its reply i.e. explanation. ॥ 1 ॥
द्वितीयेऽध्याये स्मृतिन्यायविरोधो वेदान्तविहिते ब्रह्मदर्शने परिहृतः, परपक्षाणां च अनपेक्षत्वं प्रपञ्चितम् , श्रुतिविप्रतिषेधश्च परिहृतः । तत्र च जीवव्यतिरिक्तानि तत्त्वानि जीवोपकरणानि ब्रह्मणो जायन्त इत्युक्तम् । अथेदानीम् उपकरणोपहितस्य जीवस्य संसारगतिप्रकारः तदवस्थान्तराणि ब्रह्मसतत्त्वं विद्याभेदाभेदौ गुणोपसंहारानुपसंहारौ सम्यग्दर्शनात्पुरुषार्थसिद्धिः सम्यग्दर्शनोपायविधिप्रभेदः मुक्तिफलानियमश्च — इत्येतदर्थजातं तृतीये निरूपयिष्यते; प्रसङ्गागतं च किमप्यन्यत् ।
तत्र प्रथमे तावत्पादे पञ्चाग्निविद्यामाश्रित्य संसारगतिप्रभेदः प्रदर्श्यते वैराग्यहेतोः — ‘तस्माज्जुगुप्सेत’ इति च अन्ते श्रवणात् । जीवो मुख्यप्राणसचिवः सेन्द्रियः समनस्कोऽविद्याकर्मपूर्वप्रज्ञापरिग्रहः पूर्वदेहं विहाय देहान्तरं प्रतिपद्यत इत्येतदवगतम् —
‘अथैनमेते प्राणा अभिसमायन्ति’ (बृ. उ. ४ । ४ । १)
इत्येवमादेः
‘अन्यन्नवतरꣳ कल्याणतरं रूपं कुरुते’ (बृ. उ. ४ । ४ । ४)
इत्येवमन्तात् संसारप्रकरणस्थाच्छब्दात् , धर्माधर्मफलोपभोगसम्भवाच्च । स किं देहबीजैर्भूतसूक्ष्मैरसम्परिष्वक्तो गच्छति, आहोस्वित्सम्परिष्वक्तः — इति चिन्त्यते ॥
किं तावत्प्राप्तम् ? असम्परिष्वक्त इति । कुतः ? करणोपादानवद्भूतोपादानस्य अश्रुतत्वात् —
‘स एतास्तेजोमात्राः समभ्याददानः’ (बृ. उ. ४ । ४ । १)
इति ह्यत्र तेजोमात्राशब्देन करणानामुपादानं सङ्कीर्तयति, वाक्यशेषे चक्षुरादिसङ्कीर्तनात् । नैवं भूतमात्रोपादानसङ्कीर्तनमस्ति । सुलभाश्च सर्वत्र भूतमात्राः, यत्रैव देह आरब्धव्यस्तत्रैव सन्ति । ततश्च तासां नयनं निष्प्रयोजनम् । तस्मादसम्परिष्वक्तो याति — इत्येवं प्राप्ते, पठत्याचार्यः —
नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति —
‘तद्यथा तृणजलायुका’ (बृ. उ. ४ । ४ । ३)
इति । तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः ।
एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति, याः पुरुषमतिप्रभवाः कल्पनाः — व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति, — केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति, इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते, — मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते, — जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते, शुक इव वृक्षाद्वृक्षान्तरम् — इत्येवमाद्याः, ताः सर्वा एव अनादर्तव्याः, श्रुतिविरोधात् ॥ १ ॥
ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः सम्परिष्वक्तो रंहतीति प्राप्नोति, अप्शब्दश्रवणसामर्थ्यात् । तत्र कथं सामान्येन प्रतिज्ञायते — सर्वैरेव भूतसूक्ष्मैः सम्परिष्वक्तो रंहतीति ? अत उत्तरं पठति —
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ २ ॥
Because (Apa) has a triple composition (of elements). (Apa is particularly mentioned) because of its preponderance. ॥ 2 ॥
तुशब्देन चोदितामाशङ्कामुच्छिनत्ति । त्र्यात्मिका हि आपः, त्रिवृत्करणश्रुतेः । तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति । त्र्यात्मकश्च देहः, त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः । पुनश्च त्र्यात्मकः, त्रिधातुत्वात् — त्रिभिर्वातपित्तश्लेष्मभिः । न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते । तस्माद्भूयस्त्वापेक्षोऽयम् — ‘आपः पुरुषवचसः’ इति — प्रश्नप्रतिवचनयोरप्शब्दः, न कैवल्यापेक्षः । सर्वदेहेषु हि रसलोहितादिद्रवद्रव्यभूयस्त्वं दृश्यते ।
ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलक्ष्यते । नैष दोषः — इतरापेक्षया अपां बाहुल्यं भविष्यति । दृश्यते च शुक्रशोणितलक्षणेऽपि देहबीजे द्रवबाहुल्यम् । कर्म च निमित्तकारणं देहान्तरारम्भे । कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि । कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति । तस्मादप्यपां बाहुल्यप्रसिद्धिः । बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम् ॥ २ ॥
प्राणगतेश्च ॥ ३ ॥
Also because of the going away of the Pranas. ॥ 3 ॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ४ ॥
If it be said (that the Pranas do not depart with the Jiva-Self) because of the Scriptural statement about their entering the Agni etc., (we reply) — No, because (that statement is) in a metaphorical sense. ॥ 4 ॥
न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते । नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते । विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् । अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते ॥ ४ ॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ५ ॥
If it be said that (it cannot be understood that water during the fifth oblation attains the condition of man) because Apas are not mentioned in the case of the first (oblation), (we reply)— No, because it is reasonably sustainable that Apas are meant. ॥ 5 ॥
नैष दोषः; हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते । कुतः ? उपपत्तेः । एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते । इतरथा पुनः, पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे, प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् — ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात् । ‘इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति च उपसंहरन् एतदेव दर्शयति । श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते । सा च श्रद्धाया अप्त्वे युक्तिः । कारणानुरूपं हि कार्यं भवति ।
न च श्रद्धाख्यः प्रत्ययः, मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते — पश्वादिभ्य इव हृदयादीनि इति, आप एव श्रद्धाशब्दा भवेयुः । श्रद्धाशब्दश्चाप्सूपपद्यते, वैदिकप्रयोगदर्शनात् — ‘श्रद्धा वा आपः’ इति । तनुत्वं श्रद्धासारूप्यं गच्छन्त्य आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः — यथा सिंहपराक्रमो नरः सिंहशब्दो भवति । श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते, मञ्चशब्द इव पुरुषेषु । श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिः, ‘आपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे’ इति श्रुतेः ॥ ५ ॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ६ ॥
If it be said (that the Jiva-Self does not ascend enveloped in water), because there is no Scriptural mention (about it), (we reply) — No, because it is perceived to be so by reason of the fact that those who perform Ishti (a sacrifice) etc. (attain the lunar world). ॥ 6 ॥
तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति । ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति — तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति — ‘असौ स्वर्गाय लोकाय स्वाहा’ इति । ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् , तदत्र जुहोतिना अभिधीयते —
‘श्रद्धां जुह्वतीति’ (बृ. उ. ६ । २ । ९)
।
तथा च अग्निहोत्रे वाक्यशेषेण ‘ते वा एते आहुती हुते उत्क्रामतः’ इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता । तस्मादाहुतिमयीभिरद्भिः सम्परिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते ॥ ६ ॥
भाक्तं वानात्मवित्त्वात्तथाहि दर्शयति ॥ ७ ॥
Or else, the Jiva-Selfs being called ‘Food’ (of the Gods) is in a metaphorical or secondary sense because of their not having realized the Self (Atma i.e. Brahma). The Scriptures also indicate the same. ॥ 7 ॥
वाशब्दश्चोदितदोषव्यावर्तनार्थः । भाक्तमेषामन्नत्वम् , न मुख्यम् । मुख्ये ह्यन्नत्वे ‘स्वर्गकामो यजेत’ इत्येवंजातीयकाधिकारश्रुतिरुपरुध्येत । चन्द्रमण्डले चेदिष्टादिकारिणामुपभोगो न स्यात् , किमर्थमधिकारिण इष्टादि आयासबहुलं कर्म कुर्युः । अन्नशब्दश्चोपभोगहेतुत्वसामान्यात् अनन्नेऽप्युपचर्यमाणो दृश्यते, यथा — विशोऽन्नं राज्ञां पशवोऽन्नं विशामिति । तस्मादिष्टस्त्रीपुत्रमित्रभृत्यादिभिरिव गुणभावोपगतैरिष्टादिकारिभिर्यत्सुखविहरणं देवानाम् , तदेवैषां भक्षणमभिप्रेतम् , न मोदकादिवच्चर्वणं निगरणं वा ।
अनात्मवित्त्वात् तथा हि दर्शयति इत्यस्य अपरा व्याख्या — अनात्मविदो ह्येते केवलकर्मिण इष्टादिकारिणः, न ज्ञानकर्मसमुच्चयानुष्ठायिनः । पञ्चाग्निविद्यामिह आत्मविद्येत्युपचरन्ति, प्रकरणात् । पञ्चाग्निविद्याविहीनत्वाच्चेदमिष्टादिकारिणां गुणवादेनान्नत्वमुद्भाव्यते पञ्चाग्निविज्ञानप्रशंसायै । पञ्चाग्निविद्या हीह विधित्सिता, वाक्यतात्पर्यावगमात् ।
कृतात्ययेऽनुशयवान्दृष्टस्मृतिभ्यां यथेतमनेवं च ॥ ८ ॥
After actions are worked out i.e. exhausted (the Jiva-Selfs return to this world) with an Anushaya (residue of actions) as is seen on the authority of the Scriptures, and the Smriti. They return in the reverse way (to that in which they ascended). ॥ 8 ॥
अपि च प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकम्; प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्याभिव्यक्त्यनुपपत्तेः । तच्च अविशेषाद्यावत्किञ्चिदनारब्धफलं तस्य सर्वस्याभिव्यञ्जकम् । न हि साधारणे निमित्ते नैमित्तिकमसाधारणं भवितुमर्हति । न ह्यविशिष्टे प्रदीपसन्निधौ, घटोऽभिव्यज्यते न पट इत्युपपद्यते ।
तस्मान्निरनुशया अवरोहन्तीत्येवं प्राप्ते ब्रूमः —
कृतात्ययेऽनुशयवानिति । येन कर्मबृन्देन चन्द्रमसमारूढाः फलोपभोगाय, तस्मिन्नुपभोगेन क्षयिते, तेषां यदम्मयं शरीरं चन्द्रमस्युपभोगायारब्धम् , तत् उपभोगक्षयदर्शनशोकाग्निसम्पर्कात्प्रविलीयते — सवितृकिरणसम्पर्कादिव हिमकरकाः, हुतभुगर्चिःसम्पर्कादिव च घृतकाठिन्यम् । ततः कृतात्यये कृतस्येष्टादेः कर्मणः फलोपभोगेनोपक्षये सति, सानुशया एवेममवरोहन्ति ।
दृष्टश्चायं जन्मनैव प्रतिप्राण्युच्चावचरूप उपभोगः प्रविभज्यमान आकस्मिकत्वासम्भवादनुशयसद्भावं सूचयति, अभ्युदयप्रत्यवाययोः सुकृतदुष्कृतहेतुत्वस्य सामान्यतः शास्त्रेणावगमितत्वात् । स्मृतिरपि —
‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते’ (गौ. ध. सू. २ । २ । २९)
इति सानुशयानामेवावरोहं दर्शयति ॥
कः पुनरनुशयो नामेति ? केचित्तावदाहुः — स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषः कश्चिदनुशयो नाम, भाण्डानुसारिस्नेहवत् — यथा हि स्नेहभाण्डं रिच्यमानं न सर्वात्मना रिच्यते, भाण्डानुसार्येव कश्चित्स्नेहशेषोऽवतिष्ठते, तथा अनुशयोऽपीति । ननु कार्यविरोधित्वाददृष्टस्य न भुक्तफलस्यावशेषावस्थानं न्याय्यम्; नायं दोषः । न हि सर्वात्मना भुक्तफलत्वं कर्मणः प्रतिजानीमहे ।
ननु निरवशेषकर्मफलोपभोगाय चन्द्रमण्डलमारूढाः; बाढम् — तथापि स्वल्पकर्मावशेषमात्रेण तत्रावस्थातुं न लभ्यते । यथा किल कश्चित्सेवकः सकलैः सेवोपकरणैः राजकुलमुपसृप्तश्चिरप्रवासात्परिक्षीणबहूपकरणश्छत्रपादुकादिमात्रावशेषो न राजकुलेऽवस्थातुं शक्नोति, एवमनुशयमात्रपरिग्रहो न चन्द्रमण्डलेऽवस्थातुं शक्नोतीति ॥
न चैतद्युक्तमिव । न हि स्वर्गार्थस्य कर्मणो भुक्तफलस्यावशेषानुवृत्तिरुपपद्यते, कार्यविरोधित्वात् — इत्युक्तम् । नन्वेतदप्युक्तम् — न स्वर्गफलस्य कर्मणो निखिलस्य भुक्तफलत्वं भविष्यतीति; तदेतदपेशलम् — स्वर्गार्थं किल कर्म स्वर्गस्थस्यैव स्वर्गफलं निखिलं न जनयति, स्वर्गच्युतस्यापि कञ्चित्फललेशं जनयतीति । न शब्दप्रमाणकानामीदृशी कल्पना अवकल्पते ।
स्नेहभाण्डे तु स्नेहलेशानुवृत्तिर्दृष्टत्वादुपपद्यते । तथा सेवकस्योपकरणलेशानुवृत्तिश्च दृश्यते । न त्विह तथा स्वर्गफलस्य कर्मणो लेशानुवृत्तिर्दृश्यते । नापि कल्पयितुं शक्यते, स्वर्गफलत्वशास्त्रविरोधात् । अवश्यं चैतदेवं विज्ञेयम् — न स्वर्गफलस्येष्टादेः कर्मणो भाण्डानुसारिस्नेहवदेकदेशोऽनुवर्तमानोऽनुशय इति ।
यदि हि येन सुकृतेन कर्मणा इष्टादिना स्वर्गमन्वभूवन् , तस्यैव कश्चिदेकदेशोऽनुशयः कल्प्येत, ततो रमणीय एवैकोऽनुशयः स्यात् , न विपरीतः । तत्रेयमनुशयविभागश्रुतिरुपरुध्येत —
‘तद्य इह रमणीयचरणाः … अथ य इह कपूयचरणाः’ (छा. उ. ५ । १० । ७)
इति । तस्मादामुष्मिकफले कर्मजाते उपभुक्तेऽवशिष्टमैहिकफलं कर्मान्तरजातमनुशयः, तद्वन्तोऽवरोहन्तीति ॥
यदुक्तम् — ‘यत्किञ्च’ इत्यविशेषपरामर्शात्सर्वस्येह कृतस्य कर्मणः फलोपभोगेनान्तं प्राप्य निरनुशया अवरोहन्तीति, नैतदेवम् । अनुशयसद्भावस्यावगमितत्वात् , यत्किञ्चिदिह कृतमामुष्मिकफलं कर्म आरब्धभोगम् , तत्सर्वं फलोपभोगेन क्षपयित्वा — इति गम्यते । यदप्युक्तम् — प्रायणम् अविशेषादनारब्धफलं कृत्स्नमेव कर्माभिव्यनक्ति । तत्र केनचित्कर्मणामुष्मिँल्लोके फलमारभ्यते, केनचिदस्मिन् इत्ययं विभागो न सम्भवतीति — तदप्यनुशयसद्भावप्रतिपादनेनैव प्रत्युक्तम् ।
अपि च केन हेतुना प्रायणमनारब्धफलस्य कर्मणोऽभिव्यञ्जकं प्रतिज्ञायत इति वक्तव्यम् । आरब्धफलेन कर्मणा प्रतिबद्धस्येतरस्य वृत्त्युद्भवानुपपत्तेः, तदुपशमात् प्रायणकाले वृत्त्युद्भवो भवतीति यद्युच्येत — ततो वक्तव्यम् — यथैव तर्हि प्राक्प्रायणात् आरब्धफलेन कर्मणा प्रतिबद्धस्य इतरस्य वृत्त्युद्भवानुपपत्तिः, एवं प्रायणकालेऽपि विरुद्धफलस्यानेकस्य कर्मणो युगपत्फलारम्भासम्भवात् बलवता प्रतिबद्धस्य दुर्बलस्य वृत्त्युद्भवानुपपत्तिरिति ।
न हि अनारब्धफलत्वसामान्येन जात्यन्तरोपभोग्यफलमप्यनेकं कर्म एकस्मिन्प्रायणे युगपदभिव्यक्तं सत् एकां जातिमारभत इति शक्यं वक्तुम् , प्रतिनियतफलत्वविरोधात् । नापि कस्यचित्कर्मणः प्रायणेऽभिव्यक्तिः कस्यचिदुच्छेद इति शक्यते वक्तुम् , ऐकान्तिकफलत्वविरोधात् । न हि प्रायश्चित्तादिभिर्हेतुभिर्विना कर्मणामुच्छेदः सम्भाव्यते । स्मृतिरपि विरुद्धफलेन कर्मणा प्रतिबद्धस्य कर्मान्तरस्य चिरमवस्थानं दर्शयति —
‘कदाचित्सुकृतं कर्म कूटस्थमिह तिष्ठति । मज्जमानस्य संसारे यावद्दुःखाद्विमुच्यते’ (म. भा. १२ । २९० । १८)
इत्येवंजातीयका ।
यदि च कृत्स्नमनारब्धफलं कर्म एकस्मिन्प्रायणेऽभिव्यक्तं सत् एकां जातिमारभेत, ततः स्वर्गनरकतिर्यग्योनिष्वधिकारानवगमात् धर्माधर्मानुत्पत्तौ निमित्ताभावात् नोत्तरा जातिरुपपद्येत, ब्रह्महत्यादीनां च एकैकस्य कर्मणोऽनेकजन्मनिमित्तत्वं स्मर्यमाणमुपरुध्येत । न च धर्माधर्मयोः स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् । न च दृष्टफलस्य कर्मणः कारीर्यादेः प्रायणमभिव्यञ्जकं सम्भवतीति, अव्यापिकापीयं प्रायणस्याभिव्यञ्जकत्वकल्पना ।
प्रदीपोपन्यासोऽपि कर्मबलाबलप्रदर्शनेनैव प्रतिनीतः । स्थूलसूक्ष्मरूपाभिव्यक्त्यनभिव्यक्तिवच्चेदं द्रष्टव्यम् — यथा हि प्रदीपः समानेऽपि सन्निधाने स्थूलं रूपमभिव्यनक्ति, न सूक्ष्मम् — एवं प्रायणं समानेऽप्यनारब्धफलस्य कर्मजातस्य प्राप्तावसरत्वे बलवतः कर्मणो वृत्तिमुद्भावयति, न दुर्बलस्येति । तस्माच्छ्रुतिस्मृतिन्यायविरोधादश्लिष्टोऽयमशेषकर्माभिव्यक्त्यभ्युपगमः ।
शेषकर्मसद्भावेऽनिर्मोक्षप्रसङ्ग इत्ययमप्यस्थाने सम्भ्रमः, सम्यग्दर्शनादशेषकर्मक्षयश्रुतेः । तस्मात् स्थितमेतदेव — अनुशयवन्तोऽवरोहन्तीति । ते च अवरोहन्तो यथेतमनेवं च अवरोहन्ति । यथेतमिति यथागतमित्यर्थः । अनेवमिति तद्विपर्ययेणेत्यर्थः । धूमाकाशयोः पितृयाणेऽध्वन्युपात्तयोरवरोहे सङ्कीर्तनात् यथेतंशब्दाच्च यथागतमिति प्रतीयते । रात्र्याद्यसङ्कीर्तनादभ्राद्युपसंख्यानाच्च विपर्ययोऽपि प्रतीयते ॥ ८ ॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजिनिः ॥ ९ ॥
If it be said (that a particular species of birth) is the result of Charana (meritorious and unmeritorious actions, and no Anushaya need be assumed), (we say) — No, because (the Scriptural statement about Charana) according to Karshnajini, is indicative of Anushaya by implication. ॥ 9 ॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ १० ॥
If it be said, that conduct (Charana) would be rendered futile (if it be held that it does not cause a particular species of birth, we reply) — No, because actions depend upon that (i.e. Charana). ॥ 10 ॥
स्यादेतत् — कस्मात्पुनश्चरणशब्देन श्रौतं शीलं विहाय लाक्षणिकः अनुशयः प्रत्याय्यते ? ननु शीलस्यैव श्रौतस्य विहितप्रतिषिद्धस्य साध्वसाधुरूपस्य शुभाशुभयोन्यापत्तिः फलं भविष्यति; अवश्यं च शीलस्यापि किञ्चित्फलमभ्युपगन्तव्यम् , अन्यथा ह्यानर्थक्यमेव शीलस्य प्रसज्येत — इति चेत् ,
नैष दोषः । कुतः ? तदपेक्षत्वात् । इष्टादि हि कर्मजातं चरणापेक्षम् । न हि सदाचारहीनः कश्चिदधिकृतः स्यात् — ‘आचारहीनं न पुनन्ति वेदाः’ इत्यादिस्मृतिभ्यः । पुरुषार्थत्वेऽप्याचारस्य न आनर्थक्यम् । इष्टादौ हि कर्मजाते फलमारभमाणे तदपेक्ष एवाचारस्तत्रैव कञ्चिदतिशयमारप्स्यते । कर्म च सर्वार्थकारि — इति श्रुतिस्मृतिप्रसिद्धिः । तस्मात्कर्मैव शीलोपलक्षितमनुशयभूतं योन्यापत्तौ कारणमिति कार्ष्णाजिनेर्मतम् । न हि कर्मणि सम्भवति शीलात् योन्यापत्तिर्युक्ता । न हि पद्भ्यां पलायितुं पारयमाणो जानुभ्यां रंहितुमर्हति — इति ॥ १० ॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ११ ॥
Badari (is of opinion, that Charana) does mean good and evil actions. ॥ 11 ॥
बादरिस्त्वाचार्यः सुकृतदुष्कृते एव चरणशब्देन प्रत्याय्येते इति मन्यते । चरणम् अनुष्ठानं कर्मेत्यनर्थान्तरम् । तथा हि अविशेषेण कर्ममात्रे चरतिः प्रयुज्यमानो दृश्यते — यो हि इष्टादिलक्षणं पुण्यं कर्म करोति, तं लौकिका आचक्षते — धर्मं चरत्येष महात्मेति । आचारोऽपि च धर्मविशेष एव । भेदव्यपदेशस्तु कर्मचरणयोर्ब्राह्मणपरिव्राजकन्यायेनाप्युपपद्यते । तस्मात् रमणीयचरणाः प्रशस्तकर्माणः, कपूयचरणा निन्दितकर्माणः इति निर्णयः ॥ ११ ॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ १२ ॥
The Scriptures declare that even those who do not perform Ishta etc. also (ascend to the Lunar Sphere). ॥ 12 ॥
इष्टादिकारिणश्चन्द्रमसं गच्छन्तीत्युक्तम् । ये त्वितरेऽनिष्टादिकारिणः, तेऽपि किं चन्द्रमसं गच्छन्ति, उत न गच्छन्तीति चिन्त्यते । तत्र तावदाहुः — इष्टादिकारिण एव चन्द्रमसं गच्छन्तीत्येतत् न । कस्मात् ? यतोऽनिष्टादिकारिणामपि चन्द्रमण्डलं गन्तव्यत्वेन श्रुतम् । तथा हि अविशेषेण कौषीतकिनः समामनन्ति —
‘ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति’ (कौ. उ. १ । २)
इति । देहारम्भोऽपि च पुनर्जायमानानां न अन्तरेण चन्द्रप्राप्तिम् अवकल्पते, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमात् । तस्मात्सर्व एव चन्द्रमसमासीदेयुः । इष्टादिकारिणामितरेषां च समानगतित्वं न युक्तमिति चेत् , न, इतरेषां चन्द्रमण्डले भोगाभावात् ॥ १२ ॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥ १३ ॥
But, the others (i.e. those who do not perform Ishta etc.) have also their ascent and descent, after having suffered in Samyamana (i.e. Death’s abode), because, in the Scriptures, their course is seen to be in that way. ॥ 13 ॥
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — सर्वे चन्द्रमसं गच्छन्तीति । कस्मात् ? भोगायैव हि चन्द्रारोहणम् , न निष्प्रयोजनम् । नापि प्रत्यवरोहायैव, — यथा कश्चिद्वृक्षमारोहति पुष्पफलोपादानायैव, न निष्प्रयोजनम् , नापि पतनायैव । भोगश्च अनिष्टादिकारिणां चन्द्रमसि नास्तीत्युक्तम् । तस्मादिष्टादिकारिण एव चन्द्रमसमारोहन्ति, नेतरे ।
स्मरन्ति च ॥ १४ ॥
The Smritis also declare the same. ॥ 14 ॥
अपि च मनुव्यासप्रभृतयः शिष्टाः संयमने पुरे यमायत्तं कपूयकर्मविपाकं स्मरन्ति नाचिकेतोपाख्यानादिषु ॥ १४ ॥
अपि च सप्त ॥ १५ ॥
Besides (there are) seven (hells). ॥ 15 ॥
अपि च सप्त नरका रौरवप्रमुखा दुष्कृतफलोपभोगभूमित्वेन स्मर्यन्ते पौराणिकैः । ताननिष्टादिकारिणः प्राप्नुवन्ति । कुतस्ते चन्द्रं प्राप्नुयुः इत्यभिप्रायः ॥ १५ ॥
ननु विरुद्धमिदम् — यमायत्ता यातनाः पापकर्माणोऽनुभवन्तीति, यावता तेषु रौरवादिषु अन्ये चित्रगुप्तादयो नानाधिष्ठातारः स्मर्यन्त इति; नेत्याह —
तत्रापि च तद्व्यापारादविरोधः ॥ १६ ॥
There is no contradiction as there also, it is Yama’s writ that runs. ॥ 16 ॥
तेष्वपि सप्तसु नरकेषु तस्यैव यमस्याधिष्ठातृत्वव्यापाराभ्युपगमादविरोधः । यमप्रयुक्ता एव हि ते चित्रगुप्तादयोऽधिष्ठातारः स्मर्यन्ते ॥ १६ ॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ १७ ॥
Those who do not perform Ishta etc. do not ascend by the path either of knowledge or action, because the paths of knowledge and action are relevant to the context here. ॥ 17 ॥
तत्प्रक्रियायाम् ‘अथैतयोः पथोर्न कतरेणचन’ इति श्रुतम् । एतदुक्तं भवति — ये न विद्यासाधनेन देवयाने पथ्यधिकृताः, नापि कर्मणा पितृयाणे, तेषामेष क्षुद्रजन्तुलक्षणोऽसकृदावर्ती तृतीयः पन्था भवतीति । तस्मादपि न अनिष्टादिकारिभिश्चन्द्रमाः प्राप्यते । स्यादेतत् — तेऽपि चन्द्रबिम्बमारुह्य ततोऽवरुह्य क्षुद्रजन्तुत्वं प्रतिपत्स्यन्त इति । तदपि नास्ति, आरोहानर्थक्यात् ।
अपि च सर्वेषु प्रयत्सु चन्द्रलोकं प्राप्नुवत्सु असौ लोकः प्रयद्भिः सम्पूर्येत — इत्यतः प्रश्नविरुद्धं प्रतिवचनं प्रसज्येत; तथा हि प्रतिवचनं दातव्यम् , यथा असौ लोको न सम्पूर्यते । अवरोहाभ्युपगमादसम्पूरणोपपत्तिरिति चेत् , न, अश्रुतत्वात् । सत्यम् अवरोहादप्यसम्पूरणमुपपद्यते । श्रुतिस्तु तृतीयस्थानसङ्कीर्तनेन असम्पूरणं दर्शयति —
‘एतत्तृतीयं स्थानꣳ तेनासौ लोको न सम्पूर्यते’ (छा. उ. ५ । १० । ८)
इति । तेन अनारोहादेव असम्पूरणमिति युक्तम् । अवरोहस्येष्टादिकारिष्वप्यविशिष्टत्वे सति तृतीयस्थानोक्त्यानर्थक्यप्रसङ्गात् ।
तुशब्दस्तु शाखान्तरीयवाक्यप्रभवामशेषगमनाशङ्कामुच्छिनत्ति । एवं सति अधिकृतापेक्षः शाखान्तरीये वाक्ये सर्वशब्दोऽवतिष्ठते — ये वै केचिदधिकृता अस्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्तीति ॥ १७ ॥
यत्पुनरुक्तम् — देहलाभोपपत्तये सर्वे चन्द्रमसं गन्तुमर्हन्ति, ‘पञ्चम्यामाहुतौ’ इत्याहुतिसंख्यानियमादिति, तत्प्रत्युच्यते —
न तृतीये तथोपलब्धेः ॥ १८ ॥
Not, in the case of the third path, because it is seen to be so. ॥ 18 ॥
अपि च पञ्चम्यामाहुतावपां पुरुषवचस्त्वमुपदिश्यते, न अपञ्चम्यामाहुतौ पुरुषवचस्त्वं प्रतिषिध्यते, वाक्यस्य द्व्यर्थतादोषात् । तत्र येषामारोहावरोहौ सम्भवतः, तेषां पञ्चम्यामाहुतौ देह उद्भविष्यति । अन्येषां तु विनैवाहुतिसंख्यया भूतान्तरोपसृष्टाभिरद्भिर्देह आरप्स्यते ॥ १८ ॥
स्मर्यतेऽपि च लोके ॥ १९ ॥
Besides (that it is so), so far as the ordinary world is (concerned), is well-known. ॥ 19 ॥
अपि च स्मर्यते लोके, द्रोणधृष्टद्युम्नप्रभृतीनां सीताद्रौपदीप्रभृतीनां च अयोनिजत्वम् । तत्र द्रोणादीनां योषिद्विषया एका आहुतिर्नास्ति । धृष्टद्युम्नादीनां तु योषित्पुरुषविषये द्वे अप्याहुती न स्तः । यथा च तत्र आहुतिसंख्यानियमानादरो भवति, एवमन्यत्रापि भविष्यति । बलाकापि अन्तरेणैव रेतःसेकं गर्भं धत्त इति लोकरूढिः ॥ १९ ॥
दर्शनाच्च ॥ २० ॥
Also, because it is (so) seen. ॥ 20 ॥
अपि च चतुर्विधे भूतग्रामे जरायुजाण्डजस्वेदजोद्भिज्जलक्षणे स्वेदजोद्भिज्जयोः अन्तरेणैव ग्राम्यधर्मम् उत्पत्तिदर्शनात् आहुतिसंख्यानादरो भवति । एवमन्यत्रापि भविष्यति ॥ २० ॥
तृतीयशब्दावरोधः संशोकजस्य ॥ २१ ॥
The Sweat-horn (Samshokaja i.e. born from sweat caused by the heat of the body) are covered by the third term. ॥ 21 ॥
‘आण्डजं जीवजमुद्भिज्जम्’ (छा. उ. ६ । ३ । १)
इत्यत्र तृतीयेनोद्भिज्जशब्देनैव स्वेदजोपसङ्ग्रहः कृतः प्रत्येतव्यः, उभयोरपि स्वेदजोद्भिज्जयोः भूम्युदकोद्भेदप्रभवत्वस्य तुल्यत्वात् । स्थावरोद्भेदात्तु विलक्षणो जङ्गमोद्भेद इत्यन्यत्र स्वेदजोद्भिज्जयोर्भेदवाद इत्यविरोधः ॥ २१ ॥
साभाव्यापत्तिरुपपत्तेः ॥ २२ ॥
Because, (that, beings which descend from the moon) attain similarity (to Akasha etc.), is reasonably sustainable. ॥ 22 ॥
तत्र संशयः — किमाकाशादिस्वरूपमेवावरोहन्तः प्रतिपद्यन्ते, किं वा आकाशादिसाम्यमिति । तत्र प्राप्तं तावत् — आकाशादिस्वरूपमेव प्रतिपद्यन्त इति । कुतः ? एवं हि श्रुतिर्भवति । इतरथा लक्षणा स्यात् । श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या, न लक्षणा । तथा च ‘वायुर्भूत्वा धूमो भवति’ इत्येवमादीन्यक्षराणि तत्तत्स्वरूपोपपत्तौ आञ्जस्येन अवकल्पन्ते । तस्मादाकाशादिस्वरूपप्रतिपत्तिरिति ।
एवं प्राप्ते, ब्रूमः — आकाशादिसाम्यं प्रतिपद्यन्त इति । चन्द्रमण्डले यत् अम्मयं शरीरमुपभोगार्थमारब्धम् , तत् उपभोगक्षये सति प्रविलीयमानं सूक्ष्ममाकाशसमं भवति । ततो वायोर्वशमेति । ततो धूमादिभिः सम्पृच्यत इति । तदेतदुच्यते —
‘यथेतमाकाशमाकाशाद्वायुम्’ (छा. उ. ५ । १० । ५)
इत्येवमादिना ।
कुत एतत् ? उपपत्तेः । एवं हि एतदुपपद्यते । न हि अन्यस्यान्यभावो मुख्य उपपद्यते । आकाशस्वरूपप्रतिपत्तौ च वाय्वादिक्रमेणावरोहो नोपपद्यते । विभुत्वाच्च आकाशेन नित्यसम्बद्धत्वात् न तत्सादृश्यापत्तेरन्यः तत्सम्बन्धो घटते । श्रुत्यसम्भवे च लक्षणाश्रयणं न्याय्यमेव । अत आकाशादितुल्यतापत्तिरेव अत्र आकाशादिभाव इत्युपचर्यते ॥ २२ ॥
नातिचिरेण विशेषात् ॥ २३ ॥
(These individual Jiva-Selfs who become similar to Akasha etc. during the descent) do not remain so, for long, because there is a special statement (about it). ॥ 23 ॥
तत्र आकाशादिप्रतिपत्तौ प्राग्व्रीह्यादिप्रतिपत्तेः भवति विशयः — किं दीर्घं दीर्घं कालं पूर्वपूर्वसादृश्येनावस्थायोत्तरोत्तरसादृश्यं गच्छन्ति, उताल्पमल्पमिति । तत्रानियमः, नियमकारिणः शास्त्रस्याभावादित्येवं प्राप्ते, इदमाह — नातिचिरेणेति । अल्पमल्पं कालमाकाशादिभावेनावस्थाय वर्षधाराभिः सह इमां भुवमापतन्ति । कुत एतत् ? विशेषदर्शनात्; तथा हि व्रीह्यादिभावापत्तेरनन्तरं विशिनष्टि —
‘अतो वै खलु दुर्निष्प्रपतरम्’ (छा. उ. ५ । १० । ६)
इति । तकार एकश्छान्दस्यां प्रक्रियायां लुप्तो मन्तव्यः । दुर्निष्प्रपततरं दुर्निष्क्रमतरम् — दुःखतरमस्माद्व्रीह्यादिभावान्निःसरणं भवतीत्यर्थः ।
तत् अत्र दुःखं निष्प्रपतनं प्रदर्शयन् पूर्वेषु सुखं निष्प्रपतनं दर्शयति । सुखदुःखताविशेषश्चायं निष्प्रपतनस्य कालाल्पत्वदीर्घत्वनिमित्तः, तस्मिन्नवधौ शरीरानिष्पत्तेरुपभोगासम्भवात् । तस्माद्व्रीह्यादिभावापत्तेः प्राक् अल्पेनैव कालेनावरोहः स्यादिति ॥ २३ ॥
अन्याधिष्ठितेषु पूर्ववदभिलापात् ॥ २४ ॥
(These Jiva-Selfs during their descent come into contact with Vrihi plants etc.) which have been already occupied by other (JivaSelfs) as in previous cases, because there is a Scriptural reference to it. ॥ 24 ॥
किं तावत्प्राप्तम् ? स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति । कुत एतत् ? जनेर्मुख्यार्थत्वोपपत्तेः, स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः, पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः । तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म, श्वादिजन्मवत् — यथा ‘श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा’ इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति, एवं व्रीह्यादिजन्मापीति ।
एवं प्राप्ते ब्रूमः — अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते, न तत्सुखदुःख भाजो भवन्ति, पूर्ववत् — यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् , एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम् । कुत एतत् ? तद्वदेवेहाप्यभिलापात् । कोऽभिलापस्य तद्वद्भावः ? कर्मव्यापारमन्तरेण सङ्कीर्तनम् — यथा आकाशादिषु प्रवर्षणान्तेषु न कञ्चित्कर्मव्यापारं परामृशति, एवं व्रीह्यादिजन्मन्यपि । तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम् ।
यत्र तु सुखदुःखभाक्त्वमभिप्रैति, परामृशति तत्र कर्मव्यापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’ इति । अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि, व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः । यो हि जीवो यच्छरीरमभिमन्यते, स तस्मिन्पीड्यमाने प्रवसति — इति प्रसिद्धम् ।
तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत । अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति । एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् , उपभोगस्थानत्वं च स्थावरभावस्य । न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे । भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् । चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे ॥ २४ ॥
अशुद्धमिति चेन्न शब्दात् ॥ २५ ॥
If it be said that (action such as a sacrifice etc.) is impure, (we reply) — No, because of the Scriptures. ॥ 25 ॥
यत्पुनरुक्तम् — पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म, तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु । तत्र गौणी कल्पना अनर्थिकेति — तत्परिह्रियते — न, शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य । अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् , अतीन्द्रियत्वात्तयोः । अनियतदेशकालनिमित्तत्वाच्च — यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते, स एव देशकालनिमित्तान्तरेष्वधर्मो भवति । तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति । शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः, स कथमशुद्ध इति शक्यते वक्तुम् ।
ननु ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति । बाढम् — उत्सर्गस्तु सः । अपवादः ‘अग्नीषोमीयं पशुमालभेत’ इति । उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् । तस्माद्विशुद्धं कर्म वैदिकम्; शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च । तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम् । न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति । तद्धि कपूयचरणानधिकृत्य उच्यते । नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति । अतश्चन्द्रमण्डलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते ॥ २५ ॥
रेतःसिग्योगोऽथ ॥ २६ ॥
Thereafter, (these Jiva-Selfs) come into contact with those who are the inseminators. ॥ 26 ॥
इतश्च व्रीह्यादिसंश्लेषमात्रं तद्भावः, यत्कारणं व्रीह्यादिभावस्यानन्तरमनुशयिनां रेतःसिग्भाव आम्नायते —
‘यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति’ (छा. उ. ५ । १० । ६)
इति । न चात्र मुख्यो रेतःसिग्भावः सम्भवति । चिरजातो हि प्राप्तयौवनो रेतःसिग्भवति । कथमिव अनुपचरितं तद्भावम् अद्यमानान्नानुगतोऽनुशयी प्रतिपद्येत ? तत्र तावदवश्यं रेतःसिग्योग एव रेतःसिग्भावोऽभ्युपगन्तव्यः । तद्वत् व्रीह्यादिभावोऽपि व्रीह्यादियोग एवेत्यविरोधः ॥ २६ ॥
योनेः शरीरम् ॥ २७ ॥
From the womb, a body (is born). ॥ 27 ॥
अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि, योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् —
‘तद्य इह रमणीयचरणाः’ (छा. उ. ५ । १० । ७)
इत्यादि । तस्मादप्यवगम्यते — नावरोहे व्रीह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति । तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम् ॥ २७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयाध्यायस्य प्रथमः पादः ॥
सन्ध्ये सृष्टिराह हि ॥ १ ॥
In the twilight (i.e. dream) condition, there is creation because the Scriptures also speak about it. ॥ 1 ॥
अतिक्रान्ते पादे पञ्चाग्निविद्यामुदाहृत्य जीवस्य संसारगतिप्रभेदः प्रपञ्चितः । इदानीं तस्यैवावस्थाभेदः प्रपञ्च्यते । इदमामनन्ति —
‘स यत्र प्रस्वपिति’ (बृ. उ. ४ । ३ । ९)
इत्युपक्रम्य ‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ सृजते’ इत्यादि । तत्र संशयः — किं प्रबोधे इव स्वप्नेऽपि पारमार्थिकी सृष्टिः, आहोस्विन्मायामयीति । तत्र तावत्प्रतिपाद्यते —
सन्ध्ये तथ्यरूपा सृष्टिरिति । सन्ध्यमिति स्वप्नस्थानमाचष्टे, वेदे प्रयोगदर्शनात् — ‘सन्ध्यं तृतीयꣳ स्वप्नस्थानम्’ इति; द्वयोर्लोकस्थानयोः प्रबोधसम्प्रसादस्थानयोर्वा सन्धौ भवतीति सन्ध्यम् । तस्मिन्सन्ध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति — कुतः ? यतः प्रमाणभूता श्रुतिरेवमाह —
‘अथ सृजते’ (बृ. उ. ४ । ३ । १०)
इत्यादि । ‘स हि कर्ता’ इति च उपसंहारात् एवमेवावगम्यते ॥ १ ॥
निर्मातारं चैके पुत्रादयश्च ॥ २ ॥
(The followers) of one branch also consider him (i.e. the Atma) to be the creator (of things desired in a dream, i.e. of Kama) , and also (Kama means) sons etc. ॥ 2 ॥
एवं प्राप्ते, प्रत्याह —
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३ ॥
But (creation in the dream condition) is mere appearance i.e. illusion, because of its nature of not being a complete manifestation (of the attributes of reality). ॥ 3 ॥
तुशब्दः पक्षं व्यावर्तयति । नैतदस्ति — यदुक्तं सन्ध्ये सृष्टिः पारमार्थिकीति । मायैव सन्ध्ये सृष्टिः, न परमार्थगन्धोऽप्यस्ति । कुतः ? कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् — न हि कार्त्स्न्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः । किं पुनरत्र कार्त्स्न्यमभिप्रेतम् ? देशकालनिमित्तसम्पत्तिः अबाधश्च । न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने सम्भाव्यन्ते । न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति । न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् ।
स्यादेतत् — बहिर्देहात् स्वप्नं द्रक्ष्यति, देशान्तरितद्रव्यग्रहणात् । दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् —
‘बहिष्कुलायादमृतश्चरित्वा । स ईयतेऽमृतो यत्र कामम्’ (बृ. उ. ४ । ३ । १२)
इति । स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत — इति । नेत्युच्यते — न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं सम्भाव्यते । क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति — कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः, स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च — इति । देहाच्चेदपेयात् , पञ्चालेष्वेव प्रतिबुध्येत , तानसावभिगत इति । कुरुष्वेव तु प्रतिबुध्यते ।
येन च अयं देहेन देशान्तरमश्नुवानो मन्यते, तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति । यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति । परिधावंश्चेत्पश्येत् , जाग्रद्वत् वस्तुभूतमर्थमाकलयेत् । दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् — ‘स यत्रैतत्स्वप्न्यया चरति’ इत्युपक्रम्य
‘स्वे शरीरे यथाकामं परिवर्तते’ (बृ. उ. २ । १ । १८)
इति । अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या — बहिरिव कुलायात् अमृतश्चरित्वेति; यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति, स बहिरिव शरीराद्भवति — इति । स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः ॥
कालविसंवादोऽपि च स्वप्ने भवति — रजन्यां सुप्तो वासरं भारते वर्षे मन्यते; तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति । निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते । करणोपसंहाराद्धि नास्य रथादिग्रहणाय चक्षुरादीनि सन्ति । रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा ।
बाध्यन्ते चैते रथादयः स्वप्नदृष्टाः प्रबोधे । स्वप्न एव च एते सुलभबाधा भवन्ति, आद्यन्तयोर्व्यभिचारदर्शनात् — रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते, मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः । स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् —
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ (बृ. उ. ४ । ३ । १०)
इत्यादि । तस्मान्मायामात्रं स्वप्नदर्शनम् ॥ ३ ॥
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॥ ४ ॥
On the authority of Scriptures (a dream although an appearance i.e. an illusion, is yet) a portent too. Expert interpreters (of dreams) also say so. ॥ 4 ॥
मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते । तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् । सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् , बाध्यमानत्वादित्यभिप्रायः । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥
यदुक्तम् — ‘आह हि’ इति तदेवं सति भाक्तं व्याख्यातव्यम् — यथा ‘लाङ्गलं गवादीनुद्वहति’ इति निमित्तमात्रत्वादेवमुच्यते, न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति । एवं निमित्तमात्रत्वात् — सुप्तो रथादीन्सृजते, ‘स हि कर्ता’ — इति च उच्यते । न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति । निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम् ।
अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः । तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत, ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् । तस्माद्रथाद्यभाववचनं श्रुत्या, रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम् । एतेन निर्माणश्रवणं व्याख्यातम् ।
न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते, तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः । पारमार्थिकस्तु नायं सन्ध्याश्रयः सर्गः वियदादिसर्गवत् — इत्येतावत्प्रतिपाद्यते । न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति । प्रतिपादितं हि
‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र. सू. २ । १ । १४)
इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम् । प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति । सन्ध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते — इत्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमुदितम् ॥ ४ ॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ५ ॥
(Attributes which are (in fact) common to the Highest Self i.e. the Lord and the Jiva-Self, but are) obscured, become manifest in the Jiva-Self by meditation on the transcendental one (i.e. the Highest Self i.e. the Lord), for bondage (Bandha) and its opposite (i.e. Final Release) of the JivaSelf are due to that Highest Self i.e. the Lord. ॥ 5 ॥
अथापि स्यात् — परस्यैव तावदात्मनोंऽशः जीवः — अग्नेरिव विस्फुलिङ्गः । तत्रैवं सति यथा अग्निविस्फुलिङ्गयोः समाने दहनप्रकाशनशक्ती भवतः, एवं जीवेश्वरयोरपि ज्ञानैश्वर्यशक्ती । ततश्च जीवस्य ज्ञानैश्वर्यवशात् साङ्कल्पिकी स्वप्ने रथादिसृष्टिर्भविष्यतीति । अत्रोच्यते — सत्यपि जीवेश्वरयोरंशांशिभावे प्रत्यक्षमेव जीवस्येश्वरविपरीतधर्मत्वम् । किं पुनर्जीवस्य ईश्वरसमानधर्मत्वं नास्त्येव ? न नास्त्येव । विद्यमानमपि तत् तिरोहितम् अविद्यादिव्यवधानात् । तत्पुनस्तिरोहितं सत् परमेश्वरमभिध्यायतो यतमानस्य जन्तोर्विधूतध्वान्तस्य — तिमिरतिरस्कृतेव दृक्शक्तिः औषधवीर्यात् — ईश्वरप्रसादात् संसिद्धस्य कस्यचिदेवाविर्भवति, न स्वभावत एव, सर्वेषां जन्तूनाम् ।
देहयोगाद्वा सोऽपि ॥ ६ ॥
Or, this obscurement (of the powers of Knowledge and Lordship of a Jiva-Self) also is, on account of its contact with the body. ॥ 6 ॥
कस्मात्पुनर्जीवः परमात्मांश एव सन् तिरस्कृतज्ञानैश्वर्यो भवति ? युक्तं तु ज्ञानैश्वर्ययोरतिरस्कृतत्वम् , विस्फुलिङ्गस्येव दहनप्रकाशनयोः — इति । उच्यते — सत्यमेवैतत् । सोऽपि तु जीवस्य ज्ञानैश्वर्यतिरोभावः, देहयोगात् देहेन्द्रियमनोबुद्धिविषयवेदनादियोगात् भवति । अस्ति च अत्रोपमा — यथा अग्नेर्दहनप्रकाशनसम्पन्नस्याप्यरणिगतस्य दहनप्रकाशने तिरोहिते भवतः, यथा वा भस्मच्छन्नस्य — एवमविद्याप्रत्युपस्थापितनामरूपकृतदेहाद्युपाधियोगात् तदविवेकभ्रमकृतो जीवस्य ज्ञानैश्वर्यतिरोभावः ।
अतश्च न साङ्कल्पिकी जीवस्य स्वप्ने रथादिसृष्टिर्घटते । यदि च साङ्कल्पिकी स्वप्ने रथादिसृष्टिः स्यात् , नैवानिष्टं कश्चित्स्वप्नं पश्येत् , न हि कश्चिदनिष्टं सङ्कल्पयते । यत्पुनरुक्तम् — जागरितदेशश्रुतिः स्वप्नस्य सत्यत्वं ख्यापयतीति, न तत्साम्यवचनं सत्यत्वाभिप्रायम् , स्वयंज्योतिष्ट्वविरोधात् , श्रुत्यैव च स्वप्ने रथाद्यभावस्य दर्शितत्वात् । जागरितप्रभववासनानिर्मितत्वात्तु स्वप्नस्य तत्तुल्यनिर्भासत्वाभिप्रायं तत् । तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम् ॥ ६ ॥
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥
There is absence of that (i.e. a dream.) in the Nadis and in the Self (Atma), according to the Scriptures. ॥ 7 ॥
तत्र संशयः — किमेतानि नाड्यादीनि परस्परनिरपेक्षाणि भिन्नानि सुषुप्तिस्थानानि, आहोस्वित्परस्परापेक्षया एकं सुषुप्तिस्थानमिति । किं तावत्प्राप्तम् ? भिन्नानीति । कुतः ? एकार्थत्वात् — न हि एकार्थानां क्वचित्परस्परापेक्षत्वं दृश्यते व्रीहियवादीनाम् । नाड्यादीनां च एकार्थता सुषुप्तौ दृश्यते,
‘नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३)
‘पुरीतति शेते’ (बृ. उ. २ । १ । १९)
इति च तत्र तत्र सप्तमीनिर्देशस्य तुल्यत्वात् ।
एवं प्राप्ते, प्रतिपाद्यते — तदभावो नाडीष्वात्मनि चेति । तदभाव इति, तस्य प्रकृतस्य स्वप्नदर्शनस्य अभावः सुषुप्तमित्यर्थः । नाडीष्वात्मनि चेति समुच्चयेन एतानि नाड्यादीनि स्वापायोपसर्पति, न विकल्पेन — इत्यर्थः । कुतः ? तच्छ्रुतेः । तथा हि सर्वेषामेव नाड्यादीनां तत्र तत्र सुषुप्तिस्थानत्वं श्रूयते । तच्च समुच्चये सङ्गृहीतं भवति । विकल्पे ह्येषाम् , पक्षे बाधः स्यात् ।
यत्रापि निरपेक्षा इव नाडीः सुप्तिस्थानत्वेन श्रावयति —
‘आसु तदा नाडीषु सृप्तो भवति’ (छा. उ. ८ । ६ । ३)
इति, तत्रापि प्रदेशान्तरप्रसिद्धस्य ब्रह्मणोऽप्रतिषेधात् नाडीद्वारेण ब्रह्मण्येवावतिष्ठत इति प्रतीयते । न चैवमपि नाडीषु सप्तमी विरुध्यते, नाडीद्वारापि ब्रह्मोपसर्पन् सृप्त एव नाडीषु भवति — यो हि गङ्गया सागरं गच्छति, गत एव स गङ्गायां भवति ।
तथा नाडीपुरीतत्समुच्चयोऽपि
‘ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ. उ. २ । १ । १९)
इत्येकवाक्योपादानात् अवगम्यते । सत्प्राज्ञयोश्च प्रसिद्धमेव ब्रह्मत्वम् । एवमेतासु श्रुतिषु त्रीण्येव सुषुप्तिस्थानानि सङ्कीर्तितानि — नाड्यः पुरीतत् ब्रह्म चेति । तत्रापि द्वारमात्रं नाड्यः पुरीतच्च, ब्रह्मैव तु एकम् अनपायि सुषुप्तिस्थानम् ।
अपि च नाड्यः पुरीतद्वा जीवस्योपाध्याधार एव भवति — तत्रास्य करणानि वर्तन्त इति । न हि उपाधिसम्बन्धमन्तरेण स्वत एव जीवस्याधारः कश्चित्सम्भवति, ब्रह्माव्यतिरेकेण स्वमहिमप्रतिष्ठितत्वात् । ब्रह्माधारत्वमप्यस्य सुषुप्ते नैव आधाराधेयभेदाभिप्रायेण उच्यते । कथं तर्हि ? तादात्म्याभिप्रायेण; यत आह —
‘सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ (छा. उ. ६ । ८ । १)
इति; स्वशब्देन आत्मा अभिलप्यते, स्वरूपमापन्नः सुप्तो भवतीत्यर्थः ।
अपि च न कदाचिज्जीवस्य ब्रह्मणा सम्पत्तिर्नास्ति, स्वरूपस्यानपायित्वात् । स्वप्नजागरितयोस्तूपाधिसम्पर्कवशात् पररूपापत्तिमिवापेक्ष्य तदुपशमात्सुषुप्ते स्वरूपापत्तिर्विवक्ष्यते — ‘स्वमपीतो भवति’ इति । अतश्च सुषुप्तावस्थायां कदाचित्सता सम्पद्यते, कदाचिन्न सम्पद्यते — इत्ययुक्तम् ।
ननु भेदविषयस्याप्यतिदूरादिकारणमविज्ञाने स्यात्; बाढमेवं स्यात् , यदि जीवः स्वतः परिच्छिन्नोऽभ्युपगम्येत — यथा विष्णुमित्रः प्रवासी स्वगृहं न पश्यतीति । न तु जीवस्योपाधिव्यतिरेकेण परिच्छेदो विद्यते । उपाधिगतमेवातिदूरादिकारणम् अविज्ञाने इति यद्युच्येत, तथाप्युपाधेरुपशान्तत्वात् सत्येव सम्पन्नः न विजानातीति युक्तम् ।
न च वयमिह तुल्यवत् नाड्यादिसमुच्चयं प्रतिपादयामः । न हि नाड्यः सुप्तिस्थानं पुरीतच्च इत्यनेन विज्ञानेन किञ्चित्प्रयोजनमस्ति । न ह्येतद्विज्ञानप्रतिबद्धं किञ्चित्फलं श्रूयते । नाप्येतद्विज्ञानं फलवतः कस्यचिदङ्गमुपदिश्यते । ब्रह्म तु अनपायि सुप्तिस्थानम् — इत्येतत्प्रतिपादयामः । तेन तु विज्ञानेन प्रयोजनमस्ति जीवस्य ब्रह्मात्मत्वावधारणं स्वप्नजागरितव्यवहारविमुक्तत्वावधारणं च । तस्मादात्मैव सुप्तिस्थानम् ॥ ७ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥
Hence, (the Jiva-Self s) awakening (is) from that (Highest Self). ॥ 8 ॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
It is (understood, that it is hut) the same (Jiva-Self) that wakes up, because of (the reasons of) Karma (religious action), remembrance (Anusmriti), Scriptural word (Shabda) and injunction (Vidhi). ॥ 9 ॥
तस्याः पुनः सत्सम्पत्तेः प्रतिबुध्यमानः किं य एव सत्सम्पन्नः स एव प्रतिबुध्यते, उत स वा अन्यो वा इति चिन्त्यते । तत्र प्राप्तं तावत् — अनियम इति । कुतः ? यदा हि जलराशौ कश्चिज्जलबिन्दुः प्रक्षिप्यते, जलराशिरेव स तदा भवति, पुनरुद्धरणे च स एव जलबिन्दुर्भवति इति दुःसम्पादम् — तद्वत् सुप्तः परेणैकत्वमापन्नः सम्प्रसीदतीति न स एव पुनरुत्थातुमर्हति; तस्मात् स एव ईश्वरो वा अन्यो वा जीवः प्रतिबुध्यते इति ॥
एवं प्राप्ते, इदमाह — स एव तु जीवः सुप्तः स्वास्थ्यं गतः पुनरुत्तिष्ठति, नान्यः । कस्मात् ? कर्मानुस्मृतिशब्दविधिभ्यः । विभज्य हेतुं दर्शयिष्यामि । कर्मशेषानुष्ठानदर्शनात्तावत्स एवोत्थातुमर्हति नान्यः । तथा हि — पूर्वेद्युरनुष्ठितस्य कर्मणः अपरेद्युः शेषमनुतिष्ठन्दृश्यते । न चान्येन सामिकृतस्य कर्मणः अन्यः शेषक्रियायां प्रवर्तितुमुत्सहते, अतिप्रसङ्गात् । तस्मादेक एव पूर्वेद्युरपरेद्युश्च एकस्य कर्मणः कर्तेति गम्यते ।
कर्मविद्याविधिभ्यश्चैवमेवावगम्यते । अन्यथा हि कर्मविद्याविधयोऽनर्थकाः स्युः । अन्योत्थानपक्षे हि सुप्तमात्रो मुच्यत इत्यापद्येत । एवं चेत्स्यात् , वद किं कालान्तरफलेन कर्मणा विद्यया वा कृतं स्यात् ? अपि च अन्योत्थानपक्षे यदि तावच्छरीरान्तरे व्यवहरमाणो जीव उत्तिष्ठेत् , तत्रत्यव्यवहारलोपप्रसङ्गः स्यात् । अथ तत्र सुप्त उत्तिष्ठेत् , कल्पनानर्थक्यं स्यात् । यो हि यस्मिन् शरीरे सुप्तः सः तस्मिन् नोत्तिष्ठति, अन्यस्मिन् शरीरे सुप्तः अन्यस्मिन्नुत्तिष्ठतीति कोऽस्याम् कल्पनायां लाभः स्यात् ?
अथ मुक्त उत्तिष्ठेत् , अन्तवान्मोक्ष आपद्येत । निवृत्ताविद्यस्य च पुनरुत्थानमनुपपन्नम् । एतेन ईश्वरस्योत्थानं प्रत्युक्तम् , नित्यनिवृत्ताविद्यत्वात् । अकृताभ्यागमकृतविप्रणाशौ च दुर्निवारावन्योत्थानपक्षे स्याताम् । तस्मात्स एवोत्तिष्ठति, नान्य इति ।
यत्पुनरुक्तम् — यथा जलराशौ प्रक्षिप्तो जलबिन्दुर्नोद्धर्तुं शक्यते, एवं सति सम्पन्नो जीवो नोत्पतितुमर्हतीति, तत्परिह्रियते — युक्तं तत्र विवेककारणाभावात् जलबिन्दोरनुद्धरणम् , इह तु विद्यते विवेककारणम् — कर्म च अविद्या च, इति वैषम्यम् । दृश्यते च दुर्विवेचनयोरप्यस्मज्जातीयैः क्षीरोदकयोः संसृष्टयोः हंसेन विवेचनम् ।
अपि च न जीवो नाम कश्चित्परस्मादन्यो विद्यते, यो जलबिन्दुरिव जलराशेः सतो विविच्येत । सदेव तु उपाधिसम्पर्काज्जीव इत्युपचर्यते इत्यसकृत्प्रपञ्चितम् । एवं सति यावदेकोपाधिगता बन्धानुवृत्तिः, तावदेकजीवव्यवहारः । उपाध्यन्तरगतायां तु बन्धानुवृत्तौ जीवान्तरव्यवहारः । स एवायमुपाधिः स्वापप्रबोधयोः बीजाङ्कुरन्यायेन — इत्यतः स एव जीवः प्रतिबुध्यत इति युक्तम् ॥ ९ ॥
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
In the case of a person who is in a swoon, there is only half-attained unity (with deep sleep) on account of that being (the only) remaining (alternative). ॥ 10 ॥
अस्ति मुग्धो नाम, यं मूर्छित इति लौकिकाः कथयन्ति । स तु किमवस्थ इति परीक्षायाम् , उच्यते — तिस्रस्तावदवस्थाः शरीरस्थस्य जीवस्य प्रसिद्धाः — जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरादपसृप्तिः । न तु पञ्चमी काचिदवस्था जीवस्य श्रुतौ स्मृतौ वा प्रसिद्धा अस्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्छा — इति ॥
एवं प्राप्ते, ब्रूमः — न तावन्मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते । स्यादेतत् — इषुकारन्यायेन मुग्धो भविष्यति — यथा इषुकारो जाग्रदपि इष्वासक्तमनस्तया नान्यान्विषयानीक्षते, एवं मुग्धो मुसलसम्पातादिजनितदुःखानुभवव्यग्रमनस्तया जाग्रदपि नान्यान्विषयानीक्षत इति; न, अचेतयमानत्वात् । इषुकारो हि व्यापृतमना ब्रवीति — इषुमेवाहमेतावन्तं कालमुपलभमानोऽभूवमिति, मुग्धस्तु लब्धसंज्ञो ब्रवीति — अन्धे तमस्यहमेतावन्तं कालं प्रक्षिप्तोऽभूवम् , न किञ्चिन्मया चेतितमिति । जाग्रतश्चैकविषयविषक्तचेतसोऽपि देहो विध्रियते । मुग्धस्य तु देहो धरण्यां पतति । तस्मात् न जागर्ति । नापि स्वप्नान्पश्यति, निःसंज्ञत्वात् ।
नापि मृतः, प्राणोष्मणोर्भावात् — मुग्धे हि जन्तौ मृतोऽयं स्यान्न वा मृत इति संशयानाः, ऊष्मास्ति नास्तीति हृदयदेशमालभन्ते निश्चयार्थम् , प्राणोऽस्ति नास्तीति च नासिकादेशम् । यदि प्राणोष्मणोरस्तित्वं नावगच्छन्ति, ततो मृतोऽयमित्यध्यवसाय दहनायारण्यं नयन्ति । अथ तु प्राणमूष्माणं वा प्रतिपद्यन्ते, ततो नायं मृत इत्यध्यवसाय संज्ञालाभाय भिषज्यन्ति । पुनरुत्थानाच्च न दिष्टं गतः । न हि यमराष्ट्रात्प्रत्यागच्छति ।
अस्तु तर्हि सुषुप्तः, निःसंज्ञत्वात् , अमृतत्वाच्च; न, वैलक्षण्यात् — मुग्धः कदाचिच्चिरमपि नोच्छ्वसिति, सवेपथुरस्य देहो भवति, भयानकं च वदनम् , विस्फारिते नेत्रे । सुषुप्तस्तु प्रसन्नवदनस्तुल्यकालं पुनः पुनरुच्छ्वसिति, निमीलिते अस्य नेत्रे भवतः, न चास्य देहो वेपते । पाणिपेषणमात्रेण च सुषुप्तमुत्थापयन्ति, न तु मुग्धं मुद्गरघातेनापि । निमित्तभेदश्च भवति मोहस्वापयोः — मुसलसम्पातादिनिमित्तत्वान्मोहस्य, श्रमादिनिमित्तत्वाच्च स्वापस्य । न च लोकेऽस्ति प्रसिद्धिः — मुग्धः सुप्तः इति । परिशेषादर्धसम्पत्तिर्मुग्धतेत्यवगच्छामः — निःसंज्ञत्वात् सम्पन्नः, इतरस्माच्च वैलक्षण्यादसम्पन्नः इति ॥
अत्रोच्यते — न ब्रूमः — मुग्धेऽर्धसम्पत्तिर्जीवस्य ब्रह्मणा भवतीति । किं तर्हि ? अर्धेन सुषुप्तपक्षस्य भवति मुग्धत्वम् , अर्धेनावस्थान्तरपक्षस्य — इति ब्रूमः । दर्शिते च मोहस्य स्वापेन साम्यवैषम्ये । द्वारं चैतत् मरणस्य । यदास्य सावशेषं कर्म भवति, तदा वाङ्मनसे प्रत्यागच्छतः । यदा तु निरवशेषं कर्म भवति, तदा प्राणोष्माणावपगच्छतः । तस्मादर्धसम्पत्तिं ब्रह्मविद इच्छन्ति । यत्तूक्तम् — न पञ्चमी काचिदवस्था प्रसिद्धास्तीति, नैष दोषः; कादाचित्कीयमवस्थेति न प्रसिद्धा स्यात् । प्रसिद्धा चैषा लोकायुर्वेदयोः । अर्धसम्पत्त्यभ्युपगमाच्च न पञ्चमी गण्यत इत्यनवद्यम् ॥ १० ॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥
Even by reason of (difference in) place (Sthana) (i.e. limiting adjuncts) the transcendent one (i.e. Brahma) cannot be of a two-fold nature (of being both qualified and unqualified Brahma) because everywhere it is taught to be without any attributes (Nirguna). ॥ 11 ॥
तत्र उभयलिङ्गश्रुत्यनुग्रहात् उभयलिङ्गमेव ब्रह्म इत्येवं प्राप्ते ब्रूमः — न तावत्स्वत एव परस्य ब्रह्मण उभयलिङ्गत्वमुपपद्यते । न हि एकं वस्तु स्वत एव रूपादिविशेषोपेतं तद्विपरीतं च इत्यवधारयितुं शक्यम् , विरोधात् । अस्तु तर्हि स्थानतः, पृथिव्याद्युपाधियोगादिति । तदपि नोपपद्यते — न हि उपाधियोगादप्यन्यादृशस्य वस्तुनोऽन्यादृशः स्वभावः सम्भवति । न हि स्वच्छः सन् स्फटिकः अलक्तकाद्युपाधियोगादस्वच्छो भवति, भ्रममात्रत्वादस्वच्छताभिनिवेशस्य । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् ।
अतश्च अन्यतरलिङ्गपरिग्रहेऽपि समस्तविशेषरहितं निर्विकल्पकमेव ब्रह्म प्रतिपत्तव्यम् , न तद्विपरीतम् । सर्वत्र हि ब्रह्मस्वरूपप्रतिपादनपरेषु वाक्येषु
‘अशब्दमस्पर्शमरूपमव्ययम्’ (क. उ. १ । ३ । १५)
,
(मुक्ति. उ. २ । १२)
इत्येवमादिषु अपास्तसमस्तविशेषमेव ब्रह्म उपदिश्यते ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
If it be said that it is not so, (i.e. the transcendent Brahma is not without attributes), because there is difference (we reply) — No, because every such (assertion about difference) is denied. ॥ 12 ॥
अथापि स्यात् — यदुक्तम् , निर्विकल्पमेकलिङ्गमेव ब्रह्म नास्य स्वतः स्थानतो वा उभयलिङ्गत्वमस्तीति, तन्नोपपद्यते । कस्मात् ? भेदात् । भिन्ना हि प्रतिविद्यं ब्रह्मण आकारा उपदिश्यन्ते, चतुष्पात् ब्रह्म, षोडशकलं ब्रह्म, वामनीत्वादिलक्षणं ब्रह्म, त्रैलोक्यशरीरवैश्वानरशब्दोदितं ब्रह्म, इत्येवंजातीयकाः । तस्मात् सविशेषत्वमपि ब्रह्मणोऽभ्युपगन्तव्यम् । ननु उक्तं नोभयलिङ्गत्वं ब्रह्मणः सम्भवतीति; अयमप्यविरोधः, उपाधिकृतत्वादाकारभेदस्य । अन्यथा हि निर्विषयमेव भेदशास्त्रं प्रसज्येत — इति चेत् ,
अपि चैवमेके ॥ १३ ॥
Moreover (followers of) one branch (of the Scriptures) declare likewise. ॥ 13 ॥
कथं पुनः आकारवदुपदेशिनीषु अनाकारोपदेशिनीषु च ब्रह्मविषयासु श्रुतिषु सतीषु, अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतम् इत्यत उत्तरं पठति —
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥
(Brahma) of course is devoid of any form, because, that is the main purport (of the Scriptures). ॥ 14 ॥
इतराणि तु आकारवद्ब्रह्मविषयाणि वाक्यानि न तत्प्रधानानि । उपासनाविधिप्रधानानि हि तानि । तेष्वसति विरोधे यथाश्रुतमाश्रयितव्यम् । सति तु विरोधे तत्प्रधानानि अतत्प्रधानेभ्यो बलीयांसि भवन्ति — इत्येष विनिगमनायां हेतुः, येन उभयीष्वपि श्रुतिषु सतीषु अनाकारमेव ब्रह्म अवधार्यते, न पुनर्विपरीतमिति ॥ १४ ॥
का तर्ह्याकारवद्विषयाणां श्रुतीनां गतिः इत्यत आह —
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
(It is) as it is in the case of light (viz. that Brahma as it were assumes various forms), in order (that passages referring to qualified Brahma) may not be rendered purposeless. ॥ 15 ॥
यथा प्रकाशः सौरश्चान्द्रमसो वा वियद्व्याप्य अवतिष्ठमानः अङ्गुल्याद्युपाधिसम्बन्धात् तेषु ऋजुवक्रादिभावं प्रतिपद्यमानेषु तद्भावमिव प्रतिपद्यते, एवं ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते । तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । एवम् अवैयर्थ्यम् आकारवद्ब्रह्मविषयाणामपि वाक्यानां भविष्यति । न हि वेदवाक्यानां कस्यचिदर्थवत्त्वम् कस्यचिदनर्थवत्त्वमिति युक्तं प्रतिपत्तुम् , प्रमाणत्वाविशेषात् ।
नन्वेवमपि यत्पुरस्तात्प्रतिज्ञातम् — नोपाधियोगादप्युभयलिङ्गत्वं ब्रह्मणोऽस्तीति, तद्विरुध्यते; नेति ब्रूमः — उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः । उपाधीनां च अविद्याप्रत्युपस्थापितत्वात् । सत्यामेव च नैसर्गिक्यामविद्यायां लोकवेदव्यवहारावतार इति तत्र तत्र अवोचाम ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
(The Scriptures) also, have declared (Brahma) to have that only (Tanmatram i.e. that it has that subtle and primary element, viz. sentiency only). ॥ 16 ॥
दर्शयति चाथो अपि स्मर्यते ॥ १७ ॥
The Scriptures also indicate (so) and then again the Smritis also. ॥ 17 ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
Hence is (Brahma’s) comparison with a reflection of the sun (in water). ॥ 18 ॥
यत एव च अयमात्मा चैतन्यरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यः, अत एव च अस्योपाधिनिमित्तामपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमा उपादीयते मोक्षशास्त्रेषु — ‘यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोऽयमात्मा’ इति,
‘एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्’ (ब्र. बिं. १२)
इति चैवमादिषु ॥ १८ ॥
अत्र प्रत्यवस्थीयते —
अम्बुवदग्रहणात्तु न तथात्वम् ॥ १९ ॥
As no other distinct positive material similar to water is to be seen (in which Brahma is seen to he reflected, like the sun or the moon in water), it is not like that (and there is no parallelism). ॥ 19 ॥
न जलसूर्यकादितुल्यत्वमिहोपपद्यते, तद्वदग्रहणात् । सूर्यादिभ्यो हि मूर्तेभ्यः पृथग्भूतं विप्रकृष्टदेशं मूर्तं जलं गृह्यते । तत्र युक्तः सूर्यादिप्रतिबिम्बोदयः । न तु आत्मा मूर्तः, न चास्मात्पृथग्भूता विप्रकृष्टदेशाश्चोपाधयः, सर्वगतत्वात् सर्वानन्यत्वाच्च । तस्मादयुक्तोऽयं दृष्टान्त इति ॥ १९ ॥
अत्र प्रतिविधीयते —
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
Because the Highest Self i.e. Brahma is inside i.e. immanent (in the limiting adjuncts, such as a body etc.) it participates i.e. equally shares in the increase or decrease of the limiting adjuncts, and thus both (i.e. the illustration and that which is illustrated) being compatible, it is like this (i.e. the comparison is apt). ॥ 20 ॥
युक्त एव तु अयं दृष्टान्तः, विवक्षितांशसम्भवात् । न हि दृष्टान्तदार्ष्टान्तिकयोः क्वचित् कञ्चित् विवक्षितमंशं मुक्त्वा सर्वसारूप्यं केनचित् दर्शयितुं शक्यते । सर्वसारूप्ये हि दृष्टान्तदार्ष्टान्तिकभावोच्छेद एव स्यात् । न चेदं स्वमनीषया जलसूर्यकादिदृष्टान्तप्रणयनम् । शास्त्रप्रणीतस्य तु अस्य प्रयोजनमात्रमुपन्यस्यते ।
किं पुनरत्र विवक्षितं सारूप्यमिति, तदुच्यते — वृद्धिह्रासभाक्त्वमिति । जलगतं हि सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, जलह्रासे ह्रसति, जलचलने चलति, जलभेदे भिद्यते — इत्येवं जलधर्मानुविधायि भवति, न तु परमार्थतः सूर्यस्य तथात्वमस्ति । एवं परमार्थतोऽविकृतमेकरूपमपि सत् ब्रह्म देहाद्युपाध्यन्तर्भावात् भजत इवोपाधिधर्मान्वृद्धिह्रासादीन् । एवमुभयोर्दृष्टान्तदार्ष्टान्तिकयोः सामञ्जस्यादविरोधः ॥ २० ॥
दर्शनाच्च ॥ २१ ॥
(The illustration is apt) Because the Scriptures also indicate (similarly). ॥ 21 ॥
अत्र केचित् द्वे अधिकरणे कल्पयन्ति — प्रथमं तावत् किं प्रत्यस्तमिताशेषप्रपञ्चमेकाकारं ब्रह्म, उत प्रपञ्चवदनेकाकारोपेतमिति । द्वितीयं प्रत्यस्तमितप्रपञ्चत्वे किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उत उभयलक्षणमिति । अत्र वयं वदामः — सर्वथाप्यानर्थक्यमधिकरणान्तरारम्भस्येति । यदि तावदनेकलिङ्गत्वं परस्य ब्रह्मणो निराकर्तव्यमित्ययं प्रयासः, तत् पूर्वेणैव ‘न स्थानतोऽपि’ इत्यनेनाधिकरणेन निराकृतमिति, उत्तरमधिकरणम् ‘प्रकाशवच्च’ इत्येतद्व्यर्थमेव भवेत् ।
न च सल्लक्षणमेव ब्रह्म न बोधलक्षणम् — इति शक्यं वक्तुम् , ‘विज्ञानघन एव’ इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तचैतन्यं ब्रह्म चेतनस्य जीवस्यात्मत्वेनोपदिश्येत । नापि बोधलक्षणमेव ब्रह्म न सल्लक्षणम् — इति शक्यं वक्तुम् ,
‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३)
इत्यादिश्रुतिवैयर्थ्यप्रसङ्गात् । कथं वा निरस्तसत्ताको बोधोऽभ्युपगम्येत । नाप्युभयलक्षणमेव ब्रह्म — इति शक्यं वक्तुम् , पूर्वाभ्युपगमविरोधप्रसङ्गात् । सत्ताव्यावृत्तेन च बोधेन बोधव्यावृत्तया च सत्तया उपेतं ब्रह्म प्रतिजानानस्य तदेव पूर्वाधिकरणप्रतिषिद्धं सप्रपञ्चत्वं प्रसज्येत । श्रुतत्वाददोष इति चेत् , न, एकस्य अनेकस्वभावत्वानुपपत्तेः ।
अथ सत्तैव बोधः, बोध एव च सत्ता, नानयोः परस्परव्यावृत्तिरस्तीति यद्युच्येत, तथापि किं सल्लक्षणं ब्रह्म, उत बोधलक्षणम् , उतोभयलक्षणम् — इत्ययं विकल्पो निरालम्बन एव स्यात् । सूत्राणि त्वेकाधिकरणत्वेनैवास्माभिर्नीतानि । अपि च ब्रह्मविषयासु श्रुतिषु आकारवदनाकारप्रतिपादनेन विप्रतिपन्नासु, अनाकारे ब्रह्मणि परिगृहीते, अवश्यं वक्तव्या इतरासां श्रुतीनां गतिः । तादर्थ्येन ‘प्रकाशवच्च’ इत्यादीनि सूत्राण्यर्थवत्तराणि सम्पद्यन्ते ॥
श्रुत्या च एवंजातीयकानां गुणानामुपासनार्थत्वेऽवकल्पमाने न लक्षणया प्रविलयार्थत्वमवकल्पते । सर्वेषां च साधारणे प्रविलयार्थत्वे सति
‘अरूपवदेव हि तत्प्रधानत्वात्’ (ब्र. सू. ३ । २ । १४)
इति विनिगमनकारणवचनम् अनवकाशं स्यात् । फलमप्येषां यथोपदेशं क्वचिद्दुरितक्षयः, क्वचिदैश्वर्यप्राप्तिः, क्वचित्क्रममुक्तिरित्यवगम्यत एव — इत्यतः पार्थगर्थ्यमेव उपासनावाक्यानां ब्रह्मवाक्यानां च न्याय्यम् , न एकवाक्यत्वम् ॥
कथं च एषामेकवाक्यतोत्प्रेक्ष्यत इति वक्तव्यम् । एकनियोगप्रतीतेः, प्रयाजदर्शपूर्णमासवाक्यवदिति चेत् , न, ब्रह्मवाक्येषु नियोगाभावात् — वस्तुमात्रपर्यवसायीनि हि ब्रह्मवाक्यानि, न नियोगोपदेशीनि इत्येतद्विस्तरेण प्रतिष्ठापितम्
‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४)
इत्यत्र । किंविषयश्चात्र नियोगोऽभिप्रेयत इति वक्तव्यम् । पुरुषो हि नियुज्यमानः ‘कुरु’ इति स्वव्यापारे कस्मिंश्चिन्नियुज्यते । ननु द्वैतप्रपञ्चप्रविलयो नियोगविषयो भविष्यति — अप्रविलापिते हि द्वैतप्रपञ्चे ब्रह्मतत्त्वावबोधो न भवत्यतो ब्रह्मतत्त्वावबोधप्रत्यनीकभूतो द्वैतप्रपञ्चः प्रविलाप्यः —
यथा स्वर्गकामस्य यागोऽनुष्ठातव्य उपदिश्यते, एवमपवर्गकामस्य प्रपञ्चप्रविलयः; यथा च तमसि व्यवस्थितं घटादितत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतं तमः प्रविलाप्यते, एवं ब्रह्मतत्त्वमवबुभुत्समानेन तत्प्रत्यनीकभूतः प्रपञ्चः प्रविलापयितव्यः — ब्रह्मस्वभावो हि प्रपञ्चः, न प्रपञ्चस्वभावं ब्रह्म; तेन नामरूपप्रपञ्चप्रविलापनेन ब्रह्मतत्त्वावबोधो भवति — इति । अत्र वयं पृच्छामः — कोऽयं प्रपञ्चप्रविलयो नाम ? किमग्निप्रतापसम्पर्कात् घृतकाठिन्यप्रविलय इव प्रपञ्चप्रविलयः कर्तव्यः, आहोस्विदेकस्मिंश्चन्द्रे तिमिरकृतानेकचन्द्रप्रपञ्चवत् अविद्याकृतो ब्रह्मणि नामरूपप्रपञ्चो विद्यया प्रविलापयितव्यः — इति ।
तत्र यदि तावद्विद्यमानोऽयं प्रपञ्चः देहादिलक्षण आध्यात्मिकः बाह्यश्च पृथिव्यादिलक्षणः प्रविलापयितव्य इत्युच्यते, स पुरुषमात्रेणाशक्यः प्रविलापयितुमिति तत्प्रविलयोपदेशोऽशक्यविषय एव स्यात् । एकेन च आदिमुक्तेन पृथिव्यादिप्रविलयः कृत इति इदानीं पृथिव्यादिशून्यं जगदभविष्यत् ।
अथ अविद्याध्यस्तो ब्रह्मण्येकस्मिन् अयं प्रपञ्चो विद्यया प्रविलाप्यत इति ब्रूयात् , ततो ब्रह्मैव अविद्याध्यस्तप्रपञ्चप्रत्याख्यानेन आवेदयितव्यम् — ‘एकमेवाद्वितीयं ब्रह्म’
‘तत्सत्यꣳ स आत्मा तत्त्वमसि’ (छा. उ. ६ । ८ । ७)
इति — तस्मिन्नावेदिते, विद्या स्वयमेवोत्पद्यते, तया च अविद्या बाध्यते, ततश्च अविद्याध्यस्तः सकलोऽयं नामरूपप्रपञ्चः स्वप्नप्रपञ्चवत् प्रविलीयते — अनावेदिते तु ब्रह्मणि ‘ब्रह्मविज्ञानं कुरु प्रपञ्चप्रविलयं च’ इति शतकृत्वोऽप्युक्ते न ब्रह्मविज्ञानं प्रपञ्चप्रविलयो वा जायते ।
नन्वावेदिते ब्रह्मणि तद्विज्ञानविषयः प्रपञ्चविलयविषयो वा नियोगः स्यात्; न, निष्प्रपञ्चब्रह्मात्मत्वावेदनेनैव उभयसिद्धेः — रज्जुस्वरूपप्रकाशनेनैव हि तत्स्वरूपविज्ञानम् अविद्याध्यस्तसर्पादिप्रपञ्चप्रविलयश्च भवति । न च कृतमेव पुनः क्रियते ॥
नियोज्योऽपि च प्रपञ्चावस्थायां योऽवगम्यते जीवो नाम, स प्रपञ्चपक्षस्यैव वा स्यात् , ब्रह्मपक्षस्यैव वा । प्रथमे विकल्पे निष्प्रपञ्चब्रह्मतत्त्वप्रतिपादनेन पृथिव्यादिवत् जीवस्यापि प्रविलापितत्वात् कस्य प्रपञ्चप्रविलये नियोग उच्येत कस्य वा नियोगनिष्ठतया मोक्षोऽवाप्तव्य उच्येत ? द्वितीयेऽपि ब्रह्मैव अनियोज्यस्वभावं जीवस्य स्वरूपम् , जीवत्वं तु अविद्याकृतमेव — इति प्रतिपादिते ब्रह्मणि नियोज्याभावात् नियोगाभाव एव ।
द्रष्टव्यादिशब्दा अपि परविद्याधिकारपठिताः तत्त्वाभिमुखीकरणप्रधानाः, न तत्त्वावबोधविधिप्रधाना भवन्ति । लोकेऽपि — इदं पश्य, इदमाकर्णयेति च एवंजातीयकेषु निर्देशेषु प्रणिधानमात्रं कुर्वित्युच्यते, न साक्षाज्ज्ञानमेव कुर्विति । ज्ञेयाभिमुखस्यापि ज्ञानं कदाचिज्जायते, कदाचिन्न जायते । तस्मात् तं प्रति ज्ञानविषय एव दर्शयितव्यो ज्ञापयितुकामेन । तस्मिन्दर्शिते स्वयमेव यथाविषयं यथाप्रमाणं च ज्ञानमुत्पद्यते ।
न च प्रमाणान्तरेण अन्यथाप्रसिद्धेऽर्थे अन्यथाज्ञानं नियुक्तस्याप्युपपद्यते । यदि पुनर्नियुक्तोऽहमिति अन्यथा ज्ञानं कुर्यात् , न तु तत् ज्ञानम् — किं तर्हि ? — मानसी सा क्रिया । स्वयमेव चेदन्यथोत्पद्येत, भ्रान्तिरेव स्यात् । ज्ञानं तु प्रमाणजन्यं यथाभूतविषयं च । न तत् नियोगशतेनापि कारयितुं शक्यते, न च प्रतिषेधशतेनापि वारयितुं शक्यते । न हि तत् पुरुषतन्त्रम् , वस्तुतन्त्रमेव हि तत् । अतोऽपि नियोगाभावः ।
किञ्चान्यत् — नियोगनिष्ठतयैव पर्यवस्यत्याम्नाये, यदभ्युपगतम् अनियोज्यब्रह्मात्मत्वं जीवस्य, तत् अप्रमाणकमेव स्यात् । अथ शास्त्रमेव अनियोज्यब्रह्मात्मत्वमप्याचक्षीत, तदवबोधे च पुरुषं नियुञ्जीत, ततो ब्रह्मशास्त्रस्यैकस्य द्व्यर्थपरता विरुद्धार्थपरता च प्रसज्येयाताम् । नियोगपरतायां च, श्रुतहानिः अश्रुतकल्पना कर्मफलवन्मोक्षस्यादृष्टफलत्वम् अनित्यत्वं च — इत्येवमादयो दोषा न केनचित्परिहर्तुं शक्याः । तस्मादवगतिनिष्ठान्येव ब्रह्मवाक्यानि, न नियोगनिष्ठानि । अतश्च एकनियोगप्रतीतेरेकवाक्यतेत्ययुक्तम् ॥
अभ्युपगम्यमानेऽपि च ब्रह्मवाक्येषु नियोगसद्भावे, तदेकत्वं निष्प्रपञ्चोपदेशेषु सप्रपञ्चोपदेशेषु च असिद्धम् । न हि शब्दान्तरादिभिः प्रमाणैर्नियोगभेदेऽवगम्यमाने, सर्वत्र एको नियोग इति शक्यमाश्रयितुम् । प्रयाजदर्शपूर्णमासवाक्येषु तु अधिकारांशेनाभेदात् युक्तमेकत्वम् ।
न त्विह सगुणनिर्गुणचोदनासु कश्चिदेकत्वाधिकारांशोऽस्ति । न हि भारूपत्वादयो गुणाः प्रपञ्चप्रविलयोपकारिणः, नापि प्रपञ्चप्रविलयो भारूपत्वादिगुणोपकारी, परस्परविरोधित्वात् । न हि कृत्स्नप्रपञ्चप्रविलापनं प्रपञ्चैकदेशापेक्षणं च एकस्मिन्धर्मिणि युक्तं समावेशयितुम् । तस्मात् अस्मदुक्त एव विभागः आकारवदनाकारोपदेशानां युक्ततर इति ॥ २१ ॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॥ २२ ॥
(The Scriptural clause) ‘Not so, Not so’, denies that Brahma has such aspects (Etavattva i.e. that it has aspects and is also aspectless), which is relevant here (Prakrita), and then the Scriptures again say something more thereafter. ॥ 22 ॥
इतिशब्दश्चायं सन्निहितालम्बनः एवंशब्दसमानवृत्तिः प्रयुज्यमानो दृश्यते — ‘इति ह स्मोपाध्यायः कथयति’ इत्येवमादिषु । सन्निहितं चात्र प्रकरणसामर्थ्याद्रूपद्वयं सप्रपञ्चं ब्रह्मणः, तच्च ब्रह्म, यस्य ते द्वे रूपे । तत्र नः संशय उपजायते — किमयं प्रतिषेधो रूपे रूपवच्च उभयमपि प्रतिषेधति, आहोस्विदेकतरम् । यदाप्येकतरम् , तदापि किं ब्रह्म प्रतिषेधति, रूपे परिशिनष्टि, आहोस्विद्रूपे प्रतिषेधति, ब्रह्म परिशिनष्टि — इति ॥
तत्र प्रकृतत्वाविशेषादुभयमपि प्रतिषेधतीत्याशङ्कामहे — द्वौ चैतौ प्रतिषेधौ, द्विः नेतिशब्दप्रयोगात् । तयोरेकेन सप्रपञ्चं ब्रह्मणो रूपं प्रतिषिध्यते, अपरेण रूपवद्ब्रह्म — इति भवति मतिः । अथवा ब्रह्मैव रूपवत् प्रतिषिध्यते । तद्धि वाङ्मनसातीतत्वादसम्भाव्यमानसद्भावं प्रतिषेधार्हम् । न तु रूपप्रपञ्चः प्रत्यक्षादिगोचरत्वात् प्रतिषेधार्हः । अभ्यासस्त्वादरार्थः इत्येवं प्राप्ते ब्रूमः —
तदेतदुच्यते — प्रकृतैतावत्त्वं हि प्रतिषेधतीति । प्रकृतं यदेतावत् इयत्तापरिच्छिन्नं मूर्तामूर्तलक्षणं ब्रह्मणो रूपं तदेष शब्दः प्रतिषेधति । तद्धि प्रकृतं प्रपञ्चितं च पूर्वस्मिन्ग्रन्थे अधिदैवतमध्यात्मं च । तज्जनितमेव च वासनालक्षणमपरं रूपम् अमूर्तरसभूतं पुरुषशब्दोदितं लिङ्गात्मव्यपाश्रयं माहारजनाद्युपमाभिर्दर्शितम् — अमूर्तरसस्य पुरुषस्य चक्षुर्ग्राह्यरूपयोगित्वानुपपत्तेः । तदेतत् सप्रपञ्चं ब्रह्मणो रूपं सन्निहितालम्बनेन इतिकरणेन प्रतिषेधकं नञं प्रति उपनीयत इति गम्यते ।
ब्रह्म तु रूपविशेषणत्वेन षष्ठ्या निर्दिष्टं पूर्वस्मिन्ग्रन्थे, न स्वप्रधानत्वेन । प्रपञ्चिते च तदीये रूपद्वये रूपवतः स्वरूपजिज्ञासायाम् इदमुपक्रान्तम् —
‘अथात आदेशो नेति नेति’ (बृ. उ. २ । ३ । ६)
इति । तत्र कल्पितरूपप्रत्याख्यानेन ब्रह्मणः स्वरूपावेदनमिदमिति निर्णीयते । तदास्पदं हि इदं समस्तं कार्यम् ‘नेति नेति’ इति प्रतिषिद्धम् । युक्तं च कार्यस्य वाचारम्भणशब्दादिभ्योऽसत्त्वमिति नेति नेतीति प्रतिषेधनम् । न तु ब्रह्मणः, सर्वकल्पनामूलत्वात् ।
न च अत्र इयमाशङ्का कर्तव्या — कथं हि शास्त्रं स्वयमेव ब्रह्मणो रूपद्वयं दर्शयित्वा, स्वयमेव पुनः प्रतिषेधति — ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्’ इति — यतः नेदं शास्त्रं प्रतिपाद्यत्वेन ब्रह्मणो रूपद्वयं निर्दिशति, लोकप्रसिद्धं तु इदं रूपद्वयं ब्रह्मणि कल्पितं परामृशति प्रतिषेध्यत्वाय शुद्धब्रह्मस्वरूपप्रतिपादनाय च — इति निरवद्यम् ।
द्वौ च एतौ प्रतिषेधौ यथासंख्यन्यायेन द्वे अपि मूर्तामूर्ते प्रतिषेधतः । यद्वा पूर्वः प्रतिषेधो भूतराशिं प्रतिषेधति, उत्तरो वासनाराशिम् । अथवा
‘नेति नेति’ (बृ. उ. २ । ३ । ६)
इति वीप्सा इयम् — ‘इति’ इति यावत्किञ्चित् उत्प्रेक्ष्यते, तत्सर्वं न भवतीत्यर्थः — परिगणितप्रतिषेधे हि क्रियमाणे, यदि नैतद्ब्रह्म, किमन्यद्ब्रह्म भवेदिति जिज्ञासा स्यात् । वीप्सायां तु सत्यां समस्तस्य विषयजातस्य प्रतिषेधात् अविषयः प्रत्यगात्मा ब्रह्मेति, जिज्ञासा निवर्तते । तस्मात् प्रपञ्चमेव ब्रह्मणि कल्पितं प्रतिषेधति, परिशिनष्टि ब्रह्म — इति निर्णयः ॥
इतश्च एष एव निर्णयः, यतः — ततः प्रतिषेधात् , भूयो ब्रह्म ब्रवीति —
‘अन्यत्परमस्ति’ (बृ. उ. २ । ३ । ६)
इति । अभावावसाने हि प्रतिषेधे क्रियमाणे किमन्यत्परमस्तीति ब्रूयात् । तत्रैषा अक्षरयोजना — ‘नेति नेति’ इति ब्रह्म आदिश्य, तमेव आदेशं पुनर्निर्वक्ति । ‘नेति नेति’ इत्यस्य कोऽर्थः ? न हि एतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीत्यतः ‘नेति नेति’ इत्युच्यते, न पुनः स्वयमेव नास्ति — इत्यर्थः । तच्च दर्शयति — अन्यत्परम् अप्रतिषिद्धं ब्रह्म अस्तीति ।
यदा पुनरेवमक्षराणि योज्यन्ते — न हि, एतस्मात् ‘इति न’ ‘इति न’ इति प्रपञ्चप्रतिषेधरूपात् आदेशनात् , अन्यत्परमादेशनं ब्रह्मणः अस्तीति — तदा, ‘ततो ब्रवीति च भूयः’ इत्येतत् नामधेयविषयं योजयितव्यम् —
‘अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्’ (बृ. उ. २ । १ । २०)
इति हि ब्रवीति — इति । तच्च ब्रह्मावसाने प्रतिषेधे समञ्जसं भवति । अभावावसाने तु प्रतिषेधे, किम् ‘सत्यस्य सत्यम्’ इत्युच्येत ? तस्माद्ब्रह्मावसानः अयं प्रतिषेधः, नाभावावसानः — इत्यध्यवस्यामः ॥ २२ ॥
तदव्यक्तमाह हि ॥ २३ ॥
The Scriptures also declare that it (i.e. Brahma) is unmanifest i.e. unevolved. ॥ 23 ॥
अपि च संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
Besides (it i.e. Brahma is realized by the Yogins etc.) during the condition of perfect meditation, because the Scriptures and the Smritis say so. ॥ 24 ॥
ननु संराध्यसंराधकभावाभ्युपगमात्परेतरात्मनोरन्यत्वं स्यादिति; नेत्युच्यते —
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥
Just as (in the case of) light etc., there is non-difference (between the Highest Self and the Jiva-Self). (The Atma i in the form of) Light i.e. Brahma, is so (i.e. appears different) during activity (Karmani). There is (no difference), on account of repeated statements (to that effect), in the Scriptures. ॥ 25 ॥
यथा प्रकाशाकाशसवितृप्रभृतयः अङ्गुलिकरकोदकप्रभृतिषु कर्मसु उपाधिभूतेषु सविशेषा इवावभासन्ते, न च स्वाभाविकीमविशेषात्मतां जहति; एवमुपाधिनिमित्त एवायमात्मभेदः, स्वतस्तु ऐकात्म्यमेव । तथा हि वेदान्तेषु अभ्यासेन असकृत् जीवप्राज्ञयोरभेदः प्रतिपाद्यते ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
Hence it is, that (the Jiva-Self becomes one) with the infinite (i.e. Highest Self). Moreover there is indicatory mark to that effect (in the Scriptures). ॥ 26 ॥
उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ २७ ॥
But because of the twofold reference (in the Scriptures) (the relation of the Highest Self with the Jiva-Self) is like (the relation of) a snake to its coils. ॥ 27 ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥
Or else it is like the light and its source, inasmuch as both are Teja. ॥ 28 ॥
अथवा प्रकाशाश्रयवदेतत्प्रतिपत्तव्यम् — यथा प्रकाशः सावित्रः तदाश्रयश्च सविता नात्यन्तभिन्नौ, उभयोरपि तेजस्त्वाविशेषात्; अथ च भेदव्यपदेशभाजौ भवतः — एवमिहापीति ॥ २८ ॥
पूर्ववद्वा ॥ २९ ॥
Or rather (the relationship between the Jiva-Self and the Highest Self, is) as has been stated earlier (in Sutra 25). ॥ 29 ॥
यथा वा पूर्वमुपन्यस्तम् — ‘प्रकाशादिवच्चावैशेष्यम्’ इति, तथैव एतद्भवितुमर्हति । तथा हि अविद्याकृतत्वाद्बन्धस्य विद्यया मोक्ष उपपद्यते । यदि पुनः परमार्थत एव बद्धः कश्चिदात्मा अहिकुण्डलन्यायेन परस्य आत्मनः संस्थानभूतः, प्रकाशाश्रयन्यायेन च एकदेशभूतोऽभ्युपगम्येत । ततः पारमार्थिकस्य बन्धस्य तिरस्कर्तुमशक्यत्वात् मोक्षशास्त्रवैयर्थ्यं प्रसज्येत । न चात्र उभावपि भेदाभेदौ श्रुतिः तुल्यवद्व्यपदिशति । अभेदमेव हि प्रतिपाद्यत्वेन निर्दिशति, भेदं तु पूर्वप्रसिद्धमेवानुवदति अर्थान्तरविवक्षया । तस्मात्प्रकाशादिवच्चावैशेष्यमित्येष एव सिद्धान्तः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
And (the conclusion is so) also because of the denial. ॥ 30 ॥
यदेतत् निरस्तसमस्तप्रपञ्चं ब्रह्म निर्धारितम् , अस्मात्परम् अन्यत्तत्त्वमस्ति नास्तीति श्रुतिविप्रतिपत्तेः संशयः । कानिचिद्धि वाक्यानि आपातेनैव प्रतिभासमानानि ब्रह्मणोऽपि परम् अन्यत्तत्त्वं प्रतिपादयन्तीव । तेषां हि परिहारमभिधातुमयमुपक्रमः क्रियते —
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३१ ॥
Because of the reference (in the Scriptures) to a bund (Setu), a limited size (Unmana), a relation i.e. a connection (Sambandha), and a difference (Bheda), there is some entity even beyond this (viz. the transcendent Brahma). ॥ 31 ॥
परम् अतो ब्रह्मणः अन्यत्तत्त्वं भवितुमर्हति । कुतः ? सेतुव्यपदेशात् उन्मानव्यपदेशात् सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च । सेतुव्यपदेशस्तावत् —
‘अथ य आत्मा स सेतुर्विधृतिः’ (छा. उ. ८ । ४ । १)
इत्यात्मशब्दाभिहितस्य ब्रह्मणः सेतुत्वं सङ्कीर्तयति । सेतुशब्दश्च हि लोके जलसन्तानविच्छेदकरे मृद्दार्वादिप्रचये प्रसिद्धः । इह तु सेतुशब्दः आत्मनि प्रयुक्त इति लौकिकसेतोरिव आत्मसेतोरन्यस्य वस्तुनोऽस्तित्वं गमयति ।
‘सेतुं तीर्त्वा’ (छा. उ. ८ । ४ । २)
इति च तरतिशब्दप्रयोगात् — यथा लौकिकं सेतुं तीर्त्वा जाङ्गलमसेतुं प्राप्नोति, एवमात्मानं सेतुं तीर्त्वा अनात्मानमसेतुं प्राप्नोतीति गम्यते ।
एवं प्राप्ते, प्रतिपाद्यते —
सामान्यात्तु ॥ ३२ ॥
But (Brahma is described as a bund) because of the similarity or alikeness of both. ॥ 32 ॥
तुशब्देन प्रदर्शितां प्राप्तिं निरुणद्धि । न ब्रह्मणोऽन्यत् किञ्चिद्भवितुमर्हति, प्रमाणाभावात् — न ह्यन्यस्यास्तित्वे किञ्चित्प्रमाणमुपलभामहे । सर्वस्य हि जनिमतो वस्तुजातस्य जन्मादि ब्रह्मणो भवतीति निर्धारितम् , अनन्यत्वं च कारणात् कार्यस्य । न च ब्रह्मव्यतिरिक्तं किञ्चित् अजं सम्भवति,
‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १)
इत्यवधारणात् । एकविज्ञानेन च सर्वविज्ञानप्रतिज्ञानात् न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वमवकल्पते ।
ननु सेत्वादिव्यपदेशाः ब्रह्मव्यतिरिक्तं तत्त्वं सूचयन्तीत्युक्तम्; नेत्युच्यते — सेतुव्यपदेशस्तावत् न ब्रह्मणो बाह्यस्य सद्भावं प्रतिपादयितुं क्षमते । सेतुरात्मेति हि आह, न ततः परमस्तीति । तत्र परस्मिन् असति सेतुत्वं नावकल्पत इति परं किमपि कल्प्येत । न चैतत् न्याय्यम् । हठो हि अप्रसिद्धकल्पना । अपि च सेतुव्यपदेशादात्मनो लौकिकसेतुनिदर्शनेन सेतुबाह्यवस्तुतां प्रसञ्जयता मृद्दारुमयतापि प्रासङ्क्ष्यत । न चैतन्न्याय्यम् , अजत्वादिश्रुतिविरोधात् ।
सेतुसामान्यात्तु सेतुशब्द आत्मनि प्रयुक्त इति श्लिष्यते । जगतस्तन्मर्यादानां च विधारकत्वं सेतुसामान्यमात्मनः । अतः सेतुरिव सेतुः — इति प्रकृत आत्मा स्तूयते । ‘सेतुं तीर्त्वा’ इत्यपि तरतिः अतिक्रमासम्भवात् प्राप्नोत्यर्थ एव वर्तते — यथा व्याकरणं तीर्ण इति प्राप्तः उच्यते, न अतिक्रान्तः, तद्वत् ॥ ३२ ॥
बुद्ध्यर्थः पादवत् ॥ ३३ ॥
It is for the sake of comprehension by intelligence (Buddhi) (that Brahma is imagined to have a measure of size), as in the case of a Pada (i.e. foot or a token coin). ॥ 33 ॥
यदप्युक्तम् — उन्मानव्यपदेशादस्ति परमिति, तत्राभिधीयते — उन्मानव्यपदेशोऽपि न ब्रह्मव्यतिरिक्तवस्त्वस्तित्वप्रतिपत्त्यर्थः । किमर्थस्तर्हि ? बुद्ध्यर्थः, उपासनार्थ इति यावत् । चतुष्पादष्टाशफं षोडशकलमित्येवंरूपा — बुद्धिः कथं नु नाम ब्रह्मणि स्थिरा स्यादिति — विकारद्वारेण ब्रह्मण उन्मानकल्पनैव क्रियते । न हि अविकारेऽनन्ते ब्रह्मणि सर्वैः पुम्भिः शक्या बुद्धिः स्थापयितुम् , मन्दमध्यमोत्तमबुद्धित्वात् पुंसामिति ।
पादवत् — यथा मनआकाशयोरध्यात्ममधिदैवतं च ब्रह्मप्रतीकयोराम्नातयोः, चत्वारो वागादयो मनःसम्बन्धिनः पादाः कल्प्यन्ते, चत्वारश्च अग्न्यादय आकाशसम्बन्धिनः — आध्यानाय — तद्वत् । अथवा पादवदिति — यथा कार्षापणे पादविभागो व्यवहारप्राचुर्याय कल्प्यते — न हि सकलेनैव कार्षापणेन सर्वदा सर्वे जना व्यवहर्तुमीशते, क्रयविक्रये परिमाणानियमात् — तद्वदित्यर्थः ॥ ३३ ॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३४ ॥
(Scriptural statements about ‘Relation i.e. connection and difference’ are) because of a particular environment (SthanaVishesha), just as (in the case of) light etc. ॥ 34 ॥
इह सूत्रे द्वयोरपि सम्बन्धभेदव्यपदेशयोः परिहारोऽभिधीयते । यदप्युक्तम् — सम्बन्धव्यपदेशात् भेदव्यपदेशाच्च परमतः स्यादिति, तदप्यसत्; यत एकस्यापि स्थानविशेषापेक्षया एतौ व्यपदेशावुपपद्येते । सम्बन्धव्यपदेशे तावदयमर्थः — बुद्ध्याद्युपाधिस्थानविशेषयोगादुद्भूतस्य विशेषविज्ञानस्य उपाध्युपशमे य उपशमः, स परमात्मना सम्बन्धः — इत्युपाध्यपेक्षया उपचर्यते, न परिमितत्वापेक्षया ।
तथा भेदव्यपदेशोऽपि ब्रह्मण उपाधिभेदापेक्षयैव उपचर्यते, न स्वरूपभेदापेक्षया । प्रकाशादिवदिति उपमोपादानम् — यथा एकस्य प्रकाशस्य सौर्यस्य चान्द्रमसस्य वा उपाधियोगादुपजातविशेषस्य उपाध्युपशमात्सम्बन्धव्यपदेशो भवति, उपाधिभेदाच्च भेदव्यपदेशः । यथा वा सूचीपाशाकाशादिषूपाध्यपेक्षयैवैतौ सम्बन्धभेदव्यपदेशौ भवतः — तद्वत् ॥ ३४ ॥
उपपत्तेश्च ॥ ३५ ॥
And (it is only thus) that it becomes reasonably sustainable. ॥ 35 ॥
तथाऽन्यप्रतिषेधात् ॥ ३६ ॥
Similarly, on account of the denial of all other (entities). ॥ 36 ॥
अनेन सर्वगतत्वमायामशब्दादिभ्यः ॥ ३७ ॥
By this (i.e. by all that has gone before), it is established that Brahma is all-pervading. (It is also known) from the statement about (its) extent or expanse (Ayama). ॥ 37 ॥
अनेन सेत्वादिव्यपदेशनिराकरणेन अन्यप्रतिषेधसमाश्रयणेन च सर्वगतत्वमप्यात्मनः सिद्धं भवति । अन्यथा हि तन्न सिध्येत् । सेत्वादिव्यपदेशेषु हि मुख्येष्वङ्गीक्रियमाणेषु परिच्छेद आत्मनः प्रसज्येत, सेत्वादीनामेवमात्मकत्वात् । तथा अन्यप्रतिषेधेऽप्यसति, वस्तु वस्त्वन्तराद्व्यावर्तत इति परिच्छेद एव आत्मनः प्रसज्येत ।
फलमत उपपत्तेः ॥ ३८ ॥
Because, that fruits (of actions are vouchsafed) by Him (i.e. the Lord), is alone that is reasonably sustainable. ॥ 38 ॥
तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ? उपपत्तेः । स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत् देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते ।
कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् , अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति; तदपि न परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् । न हि असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः ।
अथोच्येत — मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
श्रुतत्वाच्च ॥ ३९ ॥
And also because of its being declared by the Scriptures. ॥ 39 ॥
धर्मं जैमिनिरत एव ॥ ४० ॥
It is on the same grounds however, that Acharya Jaimini (considers) Dharma (conduct according to Scriptures), as the giver of fruits. ॥ 40 ॥
जैमिनिस्त्वाचार्यो धर्मं फलस्य दातारं मन्यते, अत एव हेतोः — श्रुतेः उपपत्तेश्च । श्रूयते तावदयमर्थः ‘स्वर्गकामो यजेत’ इत्येवमादिषु वाक्येषु । तत्र च विधिश्रुतेर्विषयभावोपगमात् यागः स्वर्गस्योत्पादक इति गम्यते । अन्यथा हि अननुष्ठातृको याग आपद्येत । तत्र अस्य उपदेशवैयर्थ्यं स्यात् ।
ननु अनुक्षणविनाशिनः कर्मणः फलं नोपपद्यत इति, परित्यक्तोऽयं पक्षः; नैष दोषः, श्रुतिप्रामाण्यात् — श्रुतिश्चेत् प्रमाणम् , यथायं कर्मफलसम्बन्धः श्रुत उपपद्यते, तथा कल्पयितव्यः । न च अनुत्पाद्य किमप्यपूर्वं कर्म विनश्यत् कालान्तरितं फलं दातुं शक्नोति । अतः कर्मणो वा सूक्ष्मा काचिदुत्तरावस्था फलस्य वा पूर्वावस्था अपूर्वं नाम अस्तीति तर्क्यते । उपपद्यते च अयमर्थ उक्तेन प्रकारेण । ईश्वरस्तु फलं ददातीत्यनुपपन्नम् , अविचित्रस्य कारणस्य विचित्रकार्यानुपपत्तेः वैषम्यनैर्घृण्यप्रसङ्गात् , अनुष्ठानवैयर्थ्यापत्तेश्च । तस्मात् धर्मादेव फलमिति ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ४१ ॥
But the sage Badarayana however thinks that the one mentioned earlier (i.e. the Lord) is the cause of the fruits of actions, because He is referred to as the cause (of action i.e. Karma also). ॥ 41 ॥
बादरायणस्त्वाचार्यः पूर्वोक्तमेव ईश्वरं फलहेतुं मन्यते । केवलात्कर्मणः अपूर्वाद्वा केवलात् फलमित्ययं पक्षः तुशब्देन व्यावर्त्यते । कर्मापेक्षात् अपूर्वापेक्षाद्वा यथा तथास्तु ईश्वरात्फलमिति सिद्धान्तः । कुतः ? हेतुव्यपदेशात् । धर्माधर्मयोरपि हि कारयितृत्वेन ईश्वरो हेतुः व्यपदिश्यते, फलस्य च दातृत्वेन — ‘एष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते’ इति ।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य द्वितीयः पादः ॥
व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् । तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् , ब्रह्मण एकत्वात् एकरूपत्वाच्च । न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति । न हि अन्यथा अर्थः अन्यथा ज्ञानम् — इत्यभ्रान्तं भवति । यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि, तेषाम् एकमभ्रान्तम् , भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु । तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते । नाप्यस्य चोदनाद्यविशेषादभेद उच्येत, ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् । अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः
‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४)
इत्यत्र । तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥
तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते — नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति । एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ १ ॥
ஸர்வவேதாந்தப்ரத்யயம் சோதநாத்யவிசே ஷாத் ॥ 1 ॥
व्याख्यातं विज्ञेयस्य ब्रह्मणः तत्त्वम् । इदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते, न वेति विचार्यते । ननु विज्ञेयं ब्रह्म पूर्वापरादिभेदरहितम् एकरसं सैन्धवघनवत् अवधारितम् । तत्र कुतो विज्ञानभेदाभेदचिन्तावसरः ? न हि कर्मबहुत्ववत् ब्रह्मबहुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् , ब्रह्मण एकत्वात् एकरूपत्वाच्च । न च एकरूपे ब्रह्मणि अनेकरूपाणि विज्ञानानि सम्भवन्ति । न हि अन्यथा अर्थः अन्यथा ज्ञानम् — इत्यभ्रान्तं भवति । यदि पुनः एकस्मिन्ब्रह्मणि बहूनि विज्ञानानि वेदान्तेषु प्रतिपिपादयिषितानि, तेषाम् एकमभ्रान्तम् , भ्रान्तानि इतराणीति अनाश्वासप्रसङ्गो वेदान्तेषु । तस्मान्न तावत्प्रतिवेदान्तं ब्रह्मविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्येत, ब्रह्मविज्ञानस्य अचोदनालक्षणत्वात् । अविधिप्रधानैर्हि वस्तुपर्यवसायिभिः ब्रह्मवाक्यैः ब्रह्मविज्ञानं जन्यत इत्यवोचदाचार्यः
‘तत्तु समन्वयात्’ (ब्र. सू. १ । १ । ४)
इत्यत्र । तत्कथमिमां भेदाभेदचिन्तामारभत इति ॥
तदुच्यते — सगुणब्रह्मविषया प्राणादिविषया च इयं विज्ञानभेदाभेदचिन्तेत्यदोषः । अत्र हि कर्मवत् उपासनानां भेदाभेदौ सम्भवतः । कर्मवदेव च उपासनानि दृष्टफलानि अदृष्टफलानि च उच्यन्ते, क्रममुक्तिफलानि च कानिचित् सम्यग्ज्ञानोत्पत्तिद्वारेण । तेषु एषा चिन्ता सम्भवति — किं प्रतिवेदान्तं विज्ञानभेदः, आहोस्वित् नेति ॥
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते — नाम्नस्तावत् भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु । अस्ति च अत्र वेदान्तान्तरविहितेषु विज्ञानेषु अन्यदन्यत् नाम — तैत्तिरीयकं वाजसनेयकं कौथुमकं कौषीतकं शाट्यायनकमित्येवमादि । तथा रूपभेदोऽपि कर्मभेदस्य प्रतिपादकः प्रसिद्धः — ‘वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्’ इत्येवमादिषु । अस्ति च अत्र रूपभेदः । तद्यथा — केचिच्छाखिनः पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्ति, अपरे पुनः पञ्चैव पठन्ति । तथा प्राणसंवादादिषु केचित् ऊनान्वागादीनामनन्ति, केचिदधिकान् । तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कितः कारीर्यादिषु । अस्ति च अत्र धर्मविशेषः; यथा आथर्वणिकानां शिरोव्रतमिति ।
एवं पुनरुक्त्यादयोऽपि भेदहेतवः यथासम्भवं वेदान्तान्तरेषु योजयितव्याः । तस्मात् प्रतिवेदान्तं विज्ञानभेद इत्येवं प्राप्ते, ब्रूमः —
सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिन् तस्मिन् वेदान्ते तानि तान्येव भवितुमर्हन्ति । कुतः ? चोदनाद्यविशेषात् । आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते — संयोगरूपचोदनाख्याऽविशेषादित्यर्थः ।
तस्मात् सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् । एवं पञ्चाग्निविद्या वैश्वानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् । ये तु नामरूपादयो भेदहेत्वाभासाः, ते प्रथम एव काण्डे
‘न नाम्ना स्यादचोदनाभिधानत्वात्’ (जै॰सू॰२-४-१०)
इत्यारभ्य परिहृताः ॥ १ ॥
इहापि कञ्चिद्विशेषमाशङ्क्य परिहरति —
भेदान्नेति चेन्नैकस्यामपि ॥ २ ॥
பேதாந்நேதி சேந்நைகஸ்யாமபி ॥ 2 ॥
नैष दोषः; यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते । यद्यपि षष्ठस्याग्नेरुपसंहारो न सम्भवति, तथापि द्युप्रभृतीनां पञ्चानामग्नीनाम् उभयत्र प्रत्यभिज्ञायमानत्वात् न विद्याभेदो भवितुमर्हति । न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते । पठ्यतेऽपि च षष्ठोऽग्निः छन्दोगैः —
‘तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति’ (छा. उ. ५ । ९ । २)
इति । वाजसनेयिनस्तु साम्पादिकेषु पञ्चस्वग्निषु अनुवृत्तायाः समिद्धूमादिकल्पनाया निवृत्तये
‘तस्याग्निरेवाग्निर्भवति समित्समित्’ (बृ. उ. ६ । २ । १४)
इत्यादि समामनन्ति । स नित्यानुवादः । अथाप्युपासनार्थ एष वादः, तथापि स गुणः शक्यते छन्दोगैरप्युपसंहर्तुम् । न च अत्र पञ्चसंख्याविरोध आशङ्क्यः । साम्पादिकाग्न्यभिप्राया हि एषा पञ्चसंख्या नित्यानुवादभूता, न विधिसमवायिनी — इत्यदोषः ।
एवं प्राणसंवादादिष्वपि अधिकस्य गुणस्य इतरत्रोपसंहारो न विरुध्यते । न च आवापोद्वापभेदाद्वेद्यभेदो विद्याभेदश्च आशङ्क्यः, कस्यचिद्वेद्यांशस्य आवापोद्वापयोरपि भूयसो वेद्यराशेरभेदावगमात् । तस्मादैकविद्यमेव ॥ २ ॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः ॥ ३ ॥
ஸ்வாத்யாயஸ்ய ததாத்வேந ஹி ஸமாசாரே அதிகாராச்ச ஸவவச்ச தந்நியம: ॥ 3 ॥
यदप्युक्तम् — आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च तदनपेक्षणात् विद्याभेद इति, तत्प्रत्युच्यते । स्वाध्यायस्य एष धर्मः, न विद्यायाः । कथमिदमवगम्यते ? यतः, तथात्वेन स्वाध्यायधर्मत्वेन, समाचारे वेदव्रतोपदेशपरे ग्रन्थे, आथर्वणिकाः ‘इदमपि वेदव्रतत्वेन व्याख्यातम्’ इति समामनन्ति ।
‘नैतदचीर्णव्रतोऽधीते’ (मु. उ. ३ । २ । ११)
इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति निर्धार्यते ।
ननु
‘तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम्’ (मु. उ. ३ । २ । १०)
इति ब्रह्मविद्यासंयोगश्रवणात् , एकैव सर्वत्र ब्रह्मविद्येति, सङ्कीर्येत एष धर्मः — न ; तत्रापि एतामिति प्रकृतप्रत्यवमर्शात् । प्रकृतत्वं च ब्रह्मविद्यायाः ग्रन्थविशेषापेक्षम् — इति ग्रन्थविशेषसंयोग्येव एष धर्मः । सववच्च तन्नियम इति निदर्शननिर्देशः — यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसम्बन्धात् आथर्वणोदितैकाग्न्यभिसम्बन्धाच्च आथर्वणिकानामेव नियम्यन्ते, तथैव अयमपि धर्मः स्वाध्यायविशेषसम्बन्धात् तत्रैव नियम्यते । तस्मादप्यनवद्यं विद्यैकत्वम् ॥ ३ ॥
दर्शयति च ॥ ४ ॥
தர்சயதி ச ॥ 4 ॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ५ ॥
உபஸம்ஹாரோஅர்தாபேதாத்விதி சே ஷவத்ஸமாநே ச ॥ 5 ॥
इदं प्रयोजनसूत्रम् । स्थिते चैवं सर्ववेदान्तप्रत्ययत्वे सर्वविज्ञानानाम् , अन्यत्रोदितानां विज्ञानगुणानाम् , अन्यत्रापि समाने विज्ञाने उपसंहारो भवति । अर्थाभेदात् — य एव हि तेषां गुणानामेकत्र अर्थो विशिष्टविज्ञानोपकारः, स एव अन्यत्रापि । उभयत्रापि हि तदेवैकं विज्ञानम् । तस्मादुपसंहारः ।
विधिशेषवत् — यथा विधिशेषाणामग्निहोत्रादिधर्माणाम् , तदेव एकमग्निहोत्रादि कर्म सर्वत्रेति, अर्थाभेदात् उपसंहारः; एवमिहापि । यदि हि विज्ञानभेदो भवेत् , ततो विज्ञानान्तरनिबद्धत्वाद्गुणानाम् , प्रकृतिविकृतिभावाभावाच्च न स्यादुपसंहारः । विज्ञानैकत्वे तु नैवमिति । अस्यैव तु प्रयोजनसूत्रस्य प्रपञ्चः ‘सर्वाभेदात्’ इत्यारभ्य भविष्यति ॥ ५ ॥
अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ६ ॥
அந்யதாத்வம் சப்தாதிதி சேந்நாவிசே ஷாத் ॥ 6 ॥
तत्र संशयः — किमत्र विद्याभेदः स्यात् , आहोस्वित् विद्यैकत्वमिति । किं तावत्प्राप्तम् ? पूर्वेण न्यायेन विद्यैकत्वमिति । ननु न युक्तं विद्यैकत्वम् , प्रक्रमभेदात् । अन्यथा हि प्रक्रमन्ते वाजसनेयिनः, अन्यथा छन्दोगाः —
‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २)
इति वाजसनेयिन उद्गीथस्य कर्तृत्वेन प्राणमामनन्ति, छन्दोगास्तु उद्गीथत्वेन
‘तमुद्गीथमुपासाञ्चक्रिरे’ (छा. उ. १ । २ । ७)
इति, तत्कथं विद्यैकत्वं स्यादिति चेत् —
नैष दोषः; न हि एतावता विशेषेण विद्यैकत्वम् अपगच्छति, अविशेषस्यापि बहुतरस्य प्रतीयमानत्वात् । तथा हि — देवासुरसङ्ग्रामोपक्रमत्वम् , असुरात्ययाभिप्रायः, उद्गीथोपन्यासः, वागादिसङ्कीर्तनम् , तन्निन्दया मुख्यप्राणव्यपाश्रयः, तद्वीर्याच्च असुरविध्वंसनम् अश्मलोष्टनिदर्शनेन — इत्येवं बहवोऽर्था उभयत्राप्यविशिष्टाः प्रतीयन्ते । वाजसनेयकेऽपि च उद्गीथसामानाधिकरण्यं प्राणस्य श्रुतम् —
‘एष उ वा उद्गीथः’ (बृ. उ. १ । ३ । २३)
इति । तस्माच्छान्दोग्येऽपि कर्तृत्वं लक्षयितव्यम् । तस्माच्च विद्यैकत्वमिति ॥ ६ ॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ७ ॥
ந வா ப்ரகரணபேதாத்பரோவரீ யஸ்த்வாதிவத் ॥ 7 ॥
वाजसनेयके तु उद्गीथशब्देन अवयवग्रहणे कारणाभावात् सकलैव भक्तिरावेद्यते ।
‘त्वं न उद्गाय’ (बृ. उ. १ । ३ । २)
इत्यपि तस्याः कर्ता उद्गाता ऋत्विक् प्राणत्वेन निरूप्यत इति — प्रस्थानान्तरम् । यदपि तत्र उद्गीथसामानाधिकरण्यं प्राणस्य, तदपि उद्गातृत्वेनैव दिदर्शयिषितस्य प्राणस्य सर्वात्मत्वप्रतिपादनार्थमिति न विद्यैकत्वमावहति । सकलभक्तिविषय एव च तत्रापि उद्गीथशब्द इति वैषम्यम् ।
न च प्राणस्योद्गातृत्वम् असम्भवेन हेतुना परित्यज्येत, उद्गीथभाववत् उद्गातृभावस्यापि उपासनार्थत्वेन उपदिश्यमानत्वात् । प्राणवीर्येणैव च उद्गाता औद्गात्रं करोतीति नास्त्यसम्भवः । तथा च तत्रैव श्रावितम् —
‘वाचा च ह्येव स प्राणेन चोदगायत्’ (बृ. उ. १ । ३ । २४)
इति । न च विवक्षितार्थभेदेऽवगम्यमाने वाक्यच्छायानुकारमात्रेण समानार्थत्वमध्यवसातुं युक्तम् । तथा हि — अभ्युदयवाक्ये पशुकामवाक्ये च ‘त्रेधा तण्डुलान्विभजेद्ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशमष्टाकपालं कुर्यात्’ इत्यादिनिर्देशसाम्येऽपि, उपक्रमभेदात् अभ्युदयवाक्ये देवतापनयोऽध्यवसितः, पशुकामवाक्ये तु यागविधिः — तथा इहापि उपक्रमभेदात् विद्याभेदः । परोवरीयस्त्वादिवत् —
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ८ ॥
ஸஞ்ஜ்ஞாதச்சேத்ததுக்தமஸ்தி து ததபி ॥ 8 ॥
अथोच्येत — संज्ञैकत्वात् विद्यैकत्वमत्र न्याय्यम् , एका संज्ञेति, तदपि नोपपद्यते । उक्तं ह्येतत् —
‘न वा प्रकरणभेदात्परोवरीयस्त्वादिवत्’ (ब्र. सू. ३ । ३ । ७)
इति । तदेव च अत्र न्याय्यतरम् । श्रुत्यक्षरानुगतं हि तत् । संज्ञैकत्वं तु श्रुत्यक्षरबाह्यम् उद्गीथशब्दमात्रप्रयोगात् लौकिकैर्व्यवहर्तृभिरुपचर्यते ।
अस्ति च एतत्संज्ञैकत्वं प्रसिद्धभेदेष्वपि परोवरीयस्त्वाद्युपासनेषु — उद्गीथविद्येति । तथा प्रसिद्धभेदानामपि अग्निहोत्रदर्शपूर्णमासादीनां काठकैकग्रन्थपरिपठितानां काठकसंज्ञैकत्वं दृश्यते, तथेहापि भविष्यति । यत्र तु नास्ति कश्चित् एवंजातीयको भेदहेतुः, तत्र भवतु संज्ञैकत्वात् विद्यैकत्वम् — यथा संवर्गविद्यादिषु ॥ ८ ॥
व्याप्तेश्च समञ्जसम् ॥ ९ ॥
வ்யாப்தேச்ச ஸமஞ்ஜஸம் ॥ 9 ॥
तत्र अध्यासो नाम — द्वयोर्वस्तुनोः अनिवर्तितायामेव अन्यतरबुद्धौ अन्यतरबुद्धिरध्यस्यते । यस्मिन् इतरबुद्धिरध्यस्यते, अनुवर्तत एव तस्मिन् तद्बुद्धिः, अध्यस्तेतरबुद्धावपि । यथा नाम्नि ब्रह्मबुद्धावध्यस्यमानायामपि अनुवर्तत एव नामबुद्धिः, न ब्रह्मबुद्ध्या निवर्तते — यथा वा प्रतिमादिषु विष्ण्वादिबुद्ध्यध्यासः — एवमिहापि अक्षरे उद्गीथबुद्धिरध्यस्यते, उद्गीथे वा अक्षरबुद्धिरिति ।
अपवादो नाम — यत्र कस्मिंश्चिद्वस्तुनि पूर्वनिविष्टायां मिथ्याबुद्धौ निश्चितायाम् , पश्चादुपजायमाना यथार्था बुद्धिः पूर्वनिविष्टाया मिथ्याबुद्धेः निवर्तिका भवति — यथा देहेन्द्रियसङ्घाते आत्मबुद्धिः, आत्मन्येव आत्मबुद्ध्या पश्चाद्भाविन्या
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७)
इत्यनया यथार्थबुद्ध्या निवर्त्यते — यथा वा दिग्भ्रान्तिबुद्धिः दिग्याथात्म्यबुद्ध्या निवर्त्यते — एवमिहापि अक्षरबुद्ध्या उद्गीथबुद्धिर्निवर्त्येत, उद्गीथबुद्ध्या वा अक्षरबुद्धिरिति ।
एकत्वं तु अक्षरोद्गीथशब्दयोरनतिरिक्तार्थवृत्तित्वम् — यथा द्विजोत्तमो ब्राह्मणो भूमिदेव इति । विशेषणं पुनः सर्ववेदव्यापिन ओमित्येतस्याक्षरस्य ग्रहणप्रसङ्गे औद्गात्रविशेषस्य समर्पणम् — यथा नीलं यदुत्पलम् तदानयेति, एवमिहापि उद्गीथो य ओंकारः तमुपासीतेति । एवमेतस्मिन्सामानाधिकरण्यवाक्ये विमृश्यमाने, एते पक्षाः प्रतिभान्ति । तत्रान्यतमनिर्धारणकारणाभावात् अनिर्धारणप्राप्तौ इदमुच्यते —
व्याप्तेश्च समञ्जसमिति । चशब्दोऽयं तुशब्दस्थाननिवेशी पक्षत्रयव्यावर्तनप्रयोजनः । तदिह त्रयः पक्षाः सावद्या इति पर्युदस्यन्ते । विशेषणपक्ष एवैको निरवद्य इत्युपादीयते । तत्राध्यासे तावत् — या बुद्धिः इतरत्र अध्यस्यते, तच्छब्दस्य लक्षणावृत्तित्वं प्रसज्येत, तत्फलं च कल्प्येत । श्रूयत एव फलम्
‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७)
इत्यादि, इति चेत् — न ; तस्य अन्यफलत्वात् । आप्त्यादिदृष्टिफलं हि तत् , नोद्गीथाध्यासफलम् ।
अपवादेऽपि समानः फलाभावः । मिथ्याज्ञाननिवृत्तिः फलमिति चेत् , न; पुरुषार्थोपयोगानवगमात्; न च कदाचिदपि ओंकारात् ओंकारबुद्धिर्निवर्तते, उद्गीथाद्वा उद्गीथबुद्धिः । न चेदं वाक्यं वस्तुतत्त्वप्रतिपादनपरम् , उपासनाविधिपरत्वात् ।
नापि एकत्वपक्षः सङ्गच्छते । निष्प्रयोजनं हि तदा शब्दद्वयोच्चारणं स्यात् , एकेनैव विवक्षितार्थसमर्पणात् । न च हौत्रविषये आध्वर्यवविषये वा अक्षरे ओंकारशब्दवाच्ये उद्गीथशब्दप्रसिद्धिरस्ति, नापि सकलायाम् साम्नो द्वितीयायां भक्तौ उद्गीथशब्दवाच्यायाम् ओंकारशब्दप्रसिद्धिः, येनानतिरिक्तार्थता स्यात् । परिशेषाद्विशेषणपक्षः परिगृह्यते, व्याप्तेः सर्ववेदसाधारण्यात् । सर्वव्याप्यक्षरमिह मा प्रसञ्जि — इत्यत उद्गीथशब्देन अक्षरं विशेष्यते — कथं नाम उद्गीथावयवभूत ओंकारो गृह्येतेति ।
नन्वस्मिन्नपि पक्षे समाना लक्षणा, उद्गीथशब्दस्य अवयवलक्षणार्थत्वात्; सत्यमेवमेतत्; लक्षणायामपि तु सन्निकर्षविप्रकर्षौ भवत एव । अध्यासपक्षे हि अर्थान्तरबुद्धिरर्थान्तरे निक्षिप्यत इति विप्रकृष्टा लक्षणा, विशेषणपक्षे तु अवयविवचनेन शब्देन अवयवः समर्प्यत इति सन्निकृष्टा । समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि प्रवर्तमाना दृष्टाः पटग्रामादिषु । अतश्च व्याप्तेर्हेतोः ‘ओमित्येतदक्षरम्’ इत्येतस्य ‘उद्गीथम्’ इत्येतद्विशेषणमिति समञ्जसमेतत् , निरवद्यमित्यर्थः ॥ ९ ॥
सर्वाभेदादन्यत्रेमे ॥ १० ॥
ஸர்வாபேதாதந்யத்ரேமே ॥ 10 ॥
तत्र प्राप्तं तावत् — नास्येरन्निति । कुतः ? एवंशब्दसंयोगात् । ‘अथो य एवं विद्वान्प्राणे निःश्रेयसं विदित्वा’ इति तत्र तत्र एवंशब्देन वेद्यं वस्तु निवेद्यते । एवंशब्दश्च सन्निहितावलम्बनः न शाखान्तरपरिपठितम् एवंजातीयकं गुणजातं शक्नोति निवेदयितुम् । तस्मात् स्वप्रकरणस्थैरेव गुणैर्निराकाङ्क्षत्वमित्येवं प्राप्ते प्रत्याह —
अस्येरन् इमे गुणाः क्वचिदुक्ता वसिष्ठत्वादयः अन्यत्रापि । कुतः ? सर्वाभेदात् — सर्वत्रैव हि तदेव एकं प्राणविज्ञानमभिन्नं प्रत्यभिज्ञायते, प्राणसंवादादिसारूप्यात् । अभेदे च विज्ञानस्य कथम् इमे गुणाः क्वचिदुक्ता अन्यत्र न अस्येरन् ।
ननु एवंशब्दः तत्र तत्र भेदेन एवंजातीयकं गुणजातं वेद्यत्वाय समर्पयतीत्युक्तम्; अत्रोच्यते — यद्यपि कौषीतकिब्राह्मणगतेन एवंशब्देन वाजसनेयिब्राह्मणगतं गुणजातम् असंशब्दितम् असन्निहितत्वात् , तथापि तस्मिन्नेव विज्ञाने वाजसनेयिब्राह्मणगतेन एवंशब्देन तत् संशब्दितमिति — न परशाखागतमपि अभिन्नविज्ञानावबद्धं गुणजातं स्वशाखागताद्विशिष्यते । न चैवं सति श्रुतहानिः अश्रुतकल्पना वा भवति ।
एकस्यामपि हि शाखायां श्रुता गुणाः श्रुता एव सर्वत्र भवन्ति, गुणवतो भेदाभावात् । न हि देवदत्तः शौर्यादिगुणत्वेन स्वदेशे प्रसिद्धः देशान्तरं गतः तद्देश्यैरविभावितशौर्यादिगुणोऽपि अतद्गुणो भवति । यथा च तत्र परिचयविशेषात् देशान्तरेऽपि देवदत्तगुणा विभाव्यन्ते, एवम् अभियोगविशेषात् शाखान्तरेऽप्युपास्या गुणाः शाखान्तरेऽप्यस्येरन् । तस्मादेकप्रधानसम्बद्धा धर्मा एकत्राप्युच्यमानाः सर्वत्रैव उपसंहर्तव्या इति ॥ १० ॥
आनन्दादयः प्रधानस्य ॥ ११ ॥
ஆநந்தாதய: ப்ரதாநஸ்ய ॥ 11 ॥
ब्रह्मस्वरूपप्रतिपादनपरासु श्रुतिषु आनन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मत्वमित्येवंजातीयका ब्रह्मणो धर्माः क्वचित् केचित् श्रूयन्ते । तेषु संशयः — किमानन्दादयो ब्रह्मधर्माः यत्र यावन्तः श्रूयन्ते तावन्त एव तत्र प्रतिपत्तव्याः, किं वा सर्वे सर्वत्रेति ।
तत्र यथाश्रुतिविभागं धर्मप्रतिपत्तौ प्राप्तायाम् , इदमुच्यते — आनन्दादयः प्रधानस्य ब्रह्मणो धर्माः सर्वे सर्वत्र प्रतिपत्तव्याः । कस्मात् ? सर्वाभेदादेव — सर्वत्र हि तदेव एकं प्रधानं विशेष्यं ब्रह्म न भिद्यते । तस्मात् सार्वत्रिकत्वं ब्रह्मधर्माणाम् — तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन ॥ ११ ॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ १२ ॥
ப்ரியசிரஸ்த்வாத்யப்ராப்திருபசயாபசயௌ ஹி பேதே ॥ 12 ॥
प्रियशिरस्त्वादीनां धर्माणां तैत्तिरीयके आम्नातानां नास्ति अन्यत्र प्राप्तिः, यत्कारणम् — प्रियं मोदः प्रमोद आनन्द इत्येते — परस्परापेक्षया भोक्त्रन्तरापेक्षया च उपचितापचितरूपा उपलभ्यन्ते । उपचयापचयौ च सति भेदे सम्भवतः । निर्भेदं तु ब्रह्म
‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १)
इत्यादिश्रुतिभ्यः । न च एते प्रियशिरस्त्वादयो ब्रह्मधर्माः । कोशधर्मास्तु एते इत्युपदिष्टमस्माभिः
‘आनन्दमयोऽभ्यासात्’ (ब्र. सू. १ । १ । १२)
इत्यत्र ।
अपि च परस्मिन् ब्रह्मणि चित्तावतारोपायमात्रत्वेन एते परिकल्प्यन्ते, न द्रष्टव्यत्वेन । एवमपि सुतरामन्यत्राप्राप्तिः प्रियशिरस्त्वादीनाम् । ब्रह्मधर्मांस्तु एतान्कृत्वा न्यायमात्रमिदम् आचार्येण प्रदर्शितम् — प्रियशिरस्त्वाद्यप्राप्तिरिति । स च न्यायः अन्येषु निश्चितेषु ब्रह्मधर्मेषु उपासनायोपदिश्यमानेषु नेतव्यः — संयद्वामत्वादिषु सत्यकामत्वादिषु च ।
तेषु हि सत्यपि उपास्यस्य ब्रह्मण एकत्वे, प्रक्रमभेदादुपासनाभेदे सति, न अन्योन्यधर्माणाम् अन्योन्यत्र प्राप्तिः । यथा च द्वे नार्यौ एकं नृपतिमुपासाते — छत्रेण अन्या चामरेण अन्या — तत्रोपास्यैकत्वेऽपि उपासनभेदो धर्मव्यवस्था च भवति — एवमिहापीति । उपचितापचितगुणत्वं हि सति भेदव्यवहारे सगुणे ब्रह्मण्युपपद्यते, न निर्गुणे परस्मिन्ब्रह्मणि । अतो न सत्यकामत्वादीनां धर्माणां क्वचिच्छ्रुतानां सर्वत्र प्राप्तिरित्यर्थः ॥ १२ ॥
इतरे त्वर्थसामान्यात् ॥ १३ ॥
இதரே த்வர்தஸாமாந்யாத் ॥ 13 ॥
इतरे तु आनन्दादयो धर्मा ब्रह्मस्वरूपप्रतिपादनायैव उच्यमानाः, अर्थसामान्यात् प्रतिपाद्यस्य ब्रह्मणो धर्मिण एकत्वात् , सर्वे सर्वत्र प्रतीयेरन्निति वैषम्यम् —प्रतिपत्तिमात्रप्रयोजना हि ते इति ॥ १३ ॥
आध्यानाय प्रयोजनाभावात् ॥ १४ ॥
ஆத்யாநாய ப்ரயோஜநாபாவாத் ॥ 14 ॥
तत्र तावत् सर्वेषामेवैषां परत्वेन प्रतिपादनमिति भवति मतिः । तथा हि श्रूयते — इदमस्मात्परम् , इदमस्मात्परमिति । ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेदः स्यात् । नैष दोषः, वाक्यबहुत्वोपपत्तेः । बहून्येव हि एतानि वाक्यानि प्रभवन्ति बहूनर्थान् परत्वोपेतान् प्रतिपादयितुम् । तस्मात् प्रत्येकमेषां परत्वप्रतिपादनमित्येवं प्राप्ते ब्रूमः —
पुरुष एव हि एभ्यः सर्वेभ्यः परः प्रतिपाद्यत इति युक्तम् , न प्रत्येकमेषां परत्वप्रतिपादनम् । कस्मात् ? प्रयोजनाभावात् । न हि इतरेषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते, श्रूयते वा । पुरुषे तु इन्द्रियादिभ्यः परस्मिन् सर्वानर्थव्रातातीते प्रतिपन्ने दृश्यते प्रयोजनम् , मोक्षसिद्धिः । तथा च श्रुतिः —
‘निचाय्य तं मृत्युमुखात्प्रमुच्यते’ (क. उ. १ । ३ । १५)
इति ।
अपि च परप्रतिषेधेन काष्ठाशब्देन च पुरुषविषयमादरं दर्शयन् पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति । आध्यानायेति — आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थः । सम्यग्दर्शनार्थमेव हि इह आध्यानमुपदिश्यते, न तु आध्यानमेव स्वप्रधानम् ॥ १४ ॥
आत्मशब्दाच्च ॥ १५ ॥
ஆத்மசப்தாச்ச ॥ 15 ॥
आत्मगृहीतिरितरवदुत्तरात् ॥ १६ ॥
ஆத்மக்ருஹீதிரிதரவதுத்தராத் ॥ 16 ॥
एकत्वावधारणमपि प्रागुत्पत्तेः स्वविकारापेक्षमुपपद्यते । ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् । अपि च ‘ताभ्यो गामानयत्’ ‘ताभ्योऽश्वमानयत्’ ‘ताभ्यः पुरुषमानयत्’ ‘ता अब्रुवन्’ इत्येवंजातीयको भूयान् व्यापारविशेषः लौकिकेषु विशेषवत्सु आत्मसु प्रसिद्धः इहानुगम्यते । तस्मात् विशेषवानेव कश्चिदिह आत्मा स्यादित्येवं प्राप्ते ब्रूमः —
अन्वयादिति चेत्स्यादवधारणात् ॥ १७ ॥
அந்வயாதிதி சேத்ஸ்யாதவதாரணாத் ॥ 17 ॥
वाक्यान्वयदर्शनात् न परमात्मग्रहणमिति पुनः यदुक्तम् , तत्परिहर्तव्यमिति — अत्रोच्यते — स्यादवधारणादिति । भवेदुपपन्नं परमात्मनो ग्रहणम् । कस्मात् ? अवधारणात् । परमात्मग्रहणे हि प्रागुत्पत्तेरात्मैकत्वावधारणमाञ्जसमवकल्पते । अन्यथा हि अनाञ्जसं तत्परिकल्प्येत । लोकसृष्टिवचनं तु श्रुत्यन्तरप्रसिद्धमहाभूतसृष्ट्यनन्तरमिति योजयिष्यामि; यथा
‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३)
इत्येतत् श्रुत्यन्तरप्रसिद्धवियद्वायुसृष्ट्यनन्तरमिति अयूयुजम् , एवमिहापि । श्रुत्यन्तरप्रसिद्धो हि समानविषयो विशेषः श्रुत्यन्तरेषु उपसंहर्तव्यो भवति ।
अतुल्यार्थत्वमिति तावत् प्राप्तम् , अतुल्यत्वादाम्नानयोः । न हि आम्नानवैषम्ये सति अर्थसाम्यं युक्तं प्रतिपत्तुम् , आम्नानतन्त्रत्वादर्थपरिग्रहस्य । वाजसनेयके च आत्मशब्दोपक्रमात् आत्मतत्त्वोपदेश इति गम्यते । छान्दोग्ये तु उपक्रमविपर्ययात् उपदेशविपर्ययः । ननु छन्दोगानामपि अस्त्युदर्के तादात्म्योपदेश इत्युक्तम्; सत्यमुक्तम् , उपक्रमतन्त्रत्वादुपसंहारस्य, तादात्म्यसम्पत्तिः सा — इति मन्यते ।
तथा प्राप्ते, अभिधीयते — आत्मगृहीतिः
‘सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६ । २ । १)
इत्यत्र च्छन्दोगानामपि भवितुमर्हति । इतरवत् — यथा
‘कतम आत्मा’ (बृ. उ. ४ । ३ । ७)
इत्यत्र वाजसनेयिनामात्मगृहीतिः, तथैव । कस्मात् ? उत्तरात् तादात्म्योपदेशात् । अन्वयादिति चेत्स्यादवधारणात् — यदुक्तम् , उपक्रमान्वयात् उपक्रमे च आत्मशब्दश्रवणाभावात् न आत्मगृहीतिरिति, तस्य कः परिहार इति चेत् , सोऽभिधीयते — स्यादवधारणादिति । भवेदुपपन्ना इह आत्मगृहीतिः, अवधारणात् ।
तथा हि —
‘येनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३)
इत्येकविज्ञानेन सर्वविज्ञानमवधार्य, तत्सम्पिपादयिषया ‘सदेव’ इत्याह; तच्च आत्मगृहीतौ सत्यां सम्पद्यते । अन्यथा हि, योऽयं मुख्य आत्मा स न विज्ञात इति, नैव सर्वविज्ञानं सम्पद्येत । तथा प्रागुत्पत्तेः एकत्वावधारणम् , जीवस्य च आत्मशब्देन परामर्शः, स्वापावस्थायां च तत्स्वभावसम्पत्तिकथनम् , परिचोदनापूर्वकं च पुनः पुनः
‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७)
इत्यवधारणम् — इति च सर्वमेतत् तादात्म्यप्रतिपादनायामेव अवकल्पते, न तादात्म्यसम्पादनायाम् ।
न च अत्र उपक्रमतन्त्रत्वोपन्यासो न्याय्यः । न हि उपक्रमे आत्मत्वसङ्कीर्तनम् अनात्मत्वसङ्कीर्तनं वा अस्ति । सामान्योपक्रमश्च न वाक्यशेषगतेन विशेषेण विरुध्यते, विशेषाकाङ्क्षित्वात्सामान्यस्य । सच्छब्दार्थोऽपि च पर्यालोच्यमानः न मुख्यादात्मनोऽन्यः सम्भवति, अतोऽन्यस्य वस्तुजातस्य आरम्भणशब्दादिभ्योऽनृतत्वोपपत्तेः । आम्नानवैषम्यमपि नावश्यमर्थवैषम्यमावहति, ‘आहर पात्रम्’ ‘पात्रमाहर’ इत्येवमादिषु अर्थसाम्येऽपि तद्दर्शनात् । तस्मात् एवंजातीयकेषु वाक्येषु प्रतिपादनप्रकारभेदेऽपि प्रतिपाद्यार्थाभेद इति सिद्धम् ॥ १७ ॥
कार्याख्यानादपूर्वम् ॥ १८ ॥
கார்யாக்யாநாத பூர்வம் ॥ 18 ॥
किं तावत्प्राप्तम् ? उभयमपि विधीयत इति । कुतः ? उभयस्याप्यवगम्यमानत्वात् । उभयमपि च एतत् अपूर्वत्वात् विध्यर्हम् । अथवा आचमनमेव विधीयते । विस्पष्टा हि तस्मिन्विधिविभक्तिः — ‘तस्मादेवंविदशिष्यन्नाचामेदशित्वा चाचामेत्’ इति । तस्यैव स्तुत्यर्थम् अनग्नतासङ्कीर्तनमित्येवं प्राप्ते ब्रूमः —
न आचमनस्य विधेयत्वमुपपद्यते, कार्याख्यानात् — प्राप्तमेव हि इदं कार्यत्वेन आचमनं प्रायत्यार्थं स्मृतिप्रसिद्धम् अन्वाख्यायते । ननु इयं श्रुतिः तस्याः स्मृतेर्मूलं स्यात्; नेत्युच्यते, विषयनानात्वात् । सामान्यविषया हि स्मृतिः पुरुषमात्रसम्बद्धं प्रायत्यार्थमाचमनं प्रापयति । श्रुतिस्तु प्राणविद्याप्रकरणपठिता तद्विषयमेव आचमनं विदधती विदध्यात् । न च भिन्नविषययोः श्रुतिस्मृत्योः मूलमूलिभावोऽवकल्पते ।
न च इयं श्रुतिः प्राणविद्यासंयोगि अपूर्वमाचमनं विधास्यतीति शक्यमाश्रयितुम् , पूर्वस्यैव पुरुषमात्रसंयोगिन आचमनस्य इह प्रत्यभिज्ञायमानत्वात् । अत एव च नोभयविधानम् । उभयविधाने च वाक्यं भिद्येत । तस्मात् प्राप्तमेव अशिशिषतामशितवतां च उभयत आचमनम् अनूद्य,
‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ (बृ. उ. ६ । १ । १४)
इति प्राणस्य अनग्नताकरणसङ्कल्पः अनेन वाक्येन आचमनीयास्वप्सु प्राणविद्यासम्बन्धित्वेन अपूर्व उपदिश्यते ।
न च अयमनग्नतावादः आचमनस्तुत्यर्थ इति न्याय्यम् , आचमनस्याविधेयत्वात् । स्वयं च अनग्नतासङ्कल्पस्य विधेयत्वप्रतीतेः । न च एवं सति एकस्य आचमनस्य उभयार्थता अभ्युपगता भवति — प्रायत्यार्थता परिधानार्थता चेति । क्रियान्तरत्वाभ्युपगमात् — क्रियान्तरमेव हि आचमनं नाम प्रायत्यार्थं पुरुषस्य अभ्युपगम्यते । तदीयासु तु अप्सु वासःसङ्कल्पनं नाम क्रियान्तरमेव परिधानार्थं प्राणस्य अभ्युपगम्यत इत्यनवद्यम् ।
अपि च आचामन्तीति वर्तमानापदेशित्वात् नायं शब्दो विधिक्षमः । ननु मन्यन्त इत्यपि समानं वर्तमानापदेशित्वम्; सत्यमेवमेतत्; अवश्यविधेये तु अन्यतरस्मिन् वासःकार्याख्यानात् अपां वासःसङ्कल्पनमेव अपूर्वं विधीयते । न आचमनम् । पूर्ववद्धि तत् — इत्युपपादितम् ।
यदप्युक्तम् — विस्पष्टा च आचमने विधिविभक्तिरिति, तदपि पूर्ववत्त्वेनैव आचमनस्य प्रत्युक्तम् । अत एव आचमनस्याविधित्सितत्वात् ‘एतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते’ इत्यत्रैव काण्वाः पर्यवस्यन्ति, न आमनन्ति ‘तस्मादेवंवित्’ इत्यादि तस्मात् माध्यन्दिनानामपि पाठे आचमनानुवादेन एवंवित्त्वमेव प्रकृतप्राणवासोवित्त्वं विधीयत इति प्रतिपत्तव्यम् ।
योऽप्ययमभ्युपगमः — क्वचिदाचमनं विधीयताम् , क्वचिद्वासोविज्ञानमिति — सोऽपि न साधुः, ‘आपो वासः’ इत्यादिकाया वाक्यप्रवृत्तेः सर्वत्रैकरूप्यात् । तस्मात् वासोविज्ञानमेव इह विधीयते, न आचमनमिति न्याय्यम् ॥ १८ ॥
समान एवं चाभेदात् ॥ १९ ॥
ஸமாந ஏவம் சாபேதாத் ॥ 19 ॥
किं तावत्प्राप्तम् ? विद्याभेदः गुणव्यवस्था चेति । कुतः ? पौनरुक्त्यप्रसङ्गात् — भिन्नासु हि शाखासु अध्येतृवेदितृभेदात् पौनरुक्त्यपरिहारमालोच्य विद्यैकत्वमध्यवसाय एकत्रातिरिक्ता गुणा इतरत्रोपसंह्रियन्ते प्राणसंवादादिषु — इत्युक्तम् । एकस्यां पुनः शाखायाम् अध्येतृवेदितृभेदाभावात् अशक्यपरिहारे पौनरुक्त्ये न विप्रकृष्टदेशस्था एका विद्या भवितुमर्हति ।
न च अत्र एकमाम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति विभागः सम्भवति । तदा हि अतिरिक्ता एव गुणा इतरत्रेतरत्र च आम्नायेरन् , न समानाः । समाना अपि तु उभयत्राम्नायन्ते मनोमयत्वादयः । तस्मात् नान्योन्यगुणोपसंहार इत्येवं प्राप्ते ब्रूमहे —
यथा भिन्नासु शाखासु विद्यैकत्वं गुणोपसंहारश्च भवति एवमेकस्यामपि शाखायां भवितुमर्हति, उपास्याभेदात् । तदेव हि ब्रह्म मनोमयत्वादिगुणकम् उभयत्रापि उपास्यम् अभिन्नं प्रत्यभिजानीमहे । उपास्यं च रूपं विद्यायाः । न च विद्यमाने रूपाभेदे विद्याभेदमध्यवसातुं शक्नुमः । नापि विद्याऽभेदे गुणव्यवस्थानम् । ननु पौनरुक्त्यप्रसङ्गात् विद्याभेदोऽध्यवसितः; नेत्युच्यते, अर्थविभागोपपत्तेः — एकं हि आम्नानं विद्याविधानार्थम् , अपरं गुणविधानार्थम् — इति न किञ्चिन्नोपपद्यते ।
ननु एवं सति यदपठितमग्निरहस्ये, तदेव बृहदारण्यके पठितव्यम् — ‘स एष सर्वस्येशानः’ इत्यादि । यत्तु पठितमेव ‘मनोमयः’ इत्यादि, तन्न पठितव्यम् — नैष दोषः, तद्बलेनैव प्रदेशान्तरपठितविद्याप्रत्यभिज्ञानात् । समानगुणाम्नानेन हि विप्रकृष्टदेशां शाण्डिल्यविद्यां प्रत्यभिज्ञाप्य तस्याम् ईशानत्वादि उपदिश्यते । अन्यथा हि कथं तस्याम् अयं गुणविधिरभिधीयते ।
अपि च अप्राप्तांशोपदेशेन अर्थवति वाक्ये सञ्जाते, प्राप्तांशपरामर्शस्य नित्यानुवादतयापि उपपद्यमानत्वात् न तद्बलेन प्रत्यभिज्ञा उपेक्षितुं शक्यते । तस्मादत्र समानायामपि शाखायां विद्यैकत्वं गुणोपसंहारश्चेत्युपपन्नम् ॥ १९ ॥
सम्बन्धादेवमन्यत्रापि ॥ २० ॥
ஸம்பந்தாதேவமந்யத்ராபி ॥ 20 ॥
‘तस्योपनिषदहम्’ इति — अध्यात्मम् । तत्र संशयः — किमविभागेनैव उभे अपि उपनिषदावुभयत्रानुसन्धातव्ये, उत विभागेन — एका अधिदैवतम् , एका अध्यात्ममिति । तत्र सूत्रेणैवोपक्रमते — यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्तः, एवमन्यत्रापि एवंजातीयके विषये भवितुमर्हति, एकविद्याभिसम्बन्धात् — एका हि इयं सत्यविद्या अधिदैवतम् अध्यात्मं च अधीता, उपक्रमाभेदात् व्यतिषक्तपाठाच्च । कथं तस्यामुदितो धर्मः तस्यामेव न स्यात् । यो ह्याचार्ये कश्चिदनुगमनादिराचारश्चोदितः, स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति । तस्मात् उभयोरप्युपनिषदोः उभयत्र प्राप्तिरिति ॥ २० ॥
एवं प्राप्ते, प्रतिविधत्ते —
न वा विशेषात् ॥ २१ ॥
ந வா விசே ஷாத் ॥ 21 ॥
ननु एक एवायम् अधिदैवतमध्यात्मं च पुरुषः, एकस्यैव सत्यस्य ब्रह्मण आयतनद्वयप्रतिपादनात् । सत्यमेवमेतत् । एकस्यापि तु अवस्थाविशेषोपादानेनैव उपनिषद्विशेषोपदेशात् तदवस्थस्यैव सा भवितुमर्हति । अस्ति चायं दृष्टान्तः — सत्यपि आचार्यस्वरूपानपाये, यत् आचार्यस्य आसीनस्य अनुवर्तनमुक्तम् , न तत् तिष्ठतो भवति । यच्च तिष्ठत उक्तम् , न तदासीनस्येति । ग्रामारण्ययोस्तु आचार्यस्वरूपानपायात् तत्स्वरूपानुबद्धस्य च धर्मस्य ग्रामारण्यकृतविशेषाभावात् उभयत्र तुल्यवद्भाव इति अदृष्टान्तः सः । तस्मात् व्यवस्था अनयोरुपनिषदोः ॥ २१ ॥
दर्शयति च ॥ २२ ॥
தர்சயதி ச ॥ 22 ॥
सम्भृतिद्युव्याप्त्यपि चातः ॥ २३ ॥
ஸம்ப்ருதித்யுவ்யாப்த்யபி சாத: ॥ 23 ॥
‘ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान’ इत्येवं राणायनीयानां खिलेषु वीर्यसम्भृतिद्युनिवेशप्रभृतयो ब्रह्मणो विभूतयः पठ्यन्ते । तेषामेव च उपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रह्मविद्याः पठ्यन्ते । तासु ब्रह्मविद्यासु ता ब्रह्मविभूतय उपसंह्रियेरन् , न वेति विचारणायाम् , ब्रह्मसम्बन्धादुपसंहारप्राप्तौ एवं पठति । सम्भृतिद्युव्याप्तिप्रभृतयो विभूतयः शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्याः, अत एव च आयतनविशेषयोगात् ।
समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु उपसंह्रियेरन्निति युक्तम् । सम्भृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्च मनोमयत्वादयो गुणाः परस्परव्यावृत्तस्वरूपत्वात् न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमाः । न च ब्रह्मसम्बन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युचितम् , विद्याभेदेऽपि तदुपपत्तेः । एकमपि हि ब्रह्म विभूतिभेदैरनेकधा उपास्यत इति स्थितिः, परोवरीयस्त्वादिवद्भेददर्शनात् । तस्मात् वीर्यसम्भृत्यादीनां शाण्डिल्यविद्यादिषु अनुपसंहार इति ॥ २३ ॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ २४ ॥
சேதரே ஷாமநாம்நாநாத் ॥ 24 ॥
अस्ति ताण्डिनां पैङ्गिनां च रहस्यब्राह्मणे पुरुषविद्या । तत्र पुरुषो यज्ञः कल्पितः । तदीयमायुः त्रेधा विभज्य सवनत्रयं कल्पितम् । अशिशिषादीनि च दीक्षादिभावेन कल्पितानि । अन्ये च धर्मास्तत्र समधिगता आशीर्मन्त्रप्रयोगादयः । तैत्तिरीयका अपि कञ्चित् पुरुषयज्ञं कल्पयन्ति —
‘तस्यैवंविदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी’ (ना. उ. ८०)
इत्येतेनानुवाकेन । तत्र संशयः — किमितरत्र उक्ताः पुरुषयज्ञस्य तैत्तिरीयके प्युपसंहर्तव्याः, किं वा नोपसंहर्तव्या इति ।
पुरुषयज्ञत्वाविशेषात् उपसंहारप्राप्तौ, आचक्ष्महे — नोपसंहर्तव्या इति । कस्मात् ? तद्रूपप्रत्यभिज्ञानाभावात् । तदाहाचार्यः पुरुषविद्यायामिवेति — यथा एकेषां शाखिनां ताण्डिनां पैङ्गिनां च पुरुषविद्यायामाम्नानम् , नैवम् इतरेषां तैत्तिरीयाणामाम्नानमस्ति । तेषां हि इतरविलक्षणमेव यज्ञसम्पादनं दृश्यते, पत्नीयजमानवेदवेदिबर्हिर्यूपाज्यपश्वृत्विगाद्यनुक्रमणात् । यदपि सवनसम्पादनं तदपि इतरविलक्षणमेव —
‘यत्प्रातर्मध्यन्दिनं सायं च तानि’ (ना. उ. ८०)
इति । यदपि किञ्चित् मरणावभृथत्वादिसाम्यम् , तदपि अल्पीयस्त्वात् भूयसा वैलक्षण्येन अभिभूयमानं न प्रत्यभिज्ञापनक्षमम् ।
न च तैत्तिरीयके पुरुषस्य यज्ञत्वं श्रूयते । ‘विदुषः’ ‘यज्ञस्य’ इति हि न च एते समानाधिकरणे षष्ठ्यौ — विद्वानेव यो यज्ञस्तस्येति । न हि पुरुषस्य मुख्यं यज्ञत्वमस्ति । व्यधिकरणे तु एते षष्ठ्यौ — विदुषो यो यज्ञस्तस्येति । भवति हि पुरुषस्य मुख्यो यज्ञसम्बन्धः । सत्यां च गतौ, मुख्य एवार्थ आश्रयितव्यः, न भाक्तः । ‘आत्मा यजमानः’ इति च यजमानत्वं पुरुषस्य निर्ब्रुवन् वैयधिकरण्येनैव अस्य यज्ञसम्बन्धं दर्शयति । अपि च ‘तस्यैवं विदुषः’ इति सिद्धवदनुवादश्रुतौ सत्याम् , पुरुषस्य यज्ञभावम् आत्मादीनां च यजमानादिभावं प्रतिपित्समानस्य वाक्यभेदः स्यात् ।
अपि च ससंन्यासामात्मविद्यां पुरस्तादुपदिश्य अनन्तरम् ‘तस्यैवं विदुषः’ इत्याद्यनुक्रमणं पश्यन्तः — पूर्वशेष एव एष आम्नायः, न स्वतन्त्र इति प्रतीमः । तथा च एकमेव फलमुभयोरप्यनुवाकयोरुपलभामहे —
‘ब्रह्मणो महिमानमाप्नोति’ (ना. उ. ८०)
इति; इतरेषां तु अनन्यशेषः पुरुषविद्याम्नायः । आयुरभिवृद्धिफलो ह्यसौ,
‘प्र ह षोडशं वर्षशतं जीवति य एवं वेद’ (छा. उ. ३ । १६ । ७)
इति समभिव्याहारात् । तस्मात् शाखान्तराधीतानां पुरुषविद्याधर्माणामाशीर्मन्त्रादीनामप्राप्तिः तैत्तिरीयके ॥ २४ ॥
वेधाद्यर्थभेदात् ॥ २५ ॥
வேதாத்யர்தபேதாத் ॥ 25 ॥
अस्त्याथर्वणिकानामुपनिषदारम्भे मन्त्रसमाम्नायः — ‘सर्वं प्रविध्य हृदयं प्रविध्य धमनीः प्रवृज्य शिरोऽभिप्रवृज्य त्रिधा विपृक्तः’ इत्यादिः । ताण्डिनाम् — ‘देव सवितः प्रसुव यज्ञम्’ इत्यादिः । शाट्यायनिनाम् — ‘श्वेताश्वो हरितनीलोऽसि’ इत्यादिः । कठानां तैत्तिरीयाणां च —
‘शं नो मित्रः शं वरुणः’ (तै. उ. १ । १ । १)
इत्यादिः । वाजसनेयिनां तु उपनिषदारम्भे प्रवर्ग्यब्राह्मणं पठ्यते — ‘देवा ह वै सत्रं निषेदुः’ इत्यादि । कौषीतकिनामपि अग्निष्टोमब्राह्मणम् — ‘ब्रह्म वा अग्निष्टोमो ब्रह्मैव तदहर्ब्रह्मणैव ते ब्रह्मोपयन्ति तेऽमृतत्वमाप्नुवन्ति य एतदहरुपयन्ति’ इति । किमिमे सर्वं प्रविध्येत्यादयो मन्त्राः प्रवर्ग्यादीनि च कर्माणि विद्यासु उपसंह्रियेरन् , किं वा न उपसंह्रियेरन् — इति मीमांसामहे ।
किं तावत् नः प्रतिभाति ? उपसंहार एव एषां विद्यास्विति । कुतः ? विद्याप्रधानानामुपनिषद्ग्रन्थानां समीपे पाठात् । ननु एषां विद्यार्थतया विधानं नोपलभामहे — बाढम् , अनुपलभमाना अपि तु अनुमास्यामहे, सन्निधिसामर्थ्यात् । न हि सन्निधेः अर्थवत्त्वे सम्भवति, अकस्मादसावनाश्रयितुं युक्तः ।
ननु नैषां मन्त्राणां विद्याविषयं किञ्चित्सामर्थ्यं पश्यामः । कथं च प्रवर्ग्यादीनि कर्माणि अन्यार्थत्वेनैव विनियुक्तानि सन्ति विद्यार्थत्वेनापि प्रतिपद्येमहीति । नैष दोषः । सामर्थ्यं तावत् मन्त्राणां विद्याविषयमपि किञ्चित् शक्यं कल्पयितुम् , हृदयादिसङ्कीर्तनात् । हृदयादीनि हि प्रायेण उपासनेषु आयतनादिभावेनोपदिष्टानि । तद्द्वारेण च ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां मन्त्राणाम् उपपन्नमुपासनाङ्गत्वम्; दृष्टश्च उपासनेष्वपि मन्त्रविनियोगः —
‘भूः प्रपद्येऽमुनाऽमुनाऽमुना’ (छा. उ. ३ । १५ । ३)
इत्येवमादिः । तथा प्रवर्ग्यादीनां कर्मणाम् अन्यत्रापि विनियुक्तानां सताम् अविरुद्धो विद्यासु विनियोगः — वाजपेय इव बृहस्पतिसवस्य — इत्येवं प्राप्ते ब्रूमः —
नैषामुपसंहारो विद्यास्विति । कस्मात् ? वेधाद्यर्थभेदात् — ‘हृदयं प्रविध्य’ इत्येवंजातीयकानां हि मन्त्राणां येऽर्था हृदयवेधादयः, भिन्नाः अनभिसम्बद्धाः ते उपनिषदुदिताभिर्विद्याभिः । न तेषां ताभिः सङ्गन्तुं सामर्थ्यमस्ति । ननु हृदयस्य उपासनेष्वप्युपयोगात् तद्द्वारक उपासनासम्बन्ध उपन्यस्तः — नेत्युच्यते । हृदयमात्रसङ्कीर्तनस्य हि एवमुपयोगः कथञ्चिदुत्प्रेक्ष्येत । न च हृदयमात्रमत्र मन्त्रार्थः । ‘हृदयं प्रविध्य धमनीः प्रवृज्य’ इत्येवंजातीयको हि न सकलो मन्त्रार्थो विद्याभिरभिसम्बध्यते । अभिचारिकविषयो ह्येषोऽर्थः । तस्मादाभिचारिकेण कर्मणा ‘सर्वं प्रविध्य’ इत्येतस्य मन्त्रस्याभिसम्बन्धः ।
तथा ‘देव सवितः प्रसुव यज्ञम्’ इत्यस्य यज्ञप्रसवलिङ्गत्वात् यज्ञेन कर्मणा अभिसम्बन्धः । तद्विशेषसम्बन्धस्तु प्रमाणान्तरादनुसर्तव्यः । एवमन्येषामपि मन्त्राणाम् — केषाञ्चित् लिङ्गेन, केषाञ्चिद्वचनेन, केषाञ्चित्प्रमाणान्तरेणेत्येवम् — अर्थान्तरेषु विनियुक्तानाम् , रहस्यपठितानामपि सताम् , न सन्निधिमात्रेण विद्याशेषत्वोपपत्तिः । दुर्बलो हि सन्निधिः श्रुत्यादिभ्य इत्युक्तं प्रथमे तन्त्रे —
‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४)
इत्यत्र ।
तथा कर्मणामपि प्रवर्ग्यादीनामन्यत्र विनियुक्तानां न विद्याशेषत्वोपपत्तिः । न ह्येषां विद्याभिः सह ऐकार्थ्यं किञ्चिदस्ति । वाजपेये तु बृहस्पतिसवस्य स्पष्टं विनियोगान्तरम् — ‘वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत’ इति । अपि च एकोऽयं प्रवर्ग्यः सकृदुत्पन्नो बलीयसा प्रमाणेन अन्यत्र विनियुक्तः न दुर्बलेन प्रमाणेन अन्यत्रापि विनियोगमर्हति । अगृह्यमाणविशेषत्वे हि प्रमाणयोः एतदेवं स्यात् । न तु बलवदबलवतोः प्रमाणयोरगृह्यमाणविशेषता सम्भवति, बलवदबलवत्त्वविशेषादेव । तस्मात् एवंजातीयकानां मन्त्राणां कर्मणां वा न सन्निधिपाठमात्रेण विद्याशेषत्वमाशङ्कितव्यम् । अरण्यानुवचनादिधर्मसामान्यात्तु सन्निधिपाठ इति संतोष्टव्यम् ॥ २५ ॥
हानौ तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानवत्तदुक्तम् ॥ २६ ॥
ஹாநௌ தூபாயநசப்தசே ஷத்வாத்குசாச்சந்த: ஸ்துத்யுபகாநவத்ததுக்தம் ॥ 26 ॥
तदिह क्वचित् सुकृतदुष्कृतयोर्हानं श्रूयते । क्वचित्तयोरेव विभागेन प्रियैरप्रियैश्चोपायनम् । क्वचित्तु उभयमपि हानमुपायनं च । तद्यत्रोभयं श्रूयते तत्र तावत् न किञ्चिद्वक्तव्यमस्ति । यत्राप्युपायनमेव श्रूयते, न हानम् , तत्राप्यर्थादेव हानं सन्निपतति, अन्यैरात्मीययोः सुकृतदुष्कृतयोरुपेयमानयोः आवश्यकत्वात्तद्धानस्य । यत्र तु हानमेव श्रूयते, नोपायनम् — तत्रोपायनं सन्निपतेद्वा, न वेति विचिकित्सायाम् —
अश्रवणादसन्निपातः, विद्यान्तरगोचरत्वाच्च शाखान्तरीयस्य श्रवणस्य । अपि च आत्मकर्तृकं सुकृतदुष्कृतयोर्हानम् । परकर्तृकं तु उपायनम् । तयोरसत्यावश्यकभावे, कथं हानेनोपायनमाक्षिप्येत ? तस्मादसन्निपातो हानावुपायनस्येति ॥
अस्यां प्राप्तौ पठति — हानाविति । हानौ तु एतस्यां केवलायामपि श्रूयमाणायाम् उपायनं सन्निपतितुमर्हति । तच्छेषत्वात् — हानशब्दशेषो हि उपायनशब्दः समधिगतः कौषीतकिरहस्ये । तस्मादन्यत्र केवलहानशब्दश्रवणेऽप्युपायनानुवृत्तिः । यदुक्तम् — अश्रवणात् विद्यान्तरगोचरत्वात् अनावश्यकत्वाच्च असन्निपात इति, तदुच्यते — भवेदेषा व्यवस्थोक्तिः, यद्यनुष्ठेयं किञ्चिदन्यत्र श्रुतम् अन्यत्र निनीष्येत । न त्विह हानमुपायनं वा अनुष्ठेयत्वेन सङ्कीर्त्यते । विद्यास्तुत्यर्थं तु अनयोः सङ्कीर्तनम् — इत्थं महाभागा विद्या, यत्सामर्थ्यादस्य विदुषः सुकृतदुष्कृते संसारकारणभूते विधूयेते, ते च अस्य सुहृद्द्विषत्सु निविशेते इति ।
स्तुत्यर्थे च अस्मिन्संकीर्तने, हानानन्तरभावित्वेनोपायनस्य, क्वचिच्छ्रुतत्वात् अन्यत्रापि हानश्रुतावुपायनानुवृत्तिं मन्यते — स्तुतिप्रकर्षलाभाय । प्रसिद्धा च अर्थवादान्तरापेक्षा अर्थवादान्तरप्रवृत्तिः —
‘एकविंशो वा इतोऽसावादित्यः’ (छा. उ. २ । १० । ५)
इत्येवमादिषु । कथं हि इह एकविंशता आदित्यस्याभिधीयेत, अनपेक्ष्यमाणेऽर्थवादान्तरे —
‘द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः’(तै॰सं॰ ५-१-१०)
इत्येतस्मिन् । तथा ‘त्रिष्टुभौ भवतः सेन्द्रियत्वाय’ इत्येवमादिवादेषु ‘इन्द्रियं वै त्रिष्टुप्’ इत्येवमाद्यर्थवादान्तरापेक्षा दृश्यते ।
विद्यास्तुत्यर्थत्वाच्च अस्योपायनवादस्य, कथमन्यदीये सुकृतदुष्कृते अन्यैरुपेयेते इति नातीवाभिनिवेष्टव्यम् । उपायनशब्दशेषत्वादिति च शब्दशब्दं समुच्चारयन् स्तुत्यर्थामेव हानावुपायनानुवृत्तिं सूचयति । गुणोपसंहारविवक्षायां हि उपायनार्थस्यैव हानावनुवृत्तिं ब्रूयात् । तस्मात् गुणोपसंहारविचारप्रसङ्गेन स्तुत्युपसंहारप्रदर्शनार्थमिदं सूत्रम् । कुशाच्छन्दस्तुत्युपगानवदिति उपमोपादानम् । तद्यथा — भाल्लविनाम् ‘कुशा वानस्पत्याः स्थ ता मा पात’ इत्येतस्मिन्निगमे कुशानामविशेषेण शाट्यायनिनाम् ‘औदुम्बराः कुशा’ इति विशेषवचनात् औदुम्बर्यः कुशा आश्रीयन्ते ।
यथा च क्वचित् देवासुरच्छन्दसामविशेषेण पौर्वापर्यप्रसङ्गे, देवच्छन्दांसि पूर्वाणीति पैङ्ग्याम्नानात्प्रतीयते । यथा च षोडशिस्तोत्रे केषाञ्चित्कालाविशेषप्राप्तौ, ‘समयाध्युषिते सूर्ये’ इत्यार्चश्रुतेः कालविशेषप्रतिपत्तिः । यथैव च अविशेषेणोपगानं केचित्समामनन्ति विशेषेण भाल्लविनः — यथा एतेषु कुशादिषु श्रुत्यन्तरगतविशेषान्वयः, एवं हानावप्युपायनान्वय इत्यर्थः । श्रुत्यन्तरकृतं हि विशेषं श्रुत्यन्तरेऽनभ्युपगच्छतः सर्वत्रैव विकल्पः स्यात् । स च अन्याय्यः सत्यां गतौ । तदुक्तं द्वादशलक्षण्याम् —
‘अपि तु वाक्यशेषत्वादितरपर्युदासः स्यात्प्रतिषेधे विकल्पः स्यात्’ (जै॰सू॰ १०-८-१५)
इति ॥
अथवा एतास्वेव विधूननश्रुतिषु एतेन सूत्रेण एतच्चिन्तयितव्यम् — किमनेन विधूननवचनेन सुकृतदुष्कृतयोर्हानमभिधीयते, किं वा अर्थान्तरमिति । तत्र च एवं प्रापयितव्यम् — न हानं विधूननमभिधीयते, ‘कम्पने’ इति स्मरणात् , ‘दोधूयन्ते ध्वजाग्राणि’ इति च वायुना चाल्यमानेषु ध्वजाग्रेषु प्रयोगदर्शनात् । तस्मात् चालनं विधूननमभिधीयते । चालनं तु सुकृतदुष्कृतयोः कञ्चित्कालं फलप्रतिबन्धनात् — इत्येवं प्रापय्य, प्रतिवक्तव्यम् —
हानावेव एष विधूननशब्दो वर्तितुमर्हति, उपायनशब्दशेषत्वात् । न हि परपरिग्रहभूतयोः सुकृतदुष्कृतयोः अप्रहीणयोः परैरुपायनं सम्भवति । यद्यपि इदं परकीययोः सुकृतदुष्कृतयोः परैरुपायनं न आञ्जसं सम्भाव्यते, तथापि तत्सङ्कीर्तनात्तावत् तदानुगुण्येन हानमेव विधूननं नामेति निर्णेतुं शक्यते । क्वचिदपि च इदं विधूननसन्निधावुपायनं श्रूयमाणं कुशाच्छन्दस्तुत्युपगानवत् विधूननश्रुत्या सर्वत्रापेक्ष्यमाणं सार्वत्रिकं निर्णयकारणं सम्पद्यते ।
न च चालनं ध्वजाग्रवत् सुकृतदुष्कृतयोर्मुख्यं सम्भवति, अद्रव्यत्वात् । अश्वश्च रोमाणि विधून्वानः त्यजन् रजः सहैव तेन रोमाण्यपि जीर्णानि शातयति —
‘अश्व इव रोमाणि विधूय पापम्’ (छा. उ. ८ । १३ । १)
इति च ब्राह्मणम् । अनेकार्थत्वाभ्युपगमाच्च धातूनां न स्मरणविरोधः । तदुक्तमिति व्याख्यातम् ॥ २६ ॥
साम्पराये तर्तव्याभावात्तथा ह्यन्ये ॥ २७ ॥
ஸாம்பராயே தர்தவ்யாபாவாத்ததா ஹ்யந்யே ॥ 27 ॥
साम्पराये गमन एव देहादपसर्पणे, इदं विद्यासामर्थ्यात्सुकृतदुष्कृतहानं भवति — इति प्रतिजानीते । हेतुं च आचष्टे — तर्तव्याभावादिति । न हि विदुषः सम्परेतस्य विद्यया ब्रह्म संप्रेप्सतः अन्तराले सुकृतदुष्कृताभ्यां किञ्चित्प्राप्तव्यमस्ति, यदर्थं कतिचित्क्षणानक्षीणे ते कल्प्येयाताम् । विद्याविरुद्धफलत्वात्तु विद्यासामर्थ्येन तयोः क्षयः । स च यदैव विद्या फलाभिमुखी तदैव भवितुमर्हति । तस्मात् प्रागेव सन् अयं सुकृतदुष्कृतक्षयः पश्चात्पठ्यते ।
छन्दत उभयाविरोधात् ॥ २८ ॥
சந்தத உபயாவிரோதாத் ॥ 28 ॥
यदि च देहादपसृप्तस्य देवयानेन पथा प्रस्थितस्य अर्धपथे सुकृतदुष्कृतक्षयोऽभ्युपगम्येत, ततः पतिते देहे यमनियमविद्याभ्यासात्मकस्य सुकृतदुष्कृतक्षयहेतोः पुरुषयत्नस्य इच्छातोऽनुष्ठानानुपपत्तेः अनुपपत्तिरेव तद्धेतुकस्य सुकृतदुष्कृतक्षयस्य स्यात् । तस्मात् पूर्वमेव साधकावस्थायां छन्दतोऽनुष्ठानं तस्य स्यात् , तत्पूर्वकं च सुकृतदुष्कृतहानम् — इति द्रष्टव्यम् । एवं निमित्तनैमित्तिकयोरुपपत्तिः ताण्डिशाट्यायनिश्रुत्योश्च सङ्गतिरिति ॥ २८ ॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ २९ ॥
கதேரர்தவத்த்வமுபயதாஅந்யதா ஹி விரோத: ॥ 29 ॥
क्वचित् पुण्यपापापहानसन्निधौ देवयानः पन्थाः श्रूयते, क्वचिन्न । तत्र संशयः — किं हानावविशेषेणैव देवयानः पन्थाः सन्निपतेत् , उत विभागेन क्वचित्सन्निपतेत् क्वचिन्नेति । यथा तावत् हानावविशेषेणैव उपायनानुवृत्तिरुक्ता एवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तौ, आचक्ष्महे — गतेः देवयानस्य पथः, अर्थवत्त्वम् , उभयथा विभागेन भवितुमर्हति — क्वचिदर्थवती गतिः क्वचिन्नेति; न अविशेषेण । अन्यथा हि अविशेषेणैव एतस्यां गतावङ्गीक्रियमाणायां विरोधः स्यात् —
उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥ ३० ॥
உபபந்நஸ்தல்லக்ஷணார்தோபலப்தேர் லோகவத் ॥ 30 ॥
उपपन्नश्चायम् उभयथाभावः — क्वचिदर्थवती गतिः क्वचिन्नेति । तल्लक्षणार्थोपलब्धेः — गतिकारणभूतोऽर्थः पर्यङ्कविद्यादिषु सगुणेषु उपासनेषु उपलभ्यते । तत्र हि पर्यङ्कारोहणम् , पर्यङ्कस्थेन ब्रह्मणा संवदनम् , विशिष्टगन्धादिप्राप्तिश्च — इत्येवमादि बहु देशान्तरप्राप्त्यायत्तं फलं श्रूयते । तत्र अर्थवती गतिः । न हि सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति ।
न हि आत्मैकत्वदर्शिनामाप्तकामानाम् इहैव दग्धाशेषक्लेशबीजानाम् आरब्धभोगकर्माशयक्षपणव्यतिरेकेण अपेक्षितव्यं किञ्चिदस्ति । तत्र अनर्थिका गतिः । लोकवच्च एष विभागो द्रष्टव्यः — यथा लोके ग्रामप्राप्तौ देशान्तरप्रापणः पन्था अपेक्ष्यते, न आरोग्यप्राप्तौ, एवमिहापीति । भूयश्च एनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्यामः ॥ ३० ॥
अनियमः सर्वासामविरोधः शब्दानुमानाभ्याम् ॥ ३१ ॥
அநியம: ஸர்வாஸாமவிரோத: சப்தானுமானாப்யாம் ॥ 31 ॥
सगुणासु विद्यासु गतिरर्थवती, न निर्गुणायां परमात्मविद्यायाम् — इत्युक्तम् । सगुणास्वपि विद्यासु कासुचिद्गतिः श्रूयते — यथा पर्यङ्कविद्यायाम् उपकोसलविद्यायां पञ्चाग्निविद्यायां दहरविद्यायामिति । न अन्यासु — यथा मधुविद्यायां शाण्डिल्यविद्यायां षोडशकलविद्यायां वैश्वानरविद्यायामिति । तत्र संशयः — किं यास्वेवैषा गतिः श्रूयते, तास्वेव नियम्येत; उत अनियमेन सर्वाभिरेव एवंजातीयकाभिर्विद्याभिरभिसम्बध्येतेति ।
किं तावत्प्राप्तम् ? नियम इति । यत्रैव श्रूयते, तत्रैव भवितुमर्हति, प्रकरणस्य नियामकत्वात् । यद्यन्यत्र श्रूयमाणापि गतिः विद्यान्तरं गच्छेत् , श्रुत्यादीनां प्रामाण्यं हीयेत, सर्वस्य सर्वार्थत्वप्रसङ्गात् । अपि च अर्चिरादिका एकैव गतिः उपकोसलविद्यायां पञ्चाग्निविद्यायां च तुल्यवत्पठ्यते । तत् सर्वार्थत्वेऽनर्थकं पुनर्वचनं स्यात् । तस्मान्नियम इत्येवं प्राप्ते पठति —
कथं पुनरवगम्यते — विद्यान्तरशीलिनामियं गतिरिति ? ननु श्रद्धातपःपरायणानामेव स्यात्, तन्मात्रश्रवणात् — नैष दोषः । न हि केवलाभ्यां श्रद्धातपोभ्याम् अन्तरेण विद्याबलम् एषा गतिर्लभ्यते —
‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति
इति श्रुत्यन्तरात् । तस्मात् इह श्रद्धातपोभ्यां विद्यान्तरोपलक्षणम् ।
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३२ ॥
யாவததி காரமவஸ்திதிராதிகாரிகாணாம் ॥ 32 ॥
विदुषो वर्तमानदेहपातानन्तरं देहान्तरमुत्पद्यते, न वा — इति चिन्त्यते । ननु विद्यायाः साधनभूतायाः सम्पत्तौ कैवल्यनिर्वृत्तिः स्यात् न वेति नेयं चिन्ता उपपद्यते । न हि पाकसाधनसम्पत्तौ, ओदनो भवेत् न वेति चिन्ता सम्भवति । नापि भुञ्जानः तृप्येत् न वेति चिन्त्यते — उपपन्ना तु इयं चिन्ता, ब्रह्मविदामपि केषाञ्चित् इतिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथा हि — अपान्तरतमा नाम वेदाचार्यः पुराणर्षिः विष्णुनियोगात् कलिद्वापरयोः सन्धौ कृष्णद्वैपायनः सम्बभूवेति स्मरन्ति । वसिष्ठश्च ब्रह्मणो मानसः पुत्रः सन् निमिशापादपगतपूर्वदेहः पुनर्ब्रह्मादेशान्मित्रावरुणाभ्यां सम्बभूवेति । भृग्वादीनामपि ब्रह्मण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्तिः श्रूयते । सनत्कुमारोऽपि ब्रह्मण एव मानसः पुत्रः स्वयं रुद्राय वरप्रदानात् स्कन्दत्वेन प्रादुर्बभूव । एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्तिः कथ्यते तेन तेन निमित्तेन स्मृतौ ।
श्रुतावपि मन्त्रार्थवादयोः प्रायेणोपलभ्यते । ते च केचित् पतिते पूर्वदेहे देहान्तरमाददते, केचित्तु स्थित एव तस्मिन् योगैश्वर्यवशात् अनेकदेहादानन्यायेन । सर्वे च एते समधिगतसकलवेदार्थाः स्मर्यन्ते । तत् एतेषां देहान्तरोत्पत्तिदर्शनात् प्राप्तं ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् , अहेतुत्वं वेति ॥
एवम् अपान्तरतमःप्रभृतयोऽपीश्वराः परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ताः सन्तः सत्यपि सम्यग्दर्शने कैवल्यहेतौ अक्षीणकर्माणो यावदधिकारमवतिष्ठन्ते, तदवसाने च अपवृज्यन्त इत्यविरुद्धम् । सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्तः, स्वातन्त्र्येणैव गृहादिव गृहान्तरम् अन्यमन्यं देहं सञ्चरन्तः स्वाधिकारनिर्वर्तनाय, अपरिमुषितस्मृतय एव देहेन्द्रियप्रकृतिवशित्वात् निर्माय देहान् युगपत् क्रमेण वा अधितिष्ठन्ति ।
न च एते जातिस्मरा इत्युच्यन्ते — त एवैते इति स्मृतिप्रसिद्धेः । यथा हि सुलभा नाम ब्रह्मवादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहम् , जानकं देहमाविश्य, व्युद्य तेन, पश्चात् स्वमेव देहमाविवेश — इति स्मर्यते । यदि हि उपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत् , ततः अन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रह्मविद्यायाः पाक्षिकं मोक्षहेतुत्वम् अहेतुत्वं वा आशङ्क्येत । न तु इयमाशङ्का युक्ता, ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
न च अविद्यादिक्लेशदाहे सति क्लेशबीजस्य कर्माशयस्य एकदेशदाहः एकदेशप्ररोहश्च इत्युपपद्यते । न हि अग्निदग्धस्य शालिबीजस्य एकदेशप्ररोहो दृश्यते । प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयात् निवृत्तिः,
‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २)
इति शरीरपातावधिक्षेपकरणात् । तस्मादुपपन्ना यावदधिकारम् आधिकारिकाणामवस्थितिः ।
न च ज्ञानफलस्य अनैकान्तिकता । तथा च श्रुतिः अविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति —
‘तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०)
इति । ज्ञानान्तरेषु च ऐश्वर्यादिफलेष्वासक्ताः स्युर्महर्षयः । ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णाः परमात्मज्ञाने परिनिष्ठाः कैवल्यं प्रापुरित्युपपद्यते — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्’ इति स्मरणात् ।
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३३ ॥
அக்ஷரதியாம் த்வவரோத: ஸாமாந்யதத் பாவாப்யா மௌபஸத வத்தது;க்தம் ॥ 33 ॥
उच्यते — अक्षरविषयास्तु विशेषप्रतिषेधबुद्धयः सर्वाः सर्वत्रावरोद्धव्याः, सामान्यतद्भावाभ्याम् — समानो हि सर्वत्र विशेषनिराकरणरूपो ब्रह्मप्रतिपादनप्रकारः । तदेव च सर्वत्र प्रतिपाद्यं ब्रह्म अभिन्नं प्रत्यभिज्ञायते । तत्र किमिति अन्यत्र कृता बुद्धयः अन्यत्र न स्युः । तथा च
‘आनन्दादयः प्रधानस्य’ (ब्र. सू. ३ । ३ । ११)
इत्यत्र व्याख्यातम् । तत्र विधिरूपाणि विशेषणानि चिन्तितानि, इह प्रतिषेधरूपाणीति विशेषः । प्रपञ्चार्थश्चायं चिन्ताभेदः ।
औपसदवदिति निदर्शनम् । यथा जामदग्न्येऽहीने पुरोडाशिनीषूपसत्सु चोदितासु , पुरोडाशप्रदानमन्त्राणाम् ‘वेरध्वरम्’ इत्येवमादीनाम् उद्गातृवेदोत्पन्नानामपि अध्वर्युभिरभिसम्बन्धो भवति, अध्वर्युकर्तृकत्वात्पुरोडाशप्रदानस्य, प्रधानतन्त्रत्वाच्चाङ्गानाम् — एवमिहापि अक्षरतन्त्रत्वात् तद्विशेषणानां यत्र क्वचिदप्युत्पन्नानाम् अक्षरेण सर्वत्राभिसम्बन्ध इत्यर्थः । तदुक्तं प्रथमे काण्डे —
‘गुणमुख्यव्यतिक्रमे तदर्थत्वान्मुख्येन वेदसंयोगः’ (जै. सू. ३ । ३ । ९)
इत्यत्र ॥ ३३ ॥
इयदामननात् ॥ ३४ ॥
இயதாமநநாத் ॥ 34 ॥
किं तावत्प्राप्तम् ? विद्यानानात्वमिति । कुतः ? विशेषदर्शनात् — ‘द्वा सुपर्णा’ इत्यत्र हि एकस्य भोक्तृत्वं दृश्यते, एकस्य च अभोक्तृत्वं दृश्यते । ‘ऋतं पिबन्तौ’ इत्यत्र उभयोरपि भोक्तृत्वमेव दृश्यते । तत् वेद्यरूपं भिद्यमानं विद्यां भिन्द्यादित्येवं प्राप्ते ब्रवीति —
विद्यैकत्वमिति । कुतः ? यतः उभयोरप्यनयोर्मन्त्रयोः इयत्तापरिच्छिन्नं द्वित्वोपेतं वेद्यं रूपम् अभिन्नम् आमनन्ति । ननु दर्शितो रूपभेदः — नेत्युच्यते; उभावप्येतौ मन्त्रौ जीवद्वितीयमीश्वरं प्रतिपादयतः, नार्थान्तरम् । ‘द्वा सुपर्णा’ इत्यत्र तावत् — ‘अनश्नन्नन्यो अभिचाकशीति’ इत्यशनायाद्यतीतः परमात्मा प्रतिपाद्यते । वाक्यशेषेऽपि च स एव प्रतिपाद्यमानो दृश्यते
‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ (श्वे. उ. ४ । ७)
इति । ‘ऋतं पिबन्तौ’ इत्यत्र तु जीवे पिबति, अशनायाद्यतीतः परमात्मापि साहचर्यात् छत्रिन्यायेन पिबतीत्युपचर्यते ।
अन्तरा भूतग्रामवत्स्वात्मनः ॥ ३५ ॥
அந்தரா பூதக்ராமவத்ஸ்வாத்மன: ॥ 35 ॥
प्रत्याह — अन्तरा आम्नानाविशेषात् स्वात्मनः विद्यैकत्वमिति । सर्वान्तरो हि स्वात्मा उभयत्राप्यविशिष्टः प्रत्युच्यते च । न हि द्वावात्मानौ एकस्मिन्देहे सर्वान्तरौ सम्भवतः । तदा हि एकस्य आञ्जसं सर्वान्तरत्वमवकल्पेत, एकस्य तु भूतग्रामवत् नैव सर्वान्तरत्वं स्यात् । यथा च पञ्चभूतसमूहे देहे — पृथिव्या आपोऽन्तराः, अद्भ्यस्तेजोऽन्तरमिति — सत्यप्यापेक्षिकेऽन्तरत्वे, नैव मुख्यं सर्वान्तरत्वं भवति, तथेहापीत्यर्थः ।
अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशान्तरवत् ॥ ३६ ॥
அந்யதா பேதாநுபபத்திரிதி சேந்நோபதேசாந்தரவத் ॥ 36 ॥
अथ यदुक्तम् — अनभ्युपगम्यमाने विद्याभेदे आम्नानभेदानुपपत्तिरिति, तत्परिहर्तव्यम्; अत्रोच्यते — नायं दोषः । उपदेशान्तरवदुपपत्तेः । यथा ताण्डिनामुपनिषदि षष्ठे प्रपाठके —
‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७)
इति नवकृत्वोऽप्युपदेशे न विद्याभेदो भवति, एवमिहापि भविष्यति ।
‘यदेव साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ५ । १)
इति द्वितीये प्रश्ने एवकारं प्रयुञ्जानः पूर्वप्रश्नगतमेवार्थम् उत्तरत्रानुकृष्यमाणं दर्शयति । पूर्वस्मिंश्च ब्राह्मणे कार्यकरणव्यतिरिक्तस्य आत्मनः सद्भावः कथ्यते । उत्तरस्मिंस्तु तस्यैव अशनायादिसंसारधर्मातीतत्वं कथ्यते — इत्येकार्थतोपपत्तिः । तस्मात् एका विद्येति ॥ ३६ ॥
व्यतिहारो विशिंषन्ति हीतरवत् ॥ ३७ ॥
வ்யதிஹாரோ விசிம்ஷந்தி ஹீதரவத் ॥ 37 ॥
यथा —
‘तद्योऽहं सोऽसौ योऽसौ सोऽहम्’ (ऐ॰आ॰ २-२-४-६)
इत्यादित्यपुरुषं प्रकृत्यैतरेयिणः समामनन्ति, तथा जाबालाः — ‘त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि’ इति । तत्र संशयः — किमिह व्यतिहारेण उभयरूपा मतिः कर्तव्या, उत एकरूपैवेति ।
एकरूपैवेति तावदाह । न हि अत्र आत्मन ईश्वरेणैकत्वं मुक्त्वा अन्यत्किञ्चिच्चिन्तयितव्यमस्ति । यदि चैवं चिन्तयितव्यो विशेषः परिकल्प्येत, संसारिणश्च ईश्वरात्मत्वम् , ईश्वरस्य संसार्यात्मत्वमिति — तत्र संसारिणस्तावदीश्वरात्मत्वे उत्कर्षो भवेत् । ईश्वरस्य तु संसार्यात्मत्वे निकर्षः कृतः स्यात् । तस्मात् ऐकरूप्यमेव मतेः ।
व्यतिहाराम्नायस्तु एकत्वदृढीकारार्थ इत्येवं प्राप्ते, प्रत्याह — व्यतिहारोऽयम् आध्यानायाम्नायते । इतरवत् — यथा इतरे गुणाः सर्वात्मत्वप्रभृतयः आध्यानाय आम्नायन्ते, तद्वत् । तथा हि विशिंषन्ति समाम्नातारः उभयोच्चारणेन — ‘त्वमहमस्म्यहं च त्वमसि’ इति । तच्च उभयरूपायां मतौ कर्तव्यायाम् अर्थवद्भवति । अन्यथा हि इदं विशेषेणोभयाम्नानम् अनर्थकं स्यात् , एकेनैव कृतत्वात् । ननु उभयाम्नानस्य अर्थविशेषे परिकल्प्यमाने देवतायाः संसार्यात्मत्वापत्तेः निकर्षः प्रसज्येतेत्युक्तम् — नैष दोषः; ऐकात्म्यस्यैव अनेन प्रकारेणानुचिन्त्यमानत्वात् ।
ननु एवं सति स एव एकत्वदृढीकार आपद्येत — न वयमेकत्वदृढीकारं वारयामः — किं तर्हि ? — व्यतिहारेण इह द्विरूपा मतिः कर्तव्या वचनप्रामाण्यात् , नैकरूपेत्येतावत् उपपादयामः । फलतस्तु एकत्वमपि दृढीभवति । यथा आध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्गुण ईश्वरः प्रसिध्यति, तद्वत् । तस्मादयमाध्यातव्यो व्यतिहारः समाने च विषये उपसंहर्तव्यो भवतीति ॥ ३७ ॥
सैव हि सत्यादयः ॥ ३८ ॥
ஸைவ ஹி ஸத்த்யாதய: ॥ 38 ॥
एकैवेयं सत्यविद्येति । कुतः ?
‘तद्यत्तत्सत्यम्’ (बृ. उ. ५ । ५ । २)
इति प्रकृताकर्षणात् । ननु विद्याभेदेऽपि प्रकृताकर्षणम् उपास्यैकत्वादुपपद्यत इत्युक्तम् — नैतदेवम्; यत्र हि विस्पष्टात् कारणान्तरात् विद्याभेदः प्रतीयते, तत्र एतदेवं स्यात् । अत्र तु उभयथा सम्भवे ‘तद्यत्तत्सत्यम्’ इति प्रकृताकर्षणात् पूर्वविद्यासम्बद्धमेव सत्यम् उत्तरत्र आकृष्यत इति एकविद्यात्वनिश्चयः ।
यत्पुनरुक्तम् — फलान्तरश्रवणाद्विद्यान्तरमिति, अत्रोच्यते — ‘तस्योपनिषदहः … अहम्’ इति च अङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोषः । अपि च अर्थवादादेव फले कल्पयितव्ये, सति विद्यैकत्वे च अवयवेषु श्रूयमाणानि बहून्यपि फलानि अवयविन्यामेव विद्यायाम् उपसंहर्तव्यानि भवन्ति । तस्मात्सैवेयम् एका सत्यविद्या तेन तेन विशेषेणोपेता आम्नाता — इत्यतः सर्व एव सत्यादयो गुणा एकस्मिन्नेवप्रयोगे उपसंहर्तव्याः ॥
कामादीतरत्र तत्र चायतनादिभ्यः ॥ ३९ ॥
காமாதீதரத்ர தத்ர சாஆயதநாதிப்4ய: ॥ 39 ॥
यदेतत् छान्दोग्ये हृदयाकाशस्य सत्यकामत्वादिगुणजातमुपलभ्यते, तदितरत्र वाजसनेयके ‘स वा एष महानज आत्मा’ इत्यत्र सम्बध्येत । यच्च वाजसनेयके वशित्वादि उपलभ्यते, तदपि इतरत्र छान्दोग्ये
‘एष आत्माऽपहतपाप्मा’ (छा. उ. ८ । १ । ५)
इत्यत्र सम्बध्येत । कुतः ? आयतनादिसामान्यात् । समानं हि उभयत्रापि हृदयमायतनम् , समानश्च वेद्य ईश्वरः, समानं च तस्य सेतुत्वं लोकासम्भेदप्रयोजनम् — इत्येवमादि बहु सामान्यं दृश्यते ।
वशित्वादि तु तत्स्तुत्यर्थमेव गुणजातं वाजसनेयके सङ्कीर्त्यते । तथा च उपरिष्टात्
‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६)
इत्यादिना निर्गुणमेव ब्रह्म उपसंहरति । गुणवतस्तु ब्रह्मण एकत्वात् विभूतिप्रदर्शनाय अयं गुणोपसंहारः सूत्रितः, नोपासनाय — इति द्रष्टव्यम् ॥ ३९ ॥
आदरादलोपः ॥ ४० ॥
ஆதராதலோப: ॥ 40 ॥
‘तद्यद्भक्तम्’ इति भक्तागमनसंयोगश्रवणात् , भक्तागमनस्य च भोजनार्थत्वात् , भोजनलोपे लोपः प्राणाग्निहोत्रस्येत्येवं प्राप्ते, न लुप्येतेति तावदाह । कस्मात् ? आदरात् । तथा हि वैश्वानरविद्यायामेव जाबालानां श्रुतिः — ‘पूर्वोऽतिथिभ्योऽश्नीयात् । यथा ह वै स्वयमहुत्वाग्निहोत्रं परस्य जुहुयादेवं तत्’ इति अतिथिभोजनस्य प्राथम्यं निन्दित्वा, स्वामिभोजनं प्रथमं प्रापयन्ती प्राणाग्निहोत्रे आदरं करोति । या हि न प्राथम्यलोपं सहते, नतरां सा प्राथम्यवतोऽग्निहोत्रस्य लोपं सहेतेति मन्यते ।
ननु भोजनार्थभक्तागमनसंयोगाद्भोजनलोपे लोपः प्रापितः — न, तस्य द्रव्यविशेषविधानार्थत्वात् । प्राकृते हि अग्निहोत्रे पयःप्रभृतीनां द्रव्याणां नियतत्वात् इहापि अग्निहोत्रशब्दात् कौण्डपायिनामयनवत् तद्धर्मप्राप्तौ सत्याम् , भक्तद्रव्यकतागुणविशेषविधानार्थम् इदं वाक्यम् ‘तद्यद्भक्तम्’ इति । अतो गुणलोपे न मुख्यस्येत्येवं प्राप्तम् । भोजनलोपेऽपि अद्भिर्वा अन्येन वा द्रव्येणाविरुद्धेन प्रतिनिधिन्यायेन प्राणाग्निहोत्रस्यानुष्ठानमिति ॥ ४० ॥
अत उत्तरं पठति —
उपस्थितेऽतस्तद्वचनात् ॥ ४१ ॥
உபஸ்திதேஅதஸ்தத்வசநாத் ॥ 41 ॥
उपस्थिते भोजने अतः तस्मादेव भोजनद्रव्यात् प्रथमोपनिपतितात् प्राणाग्निहोत्रं निर्वर्तयितव्यम् । कस्मात् ? तद्वचनात् । तथा हि —
‘तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम्’ (छा. उ. ५ । १९ । १)
इति सिद्धवद्भक्तोपनिपातपरामर्शेन परार्थद्रव्यसाध्यतां प्राणाहुतीनां विदधाति । ताः अप्रयोजकलक्षणापन्नाः सत्यः, कथं भोजनलोपे द्रव्यान्तरं प्रतिनिधापयेयुः ।
न च अत्र प्राकृताग्निहोत्रधर्मप्राप्तिरस्ति । कुण्डपायिनामयने हि ‘मासमग्निहोत्रं जुहोति’ इति विध्युद्देशगतोऽग्निहोत्रशब्दः तद्वद्भावं विधापयेदिति युक्ता तद्धर्मप्राप्तिः । इह पुनः अर्थवादगतोऽग्निहोत्रशब्दः न तद्वद्भावं विधापयितुमर्हति । तद्धर्मप्राप्तौ च अभ्युपगम्यमानायाम् , अग्न्युद्धरणादयोऽपि प्राप्येरन् । न च अस्ति सम्भवः । अग्न्युद्धरणं तावत् होमाधिकरणभावाय । न च अयम् अग्नौ होमः, भोजनार्थताव्याघातप्रसङ्गात् । भोजनोपनीतद्रव्यसम्बन्धाच्च आस्य एव एष होमः । तथा च जाबालश्रुतिः ‘पूर्वोऽतिथिभ्योऽश्नीयात्’ इति आस्याधारामेव इमां होमनिर्वृत्तिं दर्शयति ।
अत एव च इहापि साम्पादिकान्येवाग्निहोत्राङ्गानि दर्शयति —
‘उर एव वेदिर्लोमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः’ (छा. उ. ५ । १८ । २)
इति । वेदिश्रुतिश्चात्र स्थण्डिलमात्रोपलक्षणार्था द्रष्टव्या, मुख्याग्निहोत्रे वेद्यभावात् , तदङ्गानां च इह सम्पिपादयिषितत्वात् । भोजनेनैव च कृतकालेन संयोगात् न अग्निहोत्रकालावरोधसम्भवः । एवमन्येऽपि उपस्थानादयो धर्माः केचित्कथञ्चित् विरुध्यन्ते । तस्माद्भोजनपक्ष एव एते मन्त्रद्रव्यदेवतासंयोगात् पञ्च होमा निर्वर्तयितव्याः ।
यत्तु आदरदर्शनवचनम् , तत् भोजनपक्षे प्राथम्यविधानार्थम् । न ह्यस्ति वचनस्य अतिभारः । न तु अनेन अस्य नित्यता शक्यते दर्शयितुम् । तस्मात् भोजनलोपे लोप एव प्राणाग्निहोत्रस्येति ॥ ४१ ॥
तन्निर्धारणानियमस्तद्दृष्टेः पृथग्घ्यप्रतिबन्धः फलम् ॥ ४२ ॥
தந்நிர்தாரணாநியமஸ்தத்த்ருஷ்டே: ப்ருதக்க்யப்ரதிபந்த: பலம் ॥ 42 ॥
सन्ति कर्माङ्गव्यपाश्रयाणि विज्ञानानि —
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १)
इत्येवमादीनि । किं तानि नित्यान्येव स्युः कर्मसु , पर्णमयीत्वादिवत्; उत अनित्यानि, गोदोहनादिवदिति विचारयामः । किं तावत्प्राप्तम् ? नित्यानीति । कुतः ? प्रयोगवचनपरिग्रहात् — अनारभ्याधीतान्यपि हि एतानि उद्गीथादिद्वारेण क्रतुसम्बन्धात् क्रतुप्रयोगवचनेनैव अङ्गान्तरवत् संस्पृश्यन्ते ।
यत्तु एषां स्ववाक्येषु फलश्रवणम् —
‘आपयिता ह वै कामानां भवति’ (छा. उ. १ । १ । ७)
इत्यादि, तद्वर्तमानापदेशरूपत्वादर्थवादमात्रमेव, अपापश्लोकश्रवणादिवत् , न फलप्रधानम् । तस्मात् यथा ‘यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति’ इत्येवमादीनाम् अप्रकरणपठितानामपि जुह्वादिद्वारेण क्रतुप्रवेशात् प्रकरणपठितवत् नित्यता, एवमुद्गीथाद्युपासनानामपीत्येवं प्राप्ते ब्रूमः —
तथा लोकसामादिषु प्रतिनियतानि प्रत्युपासनं फलानि शिष्यन्ते —
‘कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च’ (छा. उ. २ । २ । ३)
इत्येवमादीनि । न चेदं फलश्रवणम् अर्थवादमात्रं युक्तं प्रतिपत्तुम् । तथा हि गुणवाद आपद्येत । फलोपदेशे तु मुख्यवादोपपत्तिः । प्रयाजादिषु तु इतिकर्तव्यताकाङ्क्षस्य क्रतोः प्रकृतत्वात् तादर्थ्ये सति युक्तं फलश्रुतेरर्थवादत्वम् ।
तथा अनारभ्याधीतेष्वपि पर्णमयीत्वादिषु — न हि पर्णमयीत्वादीनामक्रियात्मकानाम् आश्रयमन्तरेण फलसम्बन्धोऽवकल्पते । गोदोहनादीनां हि प्रकृताप्प्रणयनाद्याश्रयलाभादुपपन्नः फलविधिः । तथा बैल्वादीनामपि प्रकृतयूपाद्याश्रयलाभादुपपन्नः फलविधिः । न तु पर्णमयीत्वादिषु एवंविधः कश्चिदाश्रयः प्रकृतोऽस्ति; वाक्येनैव तु जुह्वाद्याश्रयतां विवक्षित्वा फलेऽपि विधिं विवक्षतो वाक्यभेदः स्यात् ।
उपासनानां तु क्रियात्मकत्वात् विशिष्टविधानोपपत्तेः उद्गीथाद्याश्रयाणां फले विधानं न विरुध्यते । तस्मात् यथा क्रत्वाश्रयाण्यपि गोदोहनादीनि फलसंयोगादनित्यानि, एवमुद्गीथाद्युपासनान्यपि इति द्रष्टव्यम् । अत एव च कल्पसूत्रकारा नैवंजातीयकान्युपासनानि क्रतुषु कल्पयांचक्रुः ॥ ४२ ॥
प्रदानवदेव तदुक्तम् ॥ ४३ ॥
ப்ரதாநவதேவ ததுக்தம் ॥ 43 ॥
पृथगेव वायुप्राणावुपगन्तव्याविति । कस्मात् ? पृथगुपदेशात् । आध्यानार्थो हि अयम् अध्यात्माधिदैवविभागोपदेशः । सः असत्याध्यानपृथक्त्वे अनर्थक एव स्यात् । ननु उक्तम् , न पृथगनुचिन्तनं तत्त्वाभेदादिति — नैष दोषः । तत्त्वाभेदेऽप्यवस्थाभेदात् उपदेशभेदवशेन अनुचिन्तनभेदोपपत्तेः, श्लोकोपन्यासस्य च तत्त्वाभेदाभिप्रायेणापि उपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ,
‘स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः’ (बृ. उ. १ । ५ । २२)
इति च उपमानोपमेयकरणात् ।
तदुक्तं सङ्कर्षे — ‘नाना वा देवता पृथग्ज्ञानात्’ इति । तत्र तु द्रव्यदेवताभेदात् यागभेदो विद्यते । नैवमिह विद्याभेदोऽस्ति, उपक्रमोपसंहाराभ्याम् अध्यात्माधिदैवोपदेशेषु एकविद्याविधानप्रतीतेः । विद्यैक्येऽपि तु अध्यात्माधिदैवभेदात् प्रवृत्तिभेदो भवति — अग्निहोत्र इव सायंप्रातःकालभेदात् — इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥ ४३ ॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ४४ ॥
லிங்கபூயஸ்த்வாத்தத்தி பலீயஸ்ததபி ॥ 44 ॥
वाजसनेयिनोऽग्निरहस्ये ‘नैव वा इदमग्रे सदासीत्’ इत्येतस्मिन्ब्राह्मणे मनोऽधिकृत्य अधीयते — ‘इत्यादि । तथैव ‘वाक्चितः प्राणचितश्चक्षुश्चितः श्रोत्रचितः कर्मचितोऽग्निचितः’ इति पृथगग्नीन् आमनन्ति साम्पादिकान् । तेषु संशयः — किमेते मनश्चिदादयः क्रियानुप्रवेशिनः तच्छेषभूताः, उत स्वतन्त्राः केवलविद्यात्मका इति ।
तत्र प्रकरणात् क्रियानुप्रवेशे प्राप्ते, स्वातन्त्र्यं तावत्प्रतिजानीते — लिङ्गभूयस्त्वादिति । भूयांसि हि लिङ्गानि अस्मिन्ब्राह्मणे केवलविद्यात्मकत्वमेषामुपोद्बलयन्ति दृश्यन्ते — ‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’ इति, ‘तान्हैतानेवंविदे सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति च एवंजातीयकानि । तद्धि लिङ्गं प्रकरणाद्बलीयः । तदप्युक्तं पूर्वस्मिन्काण्डे —
‘श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ (जै. सू. ३ । ३ । १४)
इति ॥ ४४ ॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रिया मानसवत् ॥ ४५ ॥
பூர்வவிகல்ப: ப்ரகரணாத் ஸ்யாத் க்ரியா மானஸவத் ॥ 45 ॥
नैतद्युक्तम् — स्वतन्त्रा एतेऽग्नयः अनन्यशेषभूता इति । पूर्वस्य क्रियामयस्य अग्नेः प्रकरणात् तद्विषय एव अयं विकल्पविशेषोपदेशः स्यात् , न स्वतन्त्रः । ननु प्रकरणाल्लिङ्गं बलीयः — सत्यमेवमेतत् । लिङ्गमपि तु एवंजातीयकं न प्रकरणाद्बलीयो भवति । अन्यार्थदर्शनं हि एतत् , साम्पादिकाग्निप्रशंसारूपत्वात् । अन्यार्थदर्शनं च असत्यामन्यस्यां प्राप्तौ गुणवादेनाप्युपपद्यमानं न प्रकरणं बाधितुमुत्सहते ।
तस्मात् साम्पादिका अप्येतेऽग्नयः प्रकरणात्क्रियानुप्रवेशिन एव स्युः । मानसवत् — यथा दशरात्रस्य दशमेऽहनि अविवाक्ये पृथिव्या पात्रेण समुद्रस्य सोमस्य प्रजापतये देवतायै गृह्यमाणस्य ग्रहणासादनहवनाहरणोपह्वानभक्षणानि मानसान्येव आम्नायन्ते, स च मानसोऽपि ग्रहकल्पः क्रियाप्रकरणात् क्रियाशेष एव भवति — एवमयमप्यग्नि कल्प इत्यर्थः ॥ ४५ ॥
अतिदेशाच्च ॥ ४६ ॥
அதிதேசாச்ச ॥ 46 ॥
अतिदेशश्च एषामग्नीनां क्रियानुप्रवेशमुपोद्बलयति — ‘एव तावान्यावानसौ पूर्वः’ इति । सति हि सामान्ये अतिदेशः प्रवर्तते । ततश्च पूर्वेण इष्टकाचितेन क्रियानुप्रवेशिना अग्निना साम्पादिकानग्नीनतिदिशन् क्रियानुप्रवेशमेव एषां द्योतयति ॥ ४६ ॥
विद्यैव तु निर्धारणात् ॥ ४७ ॥
வித்3யைவ து நிர்தா4ரணாத் ॥ 47 ॥
तुशब्दः पक्षं व्यावर्तयति । विद्यात्मका एव एते स्वतन्त्रा मनश्चिदादयोऽग्नयः स्युः, न क्रियाशेषभूताः । तथा हि निर्धारयति — ‘ते हैते विद्याचित एव’ इति, ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति च ॥ ४७ ॥
दर्शनाच्च ॥ ४८ ॥
தார்சநாச்ச ॥ 48 ॥
ननु लिङ्गमपि असत्यामन्यस्यां प्राप्तौ असाधकं कस्यचिदर्थस्येति, अपास्य तत् , प्रकरणसामर्थ्यात् क्रियाशेषत्वमध्यवसितम् — इत्यत उत्तरं पठति —
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ४९ ॥
ச்ருத்யாதிபலீயஸ்த்வாச்ச ந பாத: ॥ 49 ॥
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्यः, श्रुत्यादेर्बलीयस्त्वात् । बलीयांसि हि प्रकरणात् श्रुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे । तानि च इह स्वातन्त्र्यपक्षं साधयन्ति दृश्यन्ते । कथम् ? श्रुतिस्तावत् — ‘ते हैते विद्याचित एव’ इति । तथा लिङ्गम् — ‘सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वपते’ इति । तथा वाक्यमपि — ‘विद्यया हैवैत एवंविदश्चिता भवन्ति’ इति ।
‘विद्याचित एव’ इति हि सावधारणा इयं श्रुतिः क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् । ननु अबाह्यसाधनत्वाभिप्रायमिदमवधारणं भविष्यति — नेत्युच्यते; तदभिप्रायतायां हि ‘विद्याचितः’ इति इयता स्वरूपसङ्कीर्तनेनैव कृतत्वात् , अनर्थकमवधारणं भवेत् — स्वरूपमेव हि एषाम् अबाह्यसाधनत्वमिति । अबाह्यसाधनत्वेऽपि तु मानसग्रहवत् क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलम् अवधारणम् अर्थवद्भविष्यति ।
तथा ‘स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्ति’ इति सातत्यदर्शनम् एषां स्वातन्त्र्येऽवकल्पते — यथा साम्पादिके वाक्प्राणमयेऽग्निहोत्रे
‘प्राणं तदा वाचि जुहोति … वाचं तदा प्राणे जुहोति’ (कौ. उ. २ । ५)
इति च उक्त्वा उच्यते — ‘एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोति’ इति — तद्वत् । क्रियानुप्रवेशे तु क्रियाप्रयोगस्य अल्पकालत्वेन न सातत्येन एषां प्रयोगः कल्पेत ।
न च इदमर्थवादमात्रमिति न्याय्यम् । यत्र हि विस्पष्टो विधायको लिङादिः उपलभ्यते, युक्तं तत्र सङ्कीर्तनमात्रस्यार्थवादत्वम् । इह तु विस्पष्टविध्यन्तरानुपलब्धेः सङ्कीर्तनादेव एषां विज्ञानविधानं कल्पनीयम् । तच्च यथासङ्कीर्तनमेव कल्पयितुं शक्यत इति, सातत्यदर्शनात् तथाभूतमेव कल्प्यते । ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धिः । एतेन
‘तद्यत्किञ्चेमानि भूतानि मनसा सङ्कल्पयन्ति तेषामेव सा कृतिः’(श॰ब्रा॰ १०-५-३-३)
इत्यादि व्याख्यातम् । तथा वाक्यमपि ‘एवंविदे’ इति पुरुषविशेषसम्बन्धमेव एषामाचक्षाणं न क्रतुसम्बन्धं मृष्यते । तस्मात् स्वातन्त्र्यपक्ष एव ज्यायानिति ॥ ४९ ॥
अनुबन्धादिभ्यः प्रज्ञान्तरपृथक्त्ववद्दृष्टश्च तदुक्तम् ॥ ५० ॥
அனுபந்தாதிப்புய: ப்ரஜ்ஞாந்தரப்ருதக்த்வ வத்த்ருஷ்டச்ச ததுக்தம் ॥ 50 ॥
इतश्च प्रकरणमुपमृद्य स्वातन्त्र्यं मनश्चिदादीनां प्रतिपत्तव्यम् , यत् क्रियावयवान् मनआदिव्यापारेष्वनुबध्नाति —
‘ते मनसैवाधीयन्त मनसाचीयन्त मनसैव ग्रहा अगृह्यन्त मनसास्तुवन्मनसाशंसन्यत्किञ्च यज्ञे कर्म क्रियते यत्किञ्च यज्ञियं कर्म मनसैव तेषु तन्मनोमयेषु मनश्चित्सु मनोमयमेव क्रियते’(श॰ब्रा॰ १०-५-३-३)
इत्यादिना । सम्पत्फलो हि अयमनुबन्धः । न च प्रत्यक्षाः क्रियावयवाः सन्तः सम्पदा लिप्सितव्याः ।
न च अत्र उद्गीथाद्युपासनवत् क्रियाङ्गसम्बन्धात् तदनुप्रवेशित्वमाशङ्कितव्यम् , श्रुतिवैरूप्यात् । न हि अत्र क्रियाङ्गं किञ्चिदादाय तस्मिन् अदो नामाध्यवसितव्यमिति वदति । तु मनोवृत्तिभेदान् आदाय तेष्वग्नित्वं ग्रहादींश्च कल्पयति, पुरुषयज्ञादिवत् । संख्या च इयं पुरुषायुषस्याहःसु दृष्टा सती तत्सम्बन्धिनीषु मनोवृत्तिष्वारोप्यत इति द्रष्टव्यम् । एवमनुबन्धात्स्वातन्त्र्यं मनश्चिदादीनाम् ।
आदिशब्दात् अतिदेशाद्यपि यथासम्भवं योजयितव्यम् । तथा हि —
‘तेषामेकैक एव तावान्यावानसौ पूर्वः’(श॰ब्रा॰ १०-५-३-३)
इति क्रियामयस्याग्नेर्माहात्म्यं ज्ञानमयानामेकैकस्य अतिदिशन् क्रियायामनादरं दर्शयति । न च सत्येव क्रियासम्बन्धे विकल्पः पूर्वेणोत्तरेषामिति शक्यं वक्तुम् । न हि, येन व्यापारेण आहवनीयधारणादिना पूर्वः क्रियायामुपकरोति, तेन उत्तरे उपकर्तुं शक्नुवन्ति । यत्तु पूर्वपक्षेऽप्यतिदेश उपोद्बलक इत्युक्तम् — सति हि सामान्येऽतिदेशः प्रवर्तत इति, तत् अस्मत्पक्षेऽप्यग्नित्वसामान्येनातिदेशसम्भवात्प्रत्युक्तम् — अस्ति हि साम्पादिकानामप्यग्नीनामग्नित्वमिति ।
श्रुत्यादीनि च कारणानि दर्शितानि । एवमनुबन्धादिभ्यः कारणेभ्यः स्वातन्त्र्यं मनश्चिदादीनाम् । प्रज्ञान्तरपृथक्त्ववत् — यथा प्रज्ञान्तराणि शाण्डिल्यविद्याप्रभृतीनि स्वेन स्वेन अनुबन्धेन अनुबध्यमानानि पृथगेव कर्मभ्यः प्रज्ञान्तरेभ्यश्च स्वतन्त्राणि भवन्ति, एवमिति । दृष्टश्च अवेष्टेः राजसूयप्रकरणपठितायाः प्रकरणादुत्कर्षः — वर्णत्रयानुबन्धात् । राजयज्ञत्वाच्च राजसूयस्य । तदुक्तं प्रथमे काण्डे —
‘क्रत्वर्थायामिति चेन्न वर्णत्रयसंयोगात्’ (जै. सू. ११ । ४ । ९)
इति ॥ ५० ॥
न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॥ ५१ ॥
ந ஸாமாந்யாதப்யுபலப்தேர்ம்ருத்யு வந்நஹி லோகாபத்தி ॥ 51 ॥
यदुक्तं मानसवदिति, तत्प्रत्युच्यते । न मानसग्रहसामान्यादपि मनश्चिदादीनां क्रियाशेषत्वं कल्प्यम् , पूर्वोक्तेभ्यः श्रुत्यादिहेतुभ्यः केवलपुरुषार्थत्वोपलब्धेः । न हि किञ्चित् कस्यचित् केनचित् सामान्यं न सम्भवति । न च तावता यथास्वं वैषम्यं निवर्तते; मृत्युवत् — यथा ‘स वा एष एव मृत्युर्य एष एतस्मिन्मण्डले पुरुषः’ इति,
‘अग्निर्वै मृत्युः’ (बृ. उ. ३ । २ । १०)
इति च अग्न्यादित्यपुरुषयोः समानेऽपि मृत्युशब्दप्रयोगे, न अत्यन्तसाम्यापत्तिः । यथा च
‘असौ वाव लोको गौतमाग्निस्तस्यादित्य एव समित्’ (छा. उ. ५ । ४ । १)
इत्यत्र न समिदादिसामान्यात् लोकस्याग्निभावापत्तिः — तद्वत् ॥ ५१ ॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ५२ ॥
பரேண ச சப்தஸ்ய தாத் வித்4யம் பூயஸ்த்வாத்த்வனுபந்த: ॥ 52 ॥
परस्तादपि ‘अयं वाव लोक एषोऽग्निश्चितः’ इत्यस्मिन् अनन्तरे ब्राह्मणे, ताद्विध्यं केवलविद्याविधित्वम् शब्दस्य प्रयोजनं लक्ष्यते, न शुद्धकर्माङ्गविधित्वम्; तत्र हि —
‘विद्यया तदारोहन्ति यत्र कामाः परागताः । न तत्र दक्षिणा यन्ति नाविद्वांसस्तपस्विनः’(श॰ब्रा॰ १०-५-४-१६)
इत्यनेन श्लोकेन केवलं कर्म निन्दन् विद्यां च प्रशंसन् इदं गमयति ।
तथा पुरस्तादपि ‘यदेतन्मण्डलं तपति’ इत्यस्मिन्ब्राह्मणे विद्याप्रधानत्वमेव लक्ष्यते — ‘सोऽमृतो भवति मृत्युर्ह्यस्यात्मा भवति’ इति विद्याफलेनैव उपसंहारात् न कर्मप्रधानता । तत्सामान्यात् इहापि तथात्वम् । भूयांसस्तु अग्न्यवयवाः सम्पादयितव्या विद्यायाम् — इत्येतस्मात्कारणात् अग्निना अनुबध्यते विद्या, न कर्माङ्गत्वात् । तस्मात् मनश्चिदादीनां केवलविद्यात्मकत्वसिद्धिः ॥ ५२ ॥
एक आत्मनः शरीरे भावात् ॥ ५३ ॥
ஏக ஆத்மந: சரீரே பாவாத் ॥ 53 ॥
इह देहव्यतिरिक्तस्य आत्मनः सद्भावः समर्थ्यते, बन्धमोक्षाधिकारसिद्धये । न हि असति देहव्यतिरिक्त आत्मनि परलोकफलाश्चोदना उपपद्येरन् । कस्य वा ब्रह्मात्मत्वमुपदिश्येत । ननु शास्त्रप्रमुख एव प्रथमे पादे शास्त्रफलोपभोगयोग्यस्य देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुक्तम् — सत्यमुक्तं भाष्यकृता । न तु तत्रात्मास्तित्वे सूत्रमस्ति । इह तु स्वयमेव सूत्रकृता तदस्तित्वमाक्षेपपुरःसरं प्रतिष्ठापितम् । इत एव च आकृष्य आचार्येण शबरस्वामिना प्रमाणलक्षणे वर्णितम् । अत एव च भगवता उपवर्षेण प्रथमे तन्त्रे आत्मास्तित्वाभिधानप्रसक्तौ शारीरके वक्ष्याम इत्युद्धारः कृतः ।
इह च इदं चोदनालक्षणेषु उपासनेषु विचार्यमाणेषु आत्मास्तित्वं विचार्यते, कृत्स्नशास्त्रशेषत्वप्रदर्शनाय । अपि च पूर्वस्मिन्नधिकरणे प्रकरणोत्कर्षाभ्युपगमेन मनश्चिदादीनां पुरुषार्थत्वं वर्णितम् । कोऽसौ पुरुषः, यदर्था एते मनश्चिदादयः — इत्यस्यां प्रसक्तौ इदं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वमुच्यते । सूत्रम् — आक्षेपपूर्विका हि परिहारोक्तिः विवक्षितेऽर्थे स्थूणानिखननन्यायेन दृढां बुद्धिमुत्पादयेदिति ॥
अत्र एके देहमात्रात्मदर्शिनो लोकायतिकाः देहव्यतिरिक्तस्य आत्मनोऽभावं मन्यमानाः, समस्तव्यस्तेषु बाह्येषु पृथिव्यादिष्वदृष्टमपि चैतन्यं शरीराकारपरिणतेषु भूतेषु स्यादिति — सम्भावयन्तस्तेभ्यश्चैतन्यम् , मदशक्तिवत् विज्ञानम् चैतन्यविशिष्टः कायः पुरुषः — इति च आहुः । न स्वर्गगमनाय अपवर्गगमनाय वा समर्थो देहव्यतिरिक्त आत्मा अस्ति, यत्कृतं चैतन्यं देहे स्यात् । देह एव तु चेतनश्च आत्मा च इति प्रतिजानते । हेतुं च आचक्षते — शरीरे भावादिति । यद्धि यस्मिन्सति भवति, असति च न भवति, तत् तद्धर्मत्वेनाध्यवसीयते — यथा अग्निधर्मावौष्ण्यप्रकाशौ ।
प्राणचेष्टाचैतन्यस्मृत्यादयश्च आत्मधर्मत्वेनाभिमता आत्मवादिनाम् — तेऽपि अन्तरेव देहे उपलभ्यमानाः बहिश्च अनुपलभ्यमानाः असिद्धे देहव्यतिरिक्ते धर्मिणि देहधर्मा एव भवितुमर्हन्ति । तस्मादव्यतिरेको देहादात्मन इति ॥ ५३ ॥
एवं प्राप्ते, ब्रूमः —
व्यतिरेकस्तद्भावाभावित्वान्न तूपलब्धिवत् ॥ ५४ ॥
வ்யதிரேகஸ்தத்பாவாபாவித்வாந்நதூ பலப்திவத் ॥ 54 ॥
न त्वेतदस्ति — यदुक्तमव्यतिरेको देहादात्मन इति । व्यतिरेक एव अस्य देहाद्भवितुमर्हति । तद्भावाभावित्वात् । यदि देहभावे भावात् देहधर्मत्वम् आत्मधर्माणां मन्येत — ततो देहभावेऽपि अभावात् अतद्धर्मत्वमेव एषां किं न मन्येत ? देहधर्मवैलक्षण्यात् । ये हि देहधर्मा रूपादयः, ते यावद्देहं भवन्ति । प्राणचेष्टादयस्तु सत्यपि देहे मृतावस्थायां न भवन्ति । देहधर्माश्च रूपादयः परैरप्युपलभ्यन्ते, न त्वात्मधर्माश्चैतन्यस्मृत्यादयः ।
अपि च सति तावत् देहे जीवदवस्थायाम् एषां भावः शक्यते निश्चेतुम् , न तु असत्यभावः । पतितेऽपि कदाचिदस्मिन्देहे देहान्तरसञ्चारेण आत्मधर्मा अनुवर्तेरन् । संशयमात्रेणापि परपक्षः प्रतिषिध्यते । किमात्मकं च पुनरिदं चैतन्यं मन्यते, यस्य भूतेभ्य उत्पत्तिमिच्छति — इति परः पर्यनुयोक्तव्यः । न हि भूतचतुष्टयव्यतिरेकेण लोकायतिकः किञ्चित् तत्त्वं प्रत्येति । यत् अनुभवनं भूतभौतिकानाम् , तत् चैतन्यमिति चेत् , तर्हि विषयत्वात्तेषाम् न तद्धर्मत्वमश्नुवीत, स्वात्मनि क्रियाविरोधात् । न हि अग्निरुष्णः सन् स्वात्मानं दहति, न हि नटः शिक्षितः सन् स्वस्कन्धमधिरोक्ष्यति ।
न हि भूतभौतिकधर्मेण सता चैतन्येन भूतभौतिकानि विषयीक्रियेरन् । न हि रूपादिभिः स्वरूपं पररूपं वा विषयीक्रियते । विषयीक्रियन्ते तु बाह्याध्यात्मिकानि भूतभौतिकानि चैतन्येन । अतश्च यथैव अस्या भूतभौतिकविषयाया उपलब्धेर्भावोऽभ्युपगम्यते, एवं व्यतिरेकोऽपि अस्यास्तेभ्यः अभ्युपगन्तव्यः । उपलब्धिस्वरूप एव च न आत्मेति आत्मनो देहव्यतिरिक्तत्वम् । नित्यत्वं च उपलब्धेः, ऐकरूप्यात् , ‘अहम् इदम् अद्राक्षम्’ इति च अवस्थान्तरयोगेऽप्युपलब्धृत्वेन प्रत्यभिज्ञानात् , स्मृत्याद्युपपत्तेश्च ।
यत्तूक्तम् — शरीरे भावाच्छरीरधर्म उपलब्धिरिति, तत् वर्णितेन प्रकारेण प्रत्युक्तम् । अपि च सत्सु प्रदीपादिषु उपकरणेषु उपलब्धिर्भवति असत्सु न भवति — न च एतावता प्रदीपादिधर्म एव उपलब्धिर्भवति । एवं सति देहे उपलब्धिर्भवति, असति च न भवतीति — न देहधर्मो भवितुमर्हति । उपकरणत्वमात्रेणापि प्रदीपादिवत् देहोपयोगोपपत्तेः । न च अत्यन्तं देहस्य उपलब्धावुपयोगोऽपि दृश्यते, निश्चेष्टेऽप्यस्मिन्देहे स्वप्ने नानाविधोपलब्धिदर्शनात् । तस्मादनवद्यं देहव्यतिरिक्तस्य आत्मनोऽस्तित्वम् ॥ ५४ ॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ५५ ॥
அங்காவபத்தாஸ்து ந சாகாஸு ஹி ப்ரதிவேதம் ॥ 55 ॥
समाप्ता प्रासङ्गिकी कथा; सम्प्रति प्रकृतामेवानुवर्तामहे ।
‘ओमित्येतदक्षरमुद्गीथमुपासीत’ (छा. उ. १ । १ । १)
‘लोकेषु पञ्चविधꣳ सामोपासीत’ (छा. उ. २ । २ । १)
‘उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी’ ‘अयं वाव लोकः’
‘एषोऽग्निश्चितः’(श॰ब्रा॰ १०-१-२-२)
इत्येवमाद्या ये उद्गीथादिकर्माङ्गावबद्धाः प्रत्ययाः प्रतिवेदं शाखाभेदेषु विहिताः, ते तत्तच्छाखागतेष्वेव उद्गीथादिषु भवेयुः, अथवा सर्वशाखागतेषु — इति विशयः । प्रतिशाखं च स्वरादिभेदात् उद्गीथादिभेदानुपादाय अयमुपन्यासः ।
किं तावत्प्राप्तम् ? स्वशाखागतेष्वेव उद्गीथादिषु विधीयेरन्निति । कुतः ? सन्निधानात् — ‘उद्गीथमुपासीत’ इति हि सामान्यविहितानां विशेषाकाङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेण आकाङ्क्षानिवृत्तेः, तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाने कारणं नास्ति । तस्मात्प्रतिशाखं व्यवस्थेत्येवं प्राप्ते, ब्रवीति —
अङ्गावबद्धास्त्विति । तुशब्दः पक्षं व्यावर्तयति । नैते प्रतिवेदं स्वशाखास्वेव व्यवतिष्ठेरन् , अपि तु सर्वशाखास्वनुवर्तेरन् । कुतः ? उद्गीथादिश्रुत्यविशेषात् । स्वशाखाव्यवस्थायां हि
‘उद्गीथमुपासीत’ (छा. उ. १ । १ । १)
इति सामान्यश्रुतिरविशेषप्रवृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् । न चैतन्न्याय्यम् । सन्निधानाद्धि श्रुतिर्बलीयसी । न च सामान्याश्रयः प्रत्ययो नोपपद्यते । तस्मात् स्वरादिभेदे सत्यपि उद्गीथत्वाद्यविशेषात् सर्वशाखागतेष्वेव उद्गीथादिषु एवंजातीयकाः प्रत्ययाः स्युः ॥ ५५ ॥
मन्त्रादिवद्वाऽविरोधः ॥ ५६ ॥
மந்த்ராதிவத்வாஅவிரோத: ॥ 56 ॥
अथवा नैवात्र विरोधः शङ्कितव्यः — कथमन्यशाखागतेषु उद्गीथादिषु अन्यशाखाविहिताः प्रत्यया भवेयुरिति । मन्त्रादिवत् अविरोधोपपत्तेः ।
तथा हि — मन्त्राणां कर्मणां गुणानां च शाखान्तरोत्पन्नानामपि शाखान्तरे उपसङ्ग्रहो दृश्यते । येषामपि हि शाखिनाम् ‘कुटरुरसि’ इत्यश्मादानमन्त्रो नाम्नातः, तेषामपि असौ विनियोगो दृश्यते — ‘कुक्कुटोऽसीत्यश्मानमादत्ते, कुटरुरसीति वा’ इति । येषामपि समिदादयः प्रयाजा नाम्नाताः, तेषामपि तेषु गुणविधिराम्नायते — ‘ऋतवो वै प्रयाजाः समानत्र होतव्याः’ इति । तथा येषामपि ‘अजोऽग्नीषोमीयः’ इति जातिविशेषोपदेशो नास्ति, तेषामपि तद्विषयो मन्त्रवर्ण उपलभ्यते — ‘छागस्य वपाया मेदसोऽनुब्रूहि’ इति । तथा वेदान्तरोत्पन्नानामपि
‘वेरध्वरम्’(ता॰ब्रा॰२१-१०-११)
इत्येवमादिमन्त्राणां वेदान्तरे परिग्रहो दृष्टः; तथा बह्वृचपठितस्य सूक्तस्य
‘यो जात एव प्रथमो मनस्वान्’ (ऋ. सं. २ । १२ । १)
इत्यस्य, अध्वर्यवे ‘सजनीयꣳ शस्यम्’ इत्यत्र परिग्रहो दृष्टः ।
तस्मात् यथा आश्रयाणां कर्माङ्गानां सर्वत्रानुवृत्तिः, एवम् आश्रितानामपि प्रत्ययानाम् — इत्यविरोधः ॥ ५६ ॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा हि दर्शयति ॥ ५७ ॥
பூம்ந: க்ரதுவஜ்ஜயாயஸ்த்வம் ததா ஹி தர்சயதி ॥ 57 ॥
ततोऽभिधीयते — भूम्नः पदार्थोपचयात्मकस्य समस्तस्य वैश्वानरोपासनस्य ज्यायस्त्वं प्राधान्यं अस्मिन्वाक्ये विवक्षितं भवितुमर्हति, न प्रत्येकम् अवयवोपासनानामपि; क्रतुवत् — यथा क्रतुषु दर्शपूर्णमासप्रभृतिषु सामस्त्येन साङ्गप्रधानप्रयोग एव एको विवक्ष्यते, न व्यस्तानामपि प्रयोगः प्रयाजादीनाम् , नाप्येकदेशाङ्गयुक्तस्य प्रधानस्य — तद्वत् । कुत एतत् — भूमैव ज्यायानिति ? तथा हि श्रुतिः भूम्नो ज्यायस्त्वं दर्शयति, एकवाक्यतावगमात् । एकं हि इदं वाक्यं वैश्वानरविद्याविषयं पौर्वापर्यालोचनात्प्रतीयते ।
यत्तु प्रत्येकं सुतेजःप्रभृतिषु फलभेदश्रवणम् , तत् एवं सति अङ्गफलानि प्रधान एवाभ्युपगतानि — इति द्रष्टव्यम् । तथा ‘उपास्से’ इत्यपि प्रत्यवयवमाख्यातश्रवणं पराभिप्रायानुवादार्थम् , न व्यस्तोपासनविधानार्थम् । तस्मात्समस्तोपासनपक्ष एव श्रेयानिति ॥
केचित्तु अत्र समस्तोपासनपक्षं ज्यायांसं प्रतिष्ठाप्य, ज्यायस्त्ववचनादेव किल व्यस्तोपासनपक्षमपि सूत्रकारोऽनुमन्यत इति कल्पयन्ति । तदयुक्तम् , एकवाक्यतावगतौ सत्यां वाक्यभेदकल्पनस्यान्याय्यत्वात् ,
‘मूर्धा ते व्यपतिष्यत्’ (छा. उ. ५ । १२ । २)
इति च एवमादिनिन्दाविरोधात् , स्पष्टे च उपसंहारस्थे समस्तोपासनावगमे तदभावस्य पूर्वपक्षे वक्तुमशक्यत्वात् , सौत्रस्य च ज्यायस्त्ववचनस्य प्रमाणवत्त्वाभिप्रायेणापि उपपद्यमानत्वात् ॥ ५७ ॥
नाना शब्दादिभेदात् ॥ ५८ ॥
நாநா சப்தாதிபேதாத் ॥ 58 ॥
नानेति । वेद्याभेदेऽपि एवंजातीयका विद्या भिन्ना भवितुमर्हति । कुतः ? शब्दादिभेदात् । भवति हि शब्दभेदः — ‘वेद’ ‘उपासीत’
‘स क्रतुं कुर्वीत’ (छा. उ. ३ । १४ । १)
इत्येवमादिः । शब्दभेदश्च कर्मभेदहेतुः समधिगतः पुरस्तात् ‘शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात्’ इति । आदिग्रहणात् गुणादयोऽपि यथासम्भवं भेदहेतवो योजयितव्याः ।
ननु ‘वेद’ इत्यादिषु शब्दभेद एव अवगम्यते, न ‘यजति’ इत्यादिवत् अर्थभेदः, सर्वेषामेवैषां मनोवृत्त्यर्थत्वाभेदात् , अर्थान्तरासम्भवाच्च । तत् कथं शब्दभेदाद्विद्याभेद इति? नैष दोषः, मनोवृत्त्यर्थत्वाभेदेऽपि अनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदोपपत्तेः । एकस्यापीश्वरस्य उपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणाः शिष्यन्ते । तथा एकस्यापि प्राणस्य तत्र तत्र उपास्यस्य अभेदेऽपि अन्यादृग्गुणोऽन्यत्रोपासितव्यः अन्यादृग्गुणश्चान्यत्र — इत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते ।
न च अत्र एको विद्याविधिः, इतरे गुणविधय इति शक्यं वक्तुम् — विनिगमनायां हेत्वभावात् , अनेकत्वाच्च प्रतिप्रकरणं गुणानां प्राप्तविद्यानुवादेन विधानानुपपत्तेः । न च अस्मिन्पक्षे समानाः सन्तः सत्यकामादयो गुणा असकृच्छ्रावयितव्याः । प्रतिप्रकरणं च — इदंकामेनेदमुपासितव्यम् , इदंकामेन च इदम् — इति नैराकाङ्क्ष्यावगमात् नैकवाक्यतापत्तिः ।
न च अत्र वैश्वानरविद्यायामिव समस्तचोदना अपरा अस्ति, यद्बलेन प्रतिप्रकरणवर्तीन्यवयवोपासनानि भूत्वा एकवाक्यताम् इयुः । वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङ्कुशे प्रतिज्ञायमाने, समस्तगुणोपसंहारोऽशक्यः प्रतिज्ञायेत । तस्मात् सुष्ठु उच्यते — नाना शब्दादिभेदादिति । स्थिते च एतस्मिन्नधिकरणे, सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥ ५८ ॥
विकल्पोऽविशिष्टफलत्वात् ॥ ५९ ॥
விகல்போஅவிசிஷ்டபலத்வாத் ॥ 59 ॥
स्थिते विद्याभेदे विचार्यते — किमासामिच्छया समुच्चयो विकल्पो वा स्यात् , अथवा विकल्प एव नियमेनेति । तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किञ्चित्कारणमस्ति । ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते — नैष दोषः । नित्यताश्रुतिर्हि तत्र कारणम् । नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति । तस्मान्न समुच्चयनियमः । नापि विकल्पनियमः, विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात् ।
तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् , यावदुपास्यविषयसाक्षात्करणेन तत्फलप्राप्तिरिति ॥ ५९ ॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ६० ॥
காம்யாஸ்து யதாகாமம் ஸமுச்சீயேரந்ந வா பூர்வஹேத்வ பாவாத் ॥ 60 ॥
अङ्गेषु यथाश्रयभावः ॥ ६१ ॥
அங்கே ஷு யதாஷ்ரயபா,வ: ॥ 61 ॥
कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः, किं ते समुच्चीयेरन् , किं वा यथाकामं स्युरिति संशये — यथाश्रयभाव इत्याह । यथैव एषामाश्रयाः स्तोत्रादयः सम्भूय भवन्ति, एवं प्रत्यया अपि, आश्रयतन्त्रत्वात्प्रत्ययानाम् ॥ ६१ ॥
शिष्टेश्च ॥ ६२ ॥
சிஷ்டேச்ச ॥ 62 ॥
यथा वा आश्रयाः स्तोत्रादयः त्रिषु वेदेषु शिष्यन्ते, एवमाश्रिता अपि प्रत्ययाः — नोपदेशकृतोऽपि कश्चिद्विशेषः अङ्गानां तदाश्रयाणां च प्रत्ययानामित्यर्थः ॥ ६२ ॥
समाहारात् ॥ ६३ ॥
ஸமாஹாராத் ॥ 63 ॥
‘होतृषदनाद्धैवापि दुरुद्गीतमनुसमाहरति’ (छा. उ. १ । ५ । ५)
इति च — प्रणवोद्गीथैकत्वविज्ञानमाहात्म्यात् उद्गाता स्वकर्मण्युत्पन्नं क्षतं हौत्रात्कर्मणः प्रतिसमादधाति — इति ब्रुवन् वेदान्तरोदितस्य प्रत्ययस्य वेदान्तरोदितपदार्थसम्बन्धसामान्यात् सर्ववेदोदितप्रत्ययोपसंहारं सूचयति — इति लिङ्गदर्शनम् ॥ ६३ ॥
गुणसाधारण्यश्रुतेश्च ॥ ६४ ॥
குணஸாதாரண்யச்ருதேச்ச ॥ 64 ॥
अथवा गुणसाधारण्यश्रुतेश्चेति । यदीमे कर्मगुणा उद्गीथादयः सर्वे सर्वप्रयोगसाधारणा न स्युः, न स्यात् ततः तदाश्रयाणां प्रत्ययानां सहभावः । ते तु उद्गीथादयः सर्वाङ्गग्राहिणा प्रयोगवचनेन सर्वे सर्वप्रयोगसाधारणाः श्राव्यन्ते । ततश्च आश्रयसहभावात्प्रत्ययसहभाव इति ॥ ६४ ॥
न वा तत्सहभावाश्रुतेः ॥ ६५ ॥
ந வா தத்ஸஹபாவாச்ருதே: ॥ 65 ॥
न वेति पक्षव्यावर्तनम् । न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति । कुतः ? तत्सहभावाश्रुतेः । यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते — ‘ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति, स्तुतमनुशंसति, प्रस्तोतः साम गाय, होतरेतद्यज’ इत्यादिना । नैवमुपासनानां सहभावश्रुतिरस्ति ।
ननु प्रयोगवचन एषां सहभावं प्रापयेत् — नेति ब्रूमः, पुरुषार्थत्वादुपासनानाम् । प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् । उद्गीथाद्युपासनानि क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचाम
‘पृथग्घ्यप्रतिबन्धः फलम्’ (ब्र. सू. ३ । ३ । ४२)
इत्यत्र । अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् — यदेकेषां क्रत्वर्थत्वम् , एकेषां पुरुषार्थत्वमिति ।
परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य, श्रुतिन्यायाभावात् । न च प्रतिप्रयोगम् आश्रयतथात्वं विज्ञातुं शक्यम् , अतत्प्रयुक्तत्वादुपासनानाम् — आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् । न त्वाश्रयसहभावेन सहभावनियममर्हन्ति, तत्सहभावाश्रुतेरेव । तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन् ॥ ६५ ॥
दर्शनाच्च ॥ ६६ ॥
தார்சநாச்ச ॥ 66 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः ॥
अथेदानीम् औपनिषदमात्मज्ञानं किमधिकारिद्वारेण कर्मण्येवानुप्रविशति, आहोस्वित् स्वतन्त्रमेव पुरुषार्थसाधनं भवतीति मीमांसमानः, सिद्धान्तेनैव तावदुपक्रमते —
पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ १ ॥
புருஷார்தோத: சப்தாதிதி பாதராயண: ॥ 1 ॥
अथात्र प्रत्यवतिष्ठते —
शेषत्वात्पुरुषार्थवादो यथान्येष्विति जैमिनिः ॥ २ ॥
சே ஷத்வாத்புருஷார்தவாதோ யதாஅந்யேஷ்விதி ஜைமிதி: ॥ 2 ॥
कर्तृत्वेन आत्मनः कर्मशेषत्वात् , तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसम्बन्ध्येव — इत्यतः, तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः, सा अर्थवादः — इति जैमिनिराचार्यो मन्यते । यथा अन्येषु द्रव्यसंस्कारकर्मसु
‘यस्य पर्णमयी जुहूर्भवति न स पापꣳ श्लोकꣳ शृणोति’ (तै॰सं॰ ३-५-७)
‘यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते’(तै॰सं॰ ६-१-१)
‘यत्प्रयाजानूयाजा इज्यन्ते, वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानस्य भ्रातृव्याभिभूत्यै’(तै॰सं॰ २-६-१)
इत्येवंजातीयका फलश्रुतिः अर्थवादः — तद्वत् ।
कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते ? कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसम्बन्ध इति चेत् , न, वाक्याद्विनियोगानुपपत्तेः; अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसम्बन्धोऽवकल्पते । कर्ता तु व्यभिचारि द्वारम् , लौकिकवैदिककर्मसाधारण्यात् । तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसम्बन्धसिद्धिरिति —
न, व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् । न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते, सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः । वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति, उपयुज्यते व्यतिरेकविज्ञानम् ।
ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् — न, प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वेनोपदेशात् । अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति । ननु तत्र तत्र प्रसाधितमेतत् — अधिकमसंसारि ब्रह्म जगत्कारणम् । तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति — सत्यं प्रसाधितम् । तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय ॥ २ ॥
आचारदर्शनात् ॥ ३ ॥
ஆசாரதர்சநாத் ॥ 3 ॥
तच्छ्रुतेः ॥ ४ ॥
தச்ச்ருதே ॥ 4 ॥
समन्वारम्भणात् ॥ ५ ॥
ஸமந்வாரம்பணாத் ॥ 5 ॥
तद्वतो विधानात् ॥ ६ ॥
தத்வதோ விதாநாத் ॥ 6 ॥
नियमाच्च ॥ ७ ॥
நியமாச்ச ॥ 7 ॥
एवं प्राप्ते, प्रतिविधत्ते —
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ८ ॥
அதிகோபதேசாத்து பாதராயணஸ்யைவம் தத்தார்சநாத் ॥ 8 ॥
तुशब्दात् पक्षो विपरिवर्तते । यदुक्तम्
‘शेषत्वात्पुरुषार्थवादः’ (ब्र. सू. ३ । ४ । २)
इति, तत् नोपपद्यते । कस्मात् ? अधिकोपदेशात् । यदि संसार्येव आत्मा शारीरः कर्ता भोक्ता च शरीरमात्रव्यतिरेकेण वेदान्तेषु उपदिष्टः स्यात् , ततो वर्णितेन प्रकारेण फलश्रुतेरर्थवादत्वं स्यात् । अधिकस्तावत् शारीरादात्मनः असंसारी ईश्वरः कर्तृत्वादिसंसारिधर्मरहितोऽपहतपाप्मत्वादिविशेषणः परमात्मा वेद्यत्वेनोपदिश्यते वेदान्तेषु ।
तुल्यं तु दर्शनम् ॥ ९ ॥
துல்யம் து தர்சநம் ॥ 9 ॥
असार्वत्रिकी ॥ १० ॥
அஸார்வத்ரிகீ ॥ 10 ॥
विभागः शतवत् ॥ ११ ॥
விபாக: சதவத் ॥ 11 ॥
यदप्युक्तम् —
‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २)
इत्येतत् समन्वारम्भवचनम् अस्वातन्त्र्ये विद्याया लिङ्गमिति, तत् प्रत्युच्यते — विभागोऽत्र द्रष्टव्यः — विद्या अन्यं पुरुषमन्वारभते, कर्म अन्यमिति । शतवत् — यथा शतम् आभ्यां दीयतामित्युक्ते विभज्य दीयते — पञ्चाशदेकस्मै पञ्चाशदपरस्मै, तद्वत् ।
न च इदं समन्वारम्भवचनं मुमुक्षुविषयम् —
‘इति नु कामयमानः’ (बृ. उ. ४ । ४ । ६)
इति संसारिविषयत्वोपसंहारात् ,
‘अथाकामयमानः’ (बृ. उ. ४ । ४ । ६)
इति च मुमुक्षोः पृथगुपक्रमात् । तत्र संसारिविषये विद्या विहिता प्रतिषिद्धा च परिगृह्यते, विशेषाभावात् । कर्मापि विहितं प्रतिषिद्धं च, यथाप्राप्तानुवादित्वात् । एवं सति अविभागेनापि इदं समन्वारम्भवचनमवकल्पते ॥ ११ ॥
अध्ययनमात्रवतः ॥ १२ ॥
அத்யயநமாத்ரவத: ॥ 12 ॥
‘आचार्यकुलाद्वेदमधीत्य’ (छा. उ. ८ । १५ । १)
इत्यत्र अध्ययनमात्रस्य श्रवणात् अध्ययनमात्रवत एव कर्मविधिरित्यध्यवस्यामः । ननु एवं सति अविद्यत्वात् अनधिकारः कर्मसु प्रसज्येत — नैष दोषः । न वयम् अध्ययनप्रभवं कर्मावबोधनम् अधिकारकारणं वारयामः । किं तर्हि ? औपनिषदमात्मज्ञानम् स्वातन्त्र्येणैव प्रयोजनवत् प्रतीयमानम् न कर्माधिकारकारणतां प्रतिपद्यते — इत्येतावत्प्रतिपादयामः । यथा च न क्रत्वन्तरज्ञानं क्रत्वन्तराधिकारेण अपेक्ष्यते, एवमेतदपि द्रष्टव्यमिति ॥ १२ ॥
नाविशेषात् ॥ १३ ॥
நாவிசே ஷாத் ॥ 13 ॥
स्तुतयेऽनुमतिर्वा ॥ १४ ॥
ஸ்துதயேஅனுமதிர்வா ॥ 14 ॥
‘कुर्वन्नेवेह कर्माणि’ (ई. उ. २)
इत्यत्र अपरो विशेष आख्यायते । यद्यपि अत्र प्रकरणसामर्थ्यात् विद्वानेव — कुर्वन् — इति सम्बध्यते, तथापि विद्यास्तुतये कर्मानुज्ञानम् एतद्द्रष्टव्यम् ।
‘न कर्म लिप्यते नरे’ (ई. उ. २)
इति हि वक्ष्यति । एतदुक्तं भवति — यावज्जीवं कर्म कुर्वत्यपि विदुषि पुरुषे न कर्म लेपाय भवति, विद्यासामर्थ्यादिति — तदेवं विद्या स्तूयते ॥ १४ ॥
कामकारेण चैके ॥ १५ ॥
காமகாரேண சைகே ॥ 15 ॥
उपमर्दं च ॥ १६ ॥
உபமர்தம் ச ॥ 16 ॥
ऊर्ध्वरेतःसु च शब्दे हि ॥ १७ ॥
ஊர்த்வரேத: ஸு ச சப்தே ஹி ॥ 17 ॥
परामर्शं जैमिनिरचोदना चापवदति हि ॥ १८ ॥
பராமர்சம் ஜைமினிரசோதநா சாபவததி ஹி ॥ 18 ॥
‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १)
इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावाय उदाहृताः, न ते तत्प्रतिपादनाय प्रभवन्ति; यतः परामर्शम् एषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते, न विधिम् । कुतः ? न हि अत्र लिङादीनामन्यतमश्चोदनाशब्दोऽस्ति । अर्थान्तरपरत्वं च एषु प्रत्येकमुपलभ्यते ।
‘त्रयो धर्मस्कन्धाः’ इत्यत्र तावत् ‘यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्ति’ इति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं सङ्कीर्त्य, आत्यन्तिकफलतया ब्रह्मसंस्थता स्तूयते —
‘ब्रह्मसंस्थोऽमृतत्वमेति’ (छा. उ. २ । २३ । १)
इति । ननु परामर्शेऽपि आश्रमा गम्यन्ते एव — सत्यं गम्यन्ते; स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिः, न प्रत्यक्षश्रुतेः । अतश्च प्रत्यक्षश्रुतिविरोधे सति अनादरणीयास्ते भविष्यन्ति, अनधिकृतविषया वा ।
ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभिः परामृष्टम् — ‘यज्ञोऽध्ययनं दानमिति प्रथमः’ इति — सत्यमेवम्; तथापि तु गृहस्थं प्रत्येव अग्निहोत्रादीनां कर्मणां विधानात् श्रुतिप्रसिद्धमेव हि तदस्तित्वम्; तस्मात्स्तुत्यर्थ एव अयं परामर्शः, न चोदनार्थः । अपि च अपवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरम् — ‘वीरहा वा एष देवानां योऽग्निमुद्वासयते’
‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः’ (तै. उ. १ । ११ । १)
‘नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुः’ इत्येवमाद्या ।
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ १९ ॥
அனுஷ்டேயம் பாதராயண: ஸாம்யச்ருதே: ॥ 19 ॥
अनुष्ठेयम् आश्रमान्तरं बादरायण आचार्यो मन्यते — वेदेऽश्रवणादग्निहोत्रादीनां च अवश्यानुष्ठेयत्वात् तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरम् — इति हि इमां मतिं निराकरोति, गार्हस्थ्यवदेव आश्रमान्तरमपि अनिच्छता प्रतिपत्तव्यमिति मन्यमानः ।
यत्तूक्तम् — ‘तप एव द्वितीयः’ इत्यादिष्वाश्रमान्तराभिधानं सन्दिग्धमिति । नैष दोषः, निश्चयकारणसद्भावात् ।
‘त्रयो धर्मस्कन्धाः’ (छा. उ. २ । २३ । १)
इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् । न च यज्ञादयो भूयांसो धर्मा उत्पत्तिभिन्नाः सन्तः अन्यत्राश्रमसम्बन्धात् त्रित्वेऽन्तर्भावयितुं शक्यन्ते । तत्र यज्ञादिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टः, ब्रह्मचारीति च स्पष्ट आश्रमनिर्देशः, तप इत्यपि कोऽन्यस्तपःप्रधानादाश्रमात् धर्मस्कन्धोऽभ्युपगम्येत ।
‘ये चेमेऽरण्ये’ (छा. उ. ५ । १० । १)
इति च अरण्यलिङ्गात् श्रद्धातपोभ्यामाश्रमगृहीतिः । तस्मात् परमार्शेऽप्यनुष्ठेयमाश्रमान्तरम् ॥ १९ ॥
विधिर्वा धारणवत् ॥ २० ॥
விதிர்வா தாரணவத் ॥ 20 ॥
विधिर्वा अयमाश्रमान्तरस्य, न परामर्शमात्रम् । ननु विधित्वाभ्युपगमे एकवाक्यताप्रतीतिरुपरुध्येत । प्रतीयते च अत्र एकवाक्यता — पुण्यलोकफलास्त्रयो धर्मस्कन्धाः, ब्रह्मसंस्थता त्वमृतत्वफलेति — सत्यमेतत्; सतीमपि तु एकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्यः, अपूर्वत्वात् , विध्यन्तरस्यादर्शनात् , विस्पष्टाच्चाश्रमान्तरप्रत्ययात् गुणवादकल्पनया एकवाक्यत्वयोजनानुपपत्तेः । धारणवत् —
यथा ‘अधस्तात्समिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयति’ इत्यत्र सत्यामप्यधोधारणेन एकवाक्यताप्रतीतौ, विधीयत एव उपरिधारणम् , अपूर्वत्वात्; तथा च उक्तं शेषलक्षणे
‘विधिस्तु धारणेऽपूर्वत्वात्’ (जै. सू. ३ । ४ । १५)
इति । तद्वत् इहापि आश्रमपरामर्शश्रुतिः विधिरेवेति कल्प्यते ॥
यदापि परामर्श एवायमाश्रमान्तराणाम् , तदापि ब्रह्मसंस्थता तावत् , संस्तवसामर्थ्यादवश्यं विधेया अभ्युपगन्तव्या । सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचित् , आहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् । यदि च ब्रह्मचार्यन्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टः, ततश्चतुर्णामप्याश्रमाणां परामृष्टत्वाविशेषात् अनाश्रमित्वानुपपत्तेश्च यः कश्चिच्चतुर्ष्वाश्रमेषु ब्रह्मसंस्थो भविष्यति । अथ न परामृष्टः, ततः परिशिष्यमाणः परिव्राडेव ब्रह्मसंस्थ इति सेत्स्यति ।
तत्र तपःशब्देन वैखानसग्राहिणा परामृष्टः परिव्राडपि इति केचित् । तदयुक्तम्; न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति । यथा अत्र ब्रह्मचारिगृहमेधिनौ असाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितौ, एवं भिक्षुवैखानसावपीति युक्तम् । तपश्च असाधारणो धर्मो वानप्रस्थानां कायक्लेशप्रधानत्वात् , तपःशब्दस्य तत्र रूढेः । भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तपःशब्देनाभिलप्यते । चतुष्ट्वेन च प्रसिद्धा आश्रमाः त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।
अपि च भेदव्यपदेशोऽत्र भवति — त्रय एते पुण्यलोकभाजः, एकोऽमृतत्वभागिति । पृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते । न ह्येवं भवति — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, अन्यतरस्त्वनयोर्महाप्रज्ञ इति । भवति त्वेवम् — देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ, विष्णुमित्रस्तु महाप्रज्ञ इति । तस्मात् पूर्वे त्रय आश्रमिणः पुण्यलोकभाजः, परिशिष्यमाणः परिव्राडेवामृतत्वभाक् ।
कथं पुनः ब्रह्मसंस्थशब्दो योगात्प्रवर्तमानः सर्वत्र सम्भवन् परिव्राजक एवावतिष्ठेत ? रूढ्यभ्युपगमे च आश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति; अत्रोच्यते — ब्रह्मसंस्थ इति हि ब्रह्मणि परिसमाप्तिः अनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते । तच्च त्रयाणामाश्रमाणां न सम्भवति, स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् । परिव्राजकस्य तु सर्वकर्मसंन्यासात् प्रत्यवायो न सम्भवति अननुष्ठाननिमित्तः । शमदमादिस्तु तदीयो धर्मो ब्रह्मसंस्थताया उपोद्बलकः, न विरोधी । ब्रह्मनिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं स्वाश्रमविहितं कर्म । यज्ञादीनि च इतरेषाम् । तद्व्यतिक्रमे च तस्य प्रत्यवायः ।
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ २१ ॥
ஸ்துதிமாத்ரமுபாதாநாதிதி சேந்நாபூர்வத்வாத் ॥ 21 ॥
इति चेत् , नेत्याह । न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तम् , अपूर्वत्वात् । विध्यर्थतायां हि अपूर्वोऽर्थो विहितो भवति । स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् । विधायकस्य हि शब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तम्
‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’(जै॰सू॰ १-२-७)
इत्यत्र । प्रदेशान्तरविहितानां तु उद्गीथादीनाम् इयं प्रदेशान्तरपठिता स्तुतिः वाक्यशेषभावमप्रतिपद्यमाना अनर्थिकैव स्यात् । ‘इयमेव जुहूः’ इत्यादि तु विधिसन्निधावेवाम्नातमिति वैषम्यम् । तस्मात् विध्यर्था एव एवंजातीयकाः श्रुतयः ॥ २१ ॥
भावशब्दाच्च ॥ २२ ॥
பாவசப்தாச்ச ॥ 22 ॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ २३ ॥
பாரிப்லவார்தா இதி சேந்ந விசேஷிதத்வாத் ॥ 23 ॥
किमिमानि पारिप्लवप्रयोगार्थानि, आहोस्वित्सन्निहितविद्याप्रतिपत्त्यर्थानीति । पारिप्लवार्था इमा आख्यानश्रुतयः, आख्यानसामान्यात् , आख्यानप्रयोगस्य च पारिप्लवे चोदितत्वात् । ततश्च विद्याप्रधानत्वं वेदान्तानां न स्यात् , मन्त्रवत् प्रयोगशेषत्वादिति चेत् —
तन्न । कस्मात् ? विशेषितत्वात् — ‘पारिप्लवमाचक्षीत’ इति हि प्रकृत्य, ‘मनुर्वैवस्वतो राजा’ इत्येवमादीनि कानिचिदेव आख्यानानि तत्र विशेष्यन्ते । आख्यानसामान्याच्चेत् सर्वगृहीतिः स्यात् , अनर्थकमेवेदं विशेषणं भवेत् । तस्मात् न पारिप्लवार्था एता आख्यानश्रुतयः ॥ २३ ॥
तथा चैकवाक्यतोपबन्धात् ॥ २४ ॥
ததா சைகவாயதோபபந்தாத் ॥ 24 ॥
असति च पारिप्लवार्थत्वे आख्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या, एकवाक्यतोपबन्धात् । तथा हि तत्र तत्र सन्निहिताभिर्विद्याभिरेकवाक्यता दृश्यते प्ररोचनोपयोगात् प्रतिपत्तिसौकर्योपयोगाच्च ।
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ २५ ॥
அத ஏவ சாக்நீந்தநாத்யநபேக்ஷ ॥ 25 ॥
‘पुरुषार्थोऽतः शब्दात्’ (ब्र. सू. ३ । ४ । १)
इत्येतत् व्यवहितमपि सम्भवात् ‘अतः’ इति परामृश्यते । अत एव च विद्यायाः पुरुषार्थहेतुत्वात् अग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीति आद्यस्यैवाधिकरणस्य फलमुपसंहरत्यधिकविवक्षया ॥ २५ ॥
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ २६ ॥
ஸர்வாபேக்ஷா ச யஜ்ஞாதிச்ருதேரச்வவத் ॥ 26 ॥
इदमिदानीं चिन्त्यते — किं विद्याया अत्यन्तमेवानपेक्षा आश्रमकर्मणाम् , उत अस्ति काचिदपेक्षेति । तत्र अत एवाग्नीन्धनादीन्याश्रमकर्माणि विद्यया स्वार्थसिद्धौ नापेक्ष्यन्ते, इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायाम् , इदमुच्यते — सर्वापेक्षा चेति । अपेक्षते च विद्या सर्वाण्याश्रमकर्माणि, नात्यन्तमनपेक्षैव ।
स्मृतिरपि — ‘कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः । कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’ इत्येवमाद्या । अश्ववदिति योग्यतानिदर्शनम् — यथा च योग्यतावशेन अश्वो न लाङ्गलाकर्षणे युज्यते, रथचर्यायां तु युज्यते, एवमाश्रमकर्माणि विद्यया फलसिद्धौ नापेक्ष्यन्ते, उत्पत्तौ च अपेक्ष्यन्त इति ॥ २६ ॥
शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॥ २७ ॥
சமதமமாத்யுபேத: ஸ்யாத்ததாஅபி து தத்விதேஸ்ததங்கதயா தே ஷாமவச்யா நுஷ்டேயத்வாத் ॥ 27 ॥
ननु अत्रापि शमाद्युपेतो भूत्वा पश्यतीति वर्तमानापदेश उपलभ्यते, न विधिः ; नेति ब्रूमः, ‘तस्मात्’ इति प्रकृतप्रशंसापरिग्रहाद्विधित्वप्रतीतेः । ‘पश्येत्’ इति च माध्यन्दिना विस्पष्टमेव विधिमधीयते । तस्मात् यज्ञाद्यनपेक्षायामपि शमादीन्यपेक्षितव्यानि । यज्ञादीन्यपि तु अपेक्षितव्यानि, यज्ञादिश्रुतेरेव ।
ननु उक्तम् — यज्ञादिभिर्विविदिषन्तीत्यत्र न विधिरुपलभ्यत इति — सत्यमुक्तम्; तथापि तु अपूर्वत्वात्संयोगस्य विधिः परिकल्प्यते । न हि अयं यज्ञादीनां विविदिषासंयोगः पूर्वं प्राप्तः, येनानूद्येत । ‘तस्मात्पूषा प्रपिष्टभागोऽदन्तको हि’ इत्येवमादिषु च अश्रुतविधिकेष्वपि वाक्येषु अपूर्वत्वाद्विधिं परिकल्प्य,
‘पौष्णं पेषणं विकृतौ प्रतीयेत’ (शाब. भा. ३ । ३ । ३४)
— इत्यादिविचारः प्रथमे तन्त्रे प्रवर्तितः । तथा च उक्तम्
‘विधिर्वा धारणवत्’ (ब्र. सू. ३ । ४ । २०)
इति ।
स्मृतिष्वपि भगवद्गीताद्यासु अनभिसन्धाय फलम् अनुष्ठितानि यज्ञादीनि मुमुक्षोर्ज्ञानसाधनानि भवन्तीति प्रपञ्चितम् । तस्माद्यज्ञादीनि शमदमादीनि च यथाश्रमं सर्वाण्येव आश्रमकर्माणि विद्योत्पत्तावपेक्षितव्यानि । तत्रापि ‘एवंवित्’ इति विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि, विविदिषासंयोगात्तु बाह्यतराणि यज्ञादीनीति विवेक्तव्यम् ॥ २७ ॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ २८ ॥
ஸர்வான்னானுமதிச்ச ப்ராணாத்யயே தத்தர்சநாத் ॥ 28 ॥
विधिरिति तावत्प्राप्तम् । तथा हि प्रवृत्तिविशेषकर उपदेशो भवति । अतः प्राणविद्यासन्निधानात् तदङ्गत्वेन इयं नियमनिवृत्तिरुपदिश्यते । ननु एवं सति भक्ष्याभक्ष्यविभागशास्त्रव्याघातः स्यात् — नैष दोषः, सामान्यविशेषभावात् बाधोपपत्तेः । यथा प्राणिहिंसाप्रतिषेधस्य पशुसंज्ञपनविधिना बाधः, यथा च
‘न काञ्चन परिहरेत्तद्व्रतम्’ (छा. उ. २ । १३ । २)
इत्यनेन वामदेव्यविद्याविषयेण सर्वस्त्र्यपरिहारवचनेन सामान्यविषयं गम्यागम्यविभागशास्त्रं बाध्यते — एवमनेनापि प्राणविद्याविषयेण सर्वान्नभक्षणवचनेन भक्ष्याभक्ष्यविभागशास्त्रं बाध्येतेत्येवं प्राप्ते ब्रूमः —
नेदं सर्वान्नानुज्ञानं विधीयत इति । न हि अत्र विधायकः शब्द उपलभ्यते,
‘न ह वा एवंविदि किञ्चनानन्नं भवति’ (छा. उ. ५ । २ । १)
इति वर्तमानापदेशात् । न च असत्यामपि विधिप्रतीतौ प्रवृत्तिविशेषकरत्वलोभेनैव विधिरभ्युपगन्तुं शक्यते । अपि च श्वादिमर्यादं प्राणस्यान्नमित्युक्त्वा, इदमुच्यते — नैवंविदः किञ्चिदनन्नं भवतीति । न च श्वादिमर्यादमन्नं मानुषेण देहेनोपभोक्तुं शक्यते । शक्यते तु प्राणस्यान्नमिदं सर्वमिति विचिन्तयितुम् ।
तस्मात् प्राणान्नविज्ञानप्रशंसार्थोऽयमर्थवादः, न सर्वान्नानुज्ञानविधिः । तद्दर्शयति — ‘सर्वान्नानुमतिश्च प्राणात्यये’ इति । एतदुक्तं भवति — प्राणात्यय एव हि परस्यामापदि सर्वमन्नमदनीयत्वेनाभ्यनुज्ञायते, तद्दर्शनात् । तथा हि श्रुतिः चाक्रायणस्य ऋषेः कष्टायामवस्थायाम् अभक्ष्यभक्षणे प्रवृत्तिं दर्शयति
‘मटचीहतेषु कुरुषु’ (छा. उ. १ । १० । १)
इत्यस्मिन् ब्राह्मणे — चाक्रायणः किल ऋषिः आपद्गतः इभ्येन सामिखादितान्कुल्माषांश्चखाद । अनुपानं तु तदीयम् उच्छिष्टदोषात्प्रत्याचचक्षे । कारणं चात्रोवाच
‘न वा अजीविष्यमिमानखादन्’ (छा. उ. १ । १० । ४)
इति,
‘कामो म उदपानम्’ (छा. उ. १ । १० । ४)
इति च । पुनश्च उत्तरेद्युः तानेव स्वपरोच्छिष्टान्पर्युषितान्कुल्माषान् भक्षयांबभूव — इति ।
तदेतत् उच्छिष्टोच्छिष्टपर्युषितभक्षणं दर्शयन्त्याः श्रुतेः आशयातिशयो लक्ष्यते — प्राणात्ययप्रसङ्गे प्राणसन्धारणाय अभक्ष्यमपि भक्षयितव्यमिति; स्वस्थावस्थायां तु तन्न कर्तव्यं विद्यावतापि — इत्यनुपानप्रत्याख्यानाद्गम्यते । तस्मात् अर्थवादः
‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १)
इत्येवमादिः ॥ २८ ॥
अबाधाच्च ॥ २९ ॥
அபாதாச்ச ॥ 29 ॥
एवं च सति ‘आहारशुद्धौ सत्त्वशुद्धिः’ इत्येवमादि भक्ष्याभक्ष्यविभागशास्त्रम् अबाधितं भविष्यति ॥ २९ ॥
अपि च स्मर्यते ॥ ३० ॥
அபிச ஸ்மர்யதே ॥ 30 ॥
अपि च आपदि सर्वान्नभक्षणमपि स्मर्यते विदुषोऽविदुषश्च अविशेषेण —
‘जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा’ (म.स्मृ. १० । १०४)
इति । तथा
‘मद्यं नित्यं ब्राह्मणः’ (गौ॰ध॰सू॰ १-२-२५)
,
‘सुरापस्य ब्राह्मणस्योष्णामासिञ्चेयुः’ (गौ. ध. सू. ३ । ५ । १)
, ‘सुरापाः कृमयो भवन्त्यभक्ष्यभक्षणात्’ इति च स्मर्यते वर्जनमनन्नस्य ॥ ३० ॥
शब्दश्चातोऽकामकारे ॥ ३१ ॥
சப்தச்சாதோஅகாமகாரே ॥ 31 ॥
शब्दश्च अनन्नस्य प्रतिषेधकः कामकारनिवृत्तिप्रयोजनः कठानां संहितायां श्रूयते — ‘तस्माद्ब्राह्मणः सुरां न पिबेत्’ इति । सोऽपि
‘न ह वा एवंविदि’ (छा. उ. ५ । २ । १)
इत्यस्यार्थवादत्वात् उपपन्नतरो भवति । तस्मादेवंजातीयका अर्थवादा न विधय इति ॥ ३१ ॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३२ ॥
விஹிதத்வாச்சஆச்ரமகர்மாபி ॥ 32 ॥
इत्यस्यां प्राप्तौ, पठति — आश्रममात्रनिष्ठस्याप्यमुमुक्षोः कर्तव्यान्येव नित्यानि कर्माणि, ‘यावज्जीवमग्निहोत्रं जुहोति’ इत्यादिना विहितत्वात्; न हि वचनस्यातिभारो नाम कश्चिदस्ति ॥ ३२ ॥
अथ यदुक्तम् — नैवं सति विद्यासाधनत्वमेषां स्यादिति, अत उत्तरं पठति —
सहकारित्वेन च ॥ ३३ ॥
ஸஹகாரித்வேந ச ॥ 33 ॥
न च अत्र नित्यानित्यसंयोगविरोध आशङ्क्यः, कर्माभेदेऽपि संयोगभेदात् । नित्यो हि एकः संयोगो यावज्जीवादिवाक्यकल्पितः, न तस्य विद्याफलत्वम् । अनित्यस्तु अपरः संयोगः
‘तमेतं वेदानुवचनेन’ (बृ. उ. ४ । ४ । २२)
इत्यादिवाक्यकल्पितः, तस्य विद्याफलत्वम् — यथा एकस्यापि खादिरत्वस्य नित्येन संयोगेन क्रत्वर्थत्वम् , अनित्येन संयोगेन पुरुषार्थत्वम् , तद्वत् ॥ ३३ ॥
सर्वथापि त एवोभयलिङ्गात् ॥ ३४ ॥
ஸர்வதாஅபி த ஏவோபயலிங்காத் ॥ 34 ॥
सर्वथापि आश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च, त एव अग्निहोत्रादयो धर्मा अनुष्ठेयाः । ‘त एव’ इत्यवधारयन्नाचार्यः किं निवर्तयति ? कर्मभेदशङ्कामिति ब्रूमः । यथा कुण्डपायिनामयने ‘मासमग्निहोत्रं जुह्वति’ इत्यत्र नित्यादग्निहोत्रात्कर्मान्तरमुपदिश्यते, नैवमिह कर्मभेदोऽस्तीत्यर्थः ।
कुतः ? उभयलिङ्गात् — श्रुतिलिङ्गात्स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् —
‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ. उ. ४ । ४ । २२)
इति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते, न तु ‘जुह्वति’ इत्यादिवत् अपूर्वमेषां रूपमुत्पादयतीति । स्मृतिलिङ्गमपि —
‘अनाश्रितः कर्मफलं कार्यं कर्म करोति यः’ (भ. गी. ६ । १)
इति विज्ञातकर्तव्यताकमेव कर्म विद्योत्पत्त्यर्थं दर्शयति ।
‘यस्यैतेऽष्टाचत्वारिंशत्संस्काराः’ (गौ. ध. सू. १ । ८ । २५)
इत्याद्या च संस्कारत्वप्रसिद्धिः वैदिकेषु कर्मसु तत्संस्कृतस्य विद्योत्पत्तिमभिप्रेत्य स्मृतौ भवति । तस्मात्साध्विदम् अभेदावधारणम् ॥ ३४ ॥
अनभिभवं च दर्शयति ॥ ३५ ॥
அநபிபவம் ச தர்சயதி ॥ 35 ॥
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
அந்தரா சாபி து தத்த்ருஷ்டே: ॥ 36 ॥
विधुरादीनां द्रव्यादिसम्पद्रहितानां च अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्ति — इति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम् — इत्येवं प्राप्ते, इदमाह — अन्तरा चापि तु — अनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियते । कुतः ? तद्दृष्टेः — रैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥
अपि च स्मर्यते ॥ ३७ ॥
அபி ச ஸ்மர்யதே ॥ 37 ॥
संवर्तप्रभृतीनां च नग्नचर्यादियोगात् अनपेक्षिताश्रमकर्मणामपि महायोगित्वं स्मर्यत इतिहासे ॥ ३७ ॥
ननु लिङ्गमिदं श्रुतिस्मृतिदर्शनमुपन्यस्तम् । का नु खलु प्राप्तिरिति, सा अभिधीयते —
विशेषानुग्रहश्च ॥ ३८ ॥
விசே ஷாநுக்ரஹாச்ச ॥ 38 ॥
तेषामपि च विधुरादीनाम् अविरुद्धैः पुरुषमात्रसम्बन्धिभिर्जपोपवासदेवताराधनादिभिर्धर्मविशेषैरनुग्रहो विद्यायाः सम्भवति । तथा च स्मृतिः —
‘जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते’ (म. स्मृ. २ । ८७)
इति असम्भवदाश्रमकर्मणोऽपि जप्येऽधिकारं दर्शयति ।
जन्मान्तरानुष्ठितैरपि च आश्रमकर्मभिः सम्भवत्येव विद्याया अनुग्रहः । तथा च स्मृतिः —
‘अनेकजन्मसंसिद्धस्ततो याति परां गतिम्’ (भ. गी. ६ । ४५)
इति जन्मान्तरसञ्चितानपि संस्कारविशेषान् अनुग्रहीतॄन् विद्यायां दर्शयति । दृष्टार्था च विद्या प्रतिषेधाभावमात्रेणापि अर्थिनमधिकरोति श्रवणादिषु । तस्मात् विधुरादीनामप्यधिकारो न विरुध्यते ॥ ३८ ॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३९ ॥
அதஸ்த்விதரஜ்ஜ்யாயோ லிங்காச்ச ॥ 39 ॥
अतस्तु अन्तरालवर्तित्वात् इतरत् आश्रमवर्तित्वं ज्यायो विद्यासाधनम् , श्रुतिस्मृतिसन्दृष्टत्वात् । श्रुतिलिङ्गाच्च —
‘तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च’ (बृ. उ. ४ । ४ । ९)
इति ।
‘अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः । संवत्सरमनाश्रमी स्थित्वा कृच्छ्रमेकं चरेत्’(द॰स्मृ॰ १-१०)
इति च स्मृतिलिङ्गात् ॥ ३९ ॥
तद्भूतस्य तु नातद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॥ ४० ॥
தத்3பூதஸ்ய து நாதத்பாவோ ஜைமிநேரபி நியமாதத்ரூ பாபாவேப்புய: ॥ 40 ॥
सन्ति ऊर्ध्वरेतस आश्रमा इति स्थापितम् । तांस्तु प्राप्तस्य कथञ्चित् ततः प्रच्युतिरस्ति, नास्ति वेति संशयः । पूर्वकर्मस्वनुष्ठानचिकीर्षया वा रागादिवशेन वा प्रच्युतोऽपि स्यात् विशेषाभावादित्येवं प्राप्ते, उच्यते —
तद्भूतस्य तु प्रतिपन्नोर्ध्वरेतोभावस्य न कथञ्चिदपि अतद्भावः, न ततः प्रच्युतिः स्यात् । कुतः ? नियमातद्रूपाभावेभ्यः । तथा हि —
‘अत्यन्तमात्मानमाचार्यकुलेऽवसादयन्’ (छा. उ. २ । २३ । १)
इति, ‘अरण्यमियादिति पदं ततो न पुनरेयादित्युपनिषत्’ इति,
‘आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम् । आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि’(म॰भा॰ १२-२३४-४)
इति च एवंजातीयको नियमः प्रच्युत्यभावं दर्शयति ।
यत्तु पूर्वकर्मस्वनुष्ठानचिकीर्षया प्रत्यवरोहणमिति, तदसत् —
‘श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ (भ. गी. ३ । ३५)
इति स्मरणात् , न्यायाच्च — यो हि यं प्रति विधीयते स तस्य धर्मः, न तु यो येन स्वनुष्ठातुं शक्यते । चोदनालक्षणत्वाद्धर्मस्य । न च रागादिवशात्प्रच्युतिः, नियमशास्त्रस्य बलीयस्त्वात् । जैमिनेरपीति अपिशब्देन जैमिनिबादरायणयोरत्र सम्प्रतिपत्तिं शास्ति प्रतिपत्तिदार्ढ्याय ॥ ४० ॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ४१ ॥
நசாஆதிகாரிகமபி பதநாநுமாநாத்ததயோகாத் ॥ 41 ॥
यदि नैष्ठिको ब्रह्मचारी प्रमादादवकीर्येत, किं तस्य ‘ब्रह्मचार्यवकीर्णी गर्दभमालभेत’ इत्येतत्प्रायश्चित्तं स्यात् , उत नेति । नेत्युच्यते; यदपि अधिकारलक्षणे निर्णीतं प्रायश्चित्तम्
‘अवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तकालत्वात्’ (जै. सू. ६ । ८ । २२)
इति, तदपि न नैष्ठिकस्य भवितुमर्हति ।
किं कारणम् ?
‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४)
इति अप्रतिसमाधेयपतनस्मरणात् छिन्नशिरस इव प्रतिक्रियानुपपत्तेः । उपकुर्वाणस्य तु तादृक्पतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥ ४१ ॥
उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४२ ॥
உபபூர்வமபி த்வேகே பாவமசனவத்ததுதிக்தம் ॥ 42 ॥
अपि तु एके आचार्या उपपातकमेवैतदिति मन्यन्ते । यत् नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रह्मचर्यं विशीर्येत, न तत् महापातकं भवति, गुरुतल्पादिषु महापातकेष्वपरिगणनात् । तस्मात् उपकुर्वाणवत् नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति, ब्रह्मचारित्वाविशेषात् अवकीर्णित्वाविशेषाच्च ।
अशनवत् — यथा ब्रह्मचारिणो मधुमांसाशने व्रतलोपः पुनः संस्कारश्च, एवमिति । ये हि प्रायश्चित्तस्याभावमिच्छन्ति, तेषां न मूलमुपलभ्यते । ये तु भावमिच्छन्ति, तेषां ‘ब्रह्मचार्यवकीर्णी’ इत्येतदविशेषश्रवणं मूलम् । तस्मात् भावो युक्ततरः । तदुक्तं प्रमाणलक्षणे —
‘समा विप्रतिपत्तिः स्यात्’ (जै. सू. १ । ३ । ८)
‘शास्त्रस्था वा तन्निमित्तत्वात्’ (जै. सू. १ । ३ । ९)
इति ।
प्रायश्चित्ताभावस्मरणं तु एवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् । एवं भिक्षुवैखानसयोरपि —
‘वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेत्’ ,‘भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्च’(व॰ध॰ २१-३५,३६)
इत्येवमादि प्रायश्चित्तस्मरणम् अनुसर्तव्यम् ॥ ४२ ॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ४३ ॥
பஹிஸ்தூபயதாஅபி ஸ்ம்ருதேராசாராச்ச ॥ 43 ॥
यदि ऊर्ध्वरेतसां स्वाश्रमेभ्यः प्रच्यवनं महापातकम् , यदि वा उपपातकम् , उभयथापि शिष्टैस्ते बहिष्कर्तव्याः —
‘आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महा’(अ॰पु॰ १६५-२३,२४)
इति, ‘आरूढपतितं विप्रं मण्डलाच्च विनिःसृतम् । उद्बद्धं कृमिदष्टं च स्पृष्ट्वा चान्द्रायणं चरेत्’ इति च एवमादिनिन्दातिशयस्मृतिभ्यः । शिष्टाचाराच्च — न हि यज्ञाध्ययनविवाहादीनि तैः सह आचरन्ति शिष्टाः ॥ ४३ ॥
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
ஸ்வாமிந: பலச்ருதேரித்யாத்ரேய: ॥ 44 ॥
आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४५ ॥
ஆர்த்விஜ்யமித்யெளடுலோமிஸ்தஸ்மை ஹி பரிக்ரீயதே ॥ 45 ॥
नैतदस्ति — स्वामिकर्माण्युपासनानीति । ऋत्विक्कर्माण्येतानि स्युः — इत्यौडुलोमिराचार्यो मन्यते । किं कारणम् ? तस्मै हि साङ्गाय कर्मणे यजमानेन ऋत्विक् परिक्रीयते । तत्प्रयोगान्तःपातीनि च उद्गीथाद्युपासनानि अधिकृताधिकारत्वात् । तस्मात् गोदोहनादिनियमवदेव ऋत्विग्भिर्निर्वर्त्येरन् ।
श्रुतेश्च ॥ ४६ ॥
ச்ருதேச்ச ॥ 46 ॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ४७ ॥
ஸஹகார்யந்தரவிதி பக்ஷேண த்ரீதீயம் தத்த்வதோ வித்யாதிவத் ॥ 47 ॥
न विधीयत इति तावत्प्राप्तम् , ‘बाल्येन तिष्ठासेत्’ इत्यत्रैव विधेरवसितत्वात् । न हि ‘अथ मुनिः’ इत्यत्र विधायिका विभक्तिरुपलभ्यते । तस्मादयमनुवादो युक्तः । कुतः प्राप्तिरिति चेत् — मुनिपण्डितशब्दयोर्ज्ञानार्थत्वात् ‘पाण्डित्यं निर्विद्य’ इत्येव प्राप्तं मौनम् । अपि च ‘अमौनं च मौनं च निर्विद्याथ ब्राह्मणः’ इत्यत्र तावत् न ब्राह्मणत्वं विधीयते, प्रागेव प्राप्तत्वात् । तस्मात् ‘अथ ब्राह्मणः’ इति प्रशंसावादः, तथैव ‘अथ मुनिः’ इत्यपि भवितुमर्हति, समाननिर्देशत्वादित्येवं प्राप्ते ब्रूमः —
सहकार्यन्तरविधिरिति । विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवद्विधिरेव आश्रयितव्यः, अपूर्वत्वात् । ननु पाण्डित्यशब्देनैव मौनस्यावगतत्वमुक्तम् — नैष दोषः, मुनिशब्दस्य ज्ञानातिशयार्थत्वात् , मननान्मुनिरिति च व्युत्पत्तिसम्भवात् ,
‘मुनीनामप्यहं व्यासः’ (भ. गी. १० । ३७)
इति च प्रयोगदर्शनात् । ननु मुनिशब्द उत्तमाश्रमवचनोऽपि श्रूयते ‘गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्’ इत्यत्र — न, ‘वाल्मीकिर्मुनिपुङ्गवः’ इत्यादिषु व्यभिचारदर्शनात् । इतराश्रमसन्निधानात्तु पारिशेष्यात् तत्र उत्तमाश्रमोपादानम् , ज्ञानप्रधानत्वादुत्तमाश्रमस्य ।
तस्मात् बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते । यत्तु बाल्य एव तथापि अपूर्वत्वान्मुनित्वस्य विधेयत्वमाश्रीयते — मुनिः स्यादिति । निर्वेदनीयत्वनिर्देशादपि मौनस्य बाल्यपाण्डित्यवद्विधेयत्वाश्रयणम् । तद्वतः विद्यावतः संन्यासिनः । कथं च विद्यावतः संन्यासिन इत्यवगम्यते ? तदधिकारात् — आत्मानं विदित्वा पुत्राद्येषणाभ्यो व्युत्थाय ‘अथ भिक्षाचर्यं चरन्ति’ इति ।
ननु सति विद्यावत्त्वे प्राप्नोत्येव तत्रातिशयः, किं मौनविधिना — इत्यत आह — पक्षेणेति । एतदुक्तं भवति — यस्मिन्पक्षे भेददर्शनप्राबल्यात् न प्राप्नोति, तस्मिन् एष विधिरिति । विध्यादिवत् — यथा ‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इत्येवंजातीयके विध्यादौ सहकारित्वेन अग्न्यन्वाधानादिकम् अङ्गजातं विधीयते, एवम् अविधिप्रधानेऽपि अस्मिन्विद्यावाक्ये मौनविधिरित्यर्थः ॥ ४७ ॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४८ ॥
க்ருத்ஸ்நபாவாத்து க்ருஹிணோபஸம்ஹார: ॥ 48 ॥
तुशब्दो विशेषणार्थः । कृत्स्नभावोऽस्य विशेष्यते । बहुलायासानि हि बहून्याश्रमकर्माणि यज्ञादीनि तं प्रति कर्तव्यतयोपदिष्टानि, आश्रमान्तरकर्माणि च यथासम्भवमहिंसेन्द्रियसंयमादीनि तस्य विद्यन्ते । तस्मात् गृहमेधिना उपसंहारो न विरुध्यते ॥ ४८ ॥
मौनवदितरेषामप्युपदेशात् ॥ ४९ ॥
மௌநவதி தரே ஷாமப்யுபதேசாத் ॥ 49 ॥
यथा मौनं गार्हस्थ्यं च एतावाश्रमौ श्रुतिमन्तौ, एवमितरावपि वानप्रस्थगुरुकुलवासौ । दर्शिता हि पुरस्ताच्छ्रुतिः —
‘तप एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी तृतीयः’ (छा. उ. २ । २३ । १)
इत्याद्या । तस्मात् चतुर्णामप्याश्रमाणाम् उपदेशाविशेषात् तुल्यवत् विकल्पसमुच्चयाभ्यां प्रतिपत्तिः । इतरेषामिति द्वयोराश्रमयोर्बहुवचनं वृत्तिभेदापेक्षया अनुष्ठातृभेदापेक्षया वा — इति द्रष्टव्यम् ॥ ४९ ॥
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
அநாவிஷ்குர்வந்நந்வயாத் ॥ 50 ॥
किं तावत्प्राप्तम् ? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् । ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् — न; विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः, पशुहिंसादिष्विवेत्येवं प्राप्ते अभिधीयते —
न, वचनस्य गत्यन्तरसम्भवात् । अविरुद्धे हि अन्यस्मिन् बाल्यशब्दाभिलप्ये लभ्यमाने, न विध्यन्तरव्याघातकल्पना युक्ता । प्रधानोपकाराय च अङ्गं विधीयते । ज्ञानाभ्यासश्च प्रधानमिह यतीनामनुष्ठेयम् । न च सकलायां बालचर्यायामङ्गीक्रियमाणायां ज्ञानाभ्यासः सम्भाव्यते । तस्मात् आन्तरो भावविशेषो बालस्य अप्ररूढेन्द्रियत्वादिः इह बाल्यमाश्रीयते;
तदाह — अनाविष्कुर्वन्निति । ज्ञानाध्ययनधार्मिकत्वादिभिः आत्मानमविख्यापयन् दम्भदर्पादिरहितो भवेत् — यथा बालः अप्ररूढेन्द्रियतया न परेषाम् आत्मानमाविष्कर्तुमीहते, तद्वत् । एवं हि अस्य वाक्यस्य प्रधानोपकार्यर्थानुगम उपपद्यते । तथा च उक्तं स्मृतिकारैः —
‘यं न सन्तं न चासन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥ गूढधर्माश्रितो विद्वानज्ञातचरितं चरेत् । अन्धवज्जडवच्चापि मूकवच्च महीं चरेत्’(व॰स्मृ॰ ६-४०,४१)
,
‘अव्यक्तलिङ्गोऽव्यक्ताचारः’(व॰स्मृ॰ १०-१२)
इति चैवमादि ॥ ५० ॥
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
ஐஹிகமப்யப்ரஸ்துதப்ரதிபழந்தே தத்தர்சநாத் ॥ 51 ॥
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६)
इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रवणादिपूर्विका हि विद्या । न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते । समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —
ऐहिकं विद्याजन्म भवति, असति प्रस्तुतप्रतिबन्ध इति । एतदुक्तं भवति — यदा प्रक्रान्तस्य विद्यासाधनस्य कश्चित्प्रतिबन्धो न क्रियते उपस्थितविपाकेन कर्मान्तरेण, तदा इहैव विद्या उत्पद्यते । यदा तु खलु तत्प्रतिबन्धः क्रियते तदा अमुत्रेति । उपस्थितविपाकत्वं च कर्मणो देशकालनिमित्तोपनिपाताद्भवति । यानि च एकस्य कर्मणो विपाचकानि देशकालनिमित्तानि, तान्येव अन्यस्यापीति न नियन्तुं शक्यते; यतो विरुद्धफलान्यपि कर्माणि भवन्ति । शास्त्रमपि अस्य कर्मण इदं पर्यवसितं न देशकालनिमित्तविशेषमपि सङ्कीर्तयति ।
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
ஏவம் முக்திபலாநியமஸ்ததவஸ்தாவத் த்ருதேஸ்ததவஸ்தாவத்ருதே: ॥ 52 ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् —
अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ । तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात् । उत्कृष्टैव हि विद्या भवति । तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् । न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति ।
सगुणासु तु विद्यासु
‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २)
इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायाम् , गुणाभावात् । तथा च स्मृतिः —
‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०)
इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ शारीरकमीमांसासूत्रभाष्ये
तृतीयोऽध्यायः ॥